Course Content
संस्कृताध्ययनविधि
0/30
Environmental Studies
English Language and Linguistics
National Movement 1
Private: BA Sanskrit
About Lesson

Unit-1

अजन्तपुल्लिङ्गशब्दाः- बाल, हरि, गुरु, पितृ, गौः।

उद्देश्यानि।(Learning Outcomes)

  • संस्कृताध्ययनस्य प्रारम्भाय अवश्यमध्येतव्यानां सुबन्तानां तिङन्तानाञ्च परिचयप्रदानम्।
  • छात्राणां पदसम्पद: प्रवृद्धि:।
  • सरलया रीत्या लोकप्रसिद्धस्य पौराणिकस्य च अस्य संस्कृतस्य महत्त्वमधिकृत्य छात्राणाम् परिचयः भवति।
  • अनायासेन आशयविनिमय: आत्मविश्वासाय भविष्यति। अत: अयं पाठ्यक्रम: छात्राणाम् आत्मप्रत्ययं प्रवर्धयितुम् अपि उद्दिश्शति।
  • अजन्तपुल्लिङ्ग-शब्दानां ज्ञानेन पदसंपदः प्रवृद्धिद्वारा आशयविनिमये सौकर्यप्रदानम्।

प्राग्व्यपेक्षा: (Prerequisites)

अयि सुहृद:,
श्रीनारायणगुरुविशालविश्वविद्यालयस्य नाम्नि य़ुष्मभ्यं सुस्वागतम्। संस्कृतविभागस्य सविशेषं स्वागतमर्पयाम:। संस्कृतपठनप्रणालीनामकं एकं पत्रमस्ति परीक्षायै। तस्मिन् पत्रे षट् भागा: सन्ति। तेषु प्रथम: भवति शब्दरूपाणि इति विभाग:। प्रथमे एकके पाठ्यक्रमे वर्तमाना: अजन्तपुल्लिङ्गशब्दाः।
अस्य भागस्य पठनस्य उद्देश्यानि कानि इति पश्याम:। भाषा आशयविनिमयाय उपयुज्यते। ‘भाष व्यक्तायां वाचि’इत्यस्मात् धातो: भाषापदस्य निष्पत्ति:। भाषा संस्कृतिं बोधयति। भाषाया: अविभाज्यघटकं पदं भवति। किं नाम पदम्? शक्तं पदम्। शक्तिरस्यास्तीति शक्तम्। अस्माद् पदादयमर्थो बोध्यव्य: इति ईश्वरसङ्केत: शक्ति: इति तार्किका:। क्रमानुसारम् अर्थबोधनाय अक्षराणां क्रमीकरणेन पदं जायते। यथा – ‘विद्यालय:’इति पदस्य श्रवणे कश्चनार्थावबोध: अस्माकं मनसि जायते। किन्तु तत्र वर्तमानानाम् अक्षराणां क्रमे व्यतियानमायाति चेद् अर्थबोध: न। ‘लवियद्यां’ अथवा ‘विलद्याय:’ वा भवतु। अर्थव्यक्तता न। अत: अर्थव्यक्त्यनुकूल: अक्षरक्रमीकरणेन पदानि निष्पद्यन्ते।

मुख्यपदानि (Key terms) 

बालः, हरिः, गुरुः, गौः।

Discussion

सुप्तिङन्तं पदम्’इति व्याकरणशास्त्रे। सुबन्तं तिङन्तं च पदसंज्ञं स्यात्। सुप् अन्ते यस्य तत् सुबन्तम्। एकविंशति: सुप्प्रत्यया:। सप्तविभक्तय:। प्रतिविभक्ति त्रीणि वचनानि। एकवचन-द्विवचन-बहुवचनभेदात्। ते प्रत्यया: यथाक्रमम्-

Table 1.1.1

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
सु
अम्
टा
ङे
ङसि
ङस्
ङि

औट्
भ्याम्
भ्याम्
भ्याम्
ओस्
ओस्
जस्
शस्
भिस्
भ्यस्
भ्यस्
आम्
सुप्।

‘सु’ इत्यारभ्य ‘प्’ पर्यन्तं वर्तमाना: प्रत्यया: सुप्प्रत्यया:। सुप् अन्ते यस्य तत् सुबन्तम् इत्युक्तम्। यथा – बाल सु बाल:। बाल औ बालौ। बाल जस् बाला:। विभक्तीनामर्थ: अस्माभि: ज्ञेय:।

Table 1.1.2

विभक्तिः आङ्गलेयार्थः  उदाहरणानि
प्रथमा Name of anything राम:, लता, वनम्।
द्वितीया to रामं, लतां, वनम्।
तृतीया by रामेण, लतया, वनेन।
चतुर्थी for रामाय, लतायै, वनाय।
पञ्चमी from रामात्, लताया:, वनात्।
षष्ठी of रामस्य, लताया:, वनस्य।
सप्तमी in रामे, लतायाम्, वने।

 प्रथमाया: सम्बोधनप्रथमा इति भेदः अस्ति। सम्बोधनासूचकं पदं भवति हे इति।
पदानां रूपाणि सम्यक् पठन्ति चेत् पदस्वाधीनता वर्धते। पदानि मित्राणि भवन्ति। आपदि मित्राणां साहाय्यम् आवश्यकं खलु। सदसि पदानां साहाय्यं महदेव। अकारान्तपुल्लिङ्गशब्दानां पठनेन संस्कृते वर्तमानेषु पदेषु पञ्चाशत् शतमानं पदं ज्ञातुं शक्यते। सर्वनामशब्दानां पठनेन विंशत्यधिकानि पदानि वशीकर्तुं शक्यन्ते। युष्मदस्मद्शब्दयो: पठनेन सम्भाषणं सुकरया रीत्या कर्तुं शक्यते। किम् इति पदपठनेन प्रश्नकरणसामथ्र्यं वर्धते। एवम् अनेकानि प्रयोजनानि सन्तीत्यत: बालादिशब्दानां पठनाय सन्नद्धा: भवन्तु।

Table 1.1.3

अकारान्त: पुंलिङ्ग: ‘बाल’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
बाल:
हे बाल
बालम्
बालेन
बालाय
बालात्
बालस्य
बाले
बालौ
हे बालौ
बालौ
बालाभ्याम्
बालाभ्याम्
बालाभ्याम्
बालयो:
बालयो:
बाला:
हे बाला:
बालान्
बालै:
बालेभ्य:
बालेभ्य:
बालानाम्
बालेषु।

Table 1.1.4

इकारान्त: पुंलिङ्ग:‘हरि’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
हरि:
हे हरे
हरिम्
हरिणा
हरये
हरे:
हरे:
हरौ
हरी
हे हरे
हरी
हरिभ्याम्
हरिभ्याम्
हरिभ्याम्
हर्यो:
हर्यो:
हरय:
हे हरय:
हरीन्
हरिभि:
हरिभ्य:
हरिभ्य:
हरीणाम्
हरिषु।

Table 1.1.5

उकारान्त: पुंलिङ्ग:‘गुरु’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
गुरु:
हे गुरो
गुरुम्
गुरुणा
गुरवे
गुरोे:
गुरो:
गुरा
गुरू
हे गुरू
गुरू
गुरुभ्याम्
गुरुभ्याम्
गुरुभ्याम्
गुर्वो:
गुर्वोेे:
गुरव:
हे गुरव:
गुरून्
गुरुभि:
गुरुभ्य:
गुरुभ्य:
गुरूणाम्
गुरुषु।

Table 1.1.6

ऋकारान्त: पुंलिङ्ग:‘पितृ’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
पिता
हे पित:
पितरम्
पित्रा
पित्रे
पितु:
पितु:
पितरि
पितरौ
हे पितरौ
पितरौ
पितृभ्याम्
पितृभ्याम्
पितृभ्याम्
पित्रोेे:
पित्रोेे:
पितर:
हे पितर:
पितॄन्
पितृभि:
पितृभ्य:
पितृभ्य:
पितॄणाम्
पितृषु

Table 1.1.7

ओकारान्त: पुंलिङ्ग:‘गो’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
गौ:
हे गौः
गाम्
गवा
गवे
गोेे:
गोे:
गवि
गावौ
हे गावौ
गावौ
गोभ्याम्
गोभ्याम्
गोभ्याम्
गवो:
गवोेे:
गाव:
हे गाव:
गा:
गोभि:
गोभ्य:
गोभ्य:
गवाम्
गोषु।

भो: सुहृद:,
कतिपयानां शब्दानां सर्वाणि रूपाणि अस्माभि: पठितानि। तेषां पठनाय यत्न: कार्य:। पठितमपि कार्यं कदाचित् स्मृतिमण्डलात् निर्गच्छति। यदि प्रथमाविभक्तौ रूपाणि स्मृतौ आयान्ति तर्हि इतराणि रूपाणि स्मर्तुं शक्यन्ते। अत: संक्षिप्तीकरणं पठने साहाय्यमित्यत: अत्र लिख्यते।

संक्षिप्तीकरणम्।

विभाग शब्दा: प्रथमायां रूपाणि सदृश: शब्द:




अकारान्त: पुल्लिङ्ग:
इकारान्त: पुल्लिङ्ग:
उकारान्त: पुल्लिङ्ग:
ऋकारान्त: पुल्लिङ्ग:
ओकारान्त: पुल्लिङ्ग:
बाल
कवि
गुरु
पितृ
गो
बाल:- बालौ- बाला:
कवि:- कवी- कवय:
गुरु:- गुरू- गुरव:
पिता-पितरौ- पितर:
गौः -गावौ–गावः
राम,कृष्ण,वृक्ष
हरि, रवि, अग्नि
शम्भु, विष्णु, वायु
धातृ, नप्तृ, नृ

पुनरावृत्तिः (Recap)

  • सुप्तिङन्तं पदम् इति पदसंज्ञं स्यात्।
  • सुप् अन्ते यस्य तत् सुबन्तम्।
  • सुबन्तस्य त्रीणि लिङ्गानि सन्ति।
  • पुल्लिङ्गस्त्रीलिङ्गनपुंसकलिङ्गभेदात्।
  • एकविंशतिः सुप्प्रत्ययाः 
  • सप्त विभक्तयः।
  • प्रतिविभक्ति त्रीणि वचनानि।
  • एकवचन-द्विवचन-बहुवचनभेदात्
  • प्रथमायाः सम्बोधनप्रथमा इति भेदः अस्ति।
  • सम्बोधनासूचकं पदं भवति ‘हे’ इति।

वस्तुनिष्ठप्रश्नाः (Objective type questions)

१. हरिशब्दस्य द्वितीयायां रूपाणि कानि?
२. पितृशब्दस्य तृतीयाविभक्तौ रूपाणि कानि?
३. बालेषु – किं लिङ्गं? का विभक्ति:?
४. गुरुशब्दस्य चतुथ्र्यैकवचनरूपं किम्?
५. हरिशब्दस्य सप्तमीविभक्तौ रूपाणि कानि?
६. पित्रा इति शब्दस्य अन्तलिङ्गविभक्तिवचनानि लिखत।
७. गो शब्दस्य लिङ्गं किम्?
८. गवि इति शब्दस्य अन्तलिङ्गविभक्तिवचनानि लिखत।
९. पितृशब्दस्य सप्तमी- एकवचनरूपं किम्?
१॰.कति सुबन्तप्रत्ययाः?

एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)

१. गुरुशब्दस्य द्वितीयायां तृतीयायं च रूपाणि कानि?
२. पितृशब्दस्य कानि विभक्तिरूपाणि समानानि भवन्ति?

निर्दिष्टाभ्यासः (Assignment)

  1.  सर्वाणि रूपाणि लिखन्तु।
    .हरिशब्द:।
    २.
    शम्भुशब्द:।
    ३.कविशब्दः।
  2. यथेच्छं पञ्च अकारान्तपुंलिङ्गरूपाणि लिखन्तु।

उत्तराणि (Answer to Objective type questions)

१. हरिं – हरी – हरीन्।
२. पित्रा – पितृभ्यां – पितृभि:।
३. बालेषु – अकारान्त: पुल्लिङ्ग: सप्तमी बहुवचनम्।
४. गुरवे इति।
५. हरौ – हर्योः – हरिषु
६. ऋकारान्तः पुल्लिङ्गः तृतीया एकवचनम्
७. पुंलिङ्गः।
८. ओकारान्तः पुल्लिङ्गः गो शब्दः सप्तमी एकवचनम्।
९. पितरि।
१॰. एकविंशतिः।

अधिकवाचनाय ग्रन्थाः (suggested Readings)

१. रामचन्द्र झा, रूपचन्द्रिका, चौखम्बासंस्कृतसीरीस् ओफीस्, वाराणसि.2011।
२. भट्टोजिदीक्षित: वैयाकरणसिद्धान्तकौमुदी, बालमनोरमामुद्रणं, तृतीय: भाग:, चौखम्बा संस्कृतसीरीस्    ओफीस्, वाराणसि, 1969।
३. विद्यासागर् के.एल्.वी शास्त्री, शब्दमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्।