Unit-1
बालकाण्डम्-(खण्डिका1-5)
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
हे छात्रा:, संस्कृतपत्रस्य प्रथमे सत्रे (semester) कार्ये कियत्पर्यन्तम् अस्माभि: पठितम्? छात्रा: – शब्दपरिचयार्थं कतिपयानां शब्दानां रूपाणि। अध्यापक: – पुन:? छात्रा: – क्रियापदज्ञानार्थं कतिपयानां धातूनां सर्वेषु लकारेषु वर्तमानानि रूपाणि। अध्यापक: – आम्। पुन:? छात्रा: – रघुवंशस्था: केचन श्लोका:। अध्यापक: – जानाम्यहम्। इदानीं कश्चित् भाग: अवशिष्यते। बालरामायणादेक: भाग: पठनीय:। सांस्कारिकं महत्त्वं प्रत्यभिजानाति। भवतु नाम। प्रश्ना: सम्भावितोत्तराणि च आदिकाव्यं किम्? रामायणम् आदिकाव्यं भवति। आदिकवि: क:? आदिकवि: वाल्मीकि: भवति। रामायणस्य सविशेषता: का:? (एकैकं सूचयतु) १. आर्षसंस्कारसूचकम्। २.लोकसाहित्ये समुन्नतं स्थानं वहति। ३. भारतीयानां चित्तेषु स्थिरप्रतिष्ठां प्रापु:। ४. भारतीयानां ऐक्यस्य आधारशिला। ५. उत्तमं सौन्दर्यानुभूतिदायकं च भवति। भवतु तावत्। रामायणे किं वर्णयति? रामायणे रामस्य सीताया: च वृत्तान्तं वर्णयति। रामायणसम्बद्धा: अनेके कार्या: सन्ति। तेषु अवश्यमस्माभि: ज्ञेयानि कार्याणि वयं विशदीकरिष्याम:। |
मुख्यपदानि (Key terms)
पावनम्, अयोध्या नगरी, दशरथो नाम राजर्षिः, वसिष्ठः, यज्ञकर्म, पायसं, साङ्गेषु वेदेषु, समभूजयत्।
Discussion
भारते रामायणप्रभावेन संजाता: ग्रन्था: सहस्रसंख्यका: भवन्ति। केरलेषु अपि रामायणप्रभावेन सञ्जाता: संस्कृतग्रन्था: अनेके सन्ति। तेषु अन्यतमं भवति अनन्तनारायणशास्त्रिमहोदयेन रचितं बालरामायणम् इति गद्यकाव्यम्।बालरामायणस्य कर्ता भवति पि.एस्.अनन्तनारायणशास्त्री। स: महाशय: केरलेषु तृश्शिवपुरे पुतुक्कोट् देशे 1885 तमे वर्षे अजायत। पिता सीतारामय्य:, माता नारायणी अम्मा च आस्ताम्। तस्य गुरव: पुतुक्कोट्टु रामशास्त्री, वाटानुक्कुरिश्शि नारायणशास्त्री, पुन्नश्शेरि नम्पी, नीलकण्ठशर्मा, आर्.वी.कृष्णमाचार्य: चासन्। सोऽयं महाभाग: 1909 तमे वर्षे तृप्पूणित्तुरा़ विद्वत्सदस: पण्डितराज: इति बिरुदं सम्पादितवान्। एरणाकुले महाराजमहाविद्यालये संस्कृताध्यापकेन विराजमान: स: 1946 तमे वर्षे दिवंगत:।
बहुभाषापण्डित: प्रसाधक: निरूपक: इत्येवं रूपेण जाज्वल्यमान: स: अनेकानां ग्रन्थानां व्याख्यानमपि रचितवान्। अस्य योगदानं संक्षिप्ततया अधो दीयते।
संस्कृतभाषायाम् व्याख्याग्रन्था:
१. कोकिलसन्देश: विवृति:-अच्युतपिषारटिन:प्रवेशकस्य व्यख्या
२. कृष्णविजयम् अनुस्वानम् – भगवद्गीताया: व्यख्यानम्
३. तर्कसार: देवीमाहात्म्यम्
४. बालरामायणम् नारायणीयम्
५. वाक्यतत्वम् मेघसन्देशविमर्शनम्
६. विटराजविजयम्
एषु अनुस्वानं, देवीमाहात्म्यं, नारायणीयं मेघसन्देशविवर्तनं च कैरल्यां वर्तमानानि व्याख्यानानि भवन्ति।
मङ्गलश्लोकमवतरति – कल्याणानां निधानमिति। यत्किमपि मङ्गलकार्याचरणसमये भारतीया: मङ्गलाचरणं कुर्वन्ति। किमर्थम्? निर्विघ्नपरिसमाप्त्यर्थम्। पुस्तकरचनावसरे बहुविधा: विघ्ना: कदाचित् सम्भवेयु:। तादृशानां विघ्नानां निवारणाय पूर्वसूरय: मङ्गलमाचरन्ति। इष्टदेवतानमस्कारपूर्वकं मङ्गलाचरणेन निर्विघ्नपरिसमाप्ति: जायते इति विश्वास:।अत्र अनन्तनारायणशास्त्रिमहाभागेन स्वग्रन्थस्य बालरामायणस्य निर्विघ्नपरिसमाप्त्यर्थं सर्वजगत्प्रभुं श्रीरामचन्द्रमेव स्तौति। मङ्गलाचरणेन न केवलं ग्रन्थकर्तु: किन्तु पठितॄणामपि मङ्गलं भूयात् इति विश्वास:।
कल्याणानां निधानं कलिमलप्रमथनं पावनं पावनानाम्।
पाथेयं यन्मुमुक्षो: सपदि परपदप्राप्तये प्रस्थितस्य।।
विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानाम्।
बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम।।
पदच्छेद: – यत् + मुमुक्षो: – यन्मुमुक्षो:।
विश्रामस्थानम् + एकम् – विश्रामस्थानमेकम्।
अन्वय: अन्वयार्थ:
कल्याणानाम् – मङ्गलानाम्
निधानम् – आवासभूमि: (आदिकारणम्)
कलिमलप्रमथनम् – कलियुगे वर्तमानानां मलानां मालिन्यानां दूरीकरणयोग्यम्।
पावनानां पावनम् – परमपवित्रम्।
परपदप्रप्तये – परमलक्ष्यस्य मोक्षस्य प्राप्त्यर्थम्
प्रस्थितस्य – यत्नं कुर्वत: (मोक्षप्राप्तिरेव कार्या इति विचिन्त्य य: तदर्थं यतते, तस्य)
यत् मुमुक्षो: – य: मोक्षमिच्छत:, तस्य
सपदि – सहसा
पाथेयम् – पथि साधु (मार्गे भोक्तुं-पातुं योग्यम्)
कविवरवचसां – कविश्रेष्ठानां वचसां (वचनानाम्)
एकं विश्रामस्थानम् – एकमेवाश्रयस्थानम्
सज्जनानाम् – सताम्
जीवनम् – जीवनभूतम् (आश्रयभूतम्)
धर्मद्रुमस्य – धर्मरूपस्य वृक्षस्य
बीजम् – उत्पत्तिभूतमङ्कुरम्
रामनाम – श्रीरामस्य नाम
भवतां – भवज्जनानाम् (युष्माकं)
भूतये – ऐश्वर्याय
प्रभवतु – कारणत्वेन भवतु।
सार: – समस्तानां मङ्गलानां निवासभूमि: भवति राममन्त्रम्। तद् कलियुगस्य मालिन्यदूरीकरणे समर्थं भवति। एतन्नाम परिशुद्धेषु विशुद्धमेव। ये मोक्षप्राÏप्त वाञ्चन्ति, तेभ्य: मोक्षदायकं भवति। रामनाममन्त्रेण मुमुक्षव: मोक्षं प्राप्नुवन्ति। कवीन्द्राणां वचसामाश्रयस्थानमेव तत्। सज्जनानां जीवनं भवति तत्। धर्मरूपस्य वृक्षस्य अङ्कुरं भवति रामनाम। तद् रामनाम युष्माकमैश्वर्याय कारणं भवतु।
विग्रह: –
पाथेयम् – पथि साधु। यात्रावेलायां मध्ये भक्षणाय उपयुक्तं द्रव्यमित्याशय:।
मुमुक्षो: – मोक्तुमिच्छा मुमुक्षा। मोक्तुम् इच्छु: मुमुक्षु:। तस्य मुमुक्षो:।
कविवरवचसाम् – कवीनां कविषु वा वर: (श्रेष्ठ:) कविवर:। तेषां वचांसि कविवरवचांसि, तेषां कविवरवचसाम्।
धर्मद्रुमस्य – धर्म एव द्रुम: धर्मद्रुम:, तस्य धर्मद्रुमस्य।
क्रिया-
प्रभवतु – प्र पूर्वक भू सत्तायाम् इति धातो: पर लोट् प्रथमपुरुषैकवचनम्।
प्रभवतु – प्रभवतात् /प्रभवतां- प्रभवन्तु।
पर्यायपदानि –
कल्याणम् – मङ्गलम्, शुभम्, भावुकम्, भविकम्।
सपदि – द्रुतम्, तत्क्षण:, स्राक्, झटिति, सद्य।
सज्जन: – महाकुल:, महाकुलीन:, आर्य:, सभ्य:।
गद्यम् – १
कोसलनाम्नि समृद्धिमति जनपदे लोकविश्रुता मनुना स्वयं निर्मिता अयोध्या नाम नगरी आसीत्। तस्यां धर्मपरो विजितेन्द्रियो वैश्रवणोपमो लोकस्य परिरक्षिता दशरथो नाम राजर्षिरवर्तत। तस्य च कौसल्या, कैकेयी, सुमित्रेति तिस्रो भार्या: अभवन्। महात्मनस्तस्य राजर्षे: सुतार्थं तप्यमानस्यापि सुतो नाजायत। तत: स राजा पुरोधसा वसिष्ठेन ऋष्यश्रृङ्गं पुरस्कृत्य पुत्रार्थं यज्ञकर्म कारयामास। तस्मिन् यज्ञकर्मणि हुतवहात् प्रादुर्भूतो दिव्यपायससम्पूर्णं पात्रं दोभ्र्यां धारयन् प्राजापत्य: पुरुषो राजानमेवमब्रवीत्।
व्याख्या
कोसल इति – कोसलनाम्नि ‘कोसलम्’इति नामधेयेन वर्तमानेसमृद्धिमति ऐश्वर्यवति, जनपदे देशे, लोकविश्रुता लोकप्रसिद्धा, मनुना मनुनामकेन आचार्येण, स्वयं निर्मिता आत्मना रचिता, अयोध्या नाम अयोध्या इति, नगरी पत्तनम्, आसीत् अवर्तत। कोसलराज्ये ‘अयोध्या’ नाम काचन नगरी आसीत्। वैवस्वतमनुना निर्मिता नगरी आसीत् अयोध्या इति। उक्तञ्च वाल्मीकिरामायणे ‘मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्’इति। नगरी (ई-स्त्री-प्र-एव)। नगरी – नगर्यौ – नगर्य:। नगरं, पुरं, पत्तनं, स्थानीयम् – पर्यायपदानि। जनपदे (अ-पु-स-एव)। जनपदे – जनपदयो: – जनपदेषु।
तास्यां नगर्यां धर्मपर: धर्मिष्ठ: विजितेन्द्रिय: जितेन्द्रिय: वैश्रवणोपम: कुबेरतुल्य: लोकस्य भुवनस्य परिरक्षिता रक्षक: दशरथो नाम दशरथनामधेय: राजर्षि: राजा च असौ ऋषि: च अवर्तत आसीत्। तस्य दशरथस्य कौसल्या, कैकेयी, सुमित्रा चेति तिस्र: भार्या: भार्यात्रयम् अभवन् आसन्। तस्य (द-पु-ष-ए-व) तस्य – तयो: – तेषाम्। अभवन् (भूधातु-पर-लङ्-प्रपु-ब-व) अभवत् – अभवताम् – अभवन्। महात्मनस्तस्य महात्मन: तस्य दशरथस्य राजर्षे: राजा च असौ ऋषि: च राजर्षि: तस्य सुतार्थं पुत्रार्थं तप्यमानस्यापि दु:खितस्यापि सुत: पुत्र: नाजायत न जनिं प्राप। तप्यमानस्य अअपि – तप्यमानस्यापि। अजायत (जनी प्रादुर्भावे आत्म-लङ्-प्रपु-ए-व) अजायत – अजायेताम् – अजायन्त। अत: तेन स राजा भूपति: पुरोधसा वसिष्ठेन पुरोहितेन वसिष्ठेन ऋष्यश्रृङ्गं पुरस्कृत्य विभाण्डकपुत्रस्य नेतृत्वे पुत्रार्थं सुतार्थं यज्ञकर्म यागं कारयामास कारितवान्। राजा (न-पु-प्र-ए-व) राजा – राजानौ – राजान:। पार्थिव: क्ष्माभृत्, नृप:, भूप: इत्यादीनि पर्यायपदानि। ऋष्यश्रृङ्गं (अ-पु-द्वि-ए-व) ऋष्यश्रृङ्गं – ऋष्यश्रृङ्गौ – ऋष्यश्रृङ्गा:।
तस्मिन् यज्ञकर्मणि यागे हुतवहात् अग्ने: प्रादुर्भूत: आविर्भूत: दिव्यपायससम्पूर्णं दिव्यपायसनिर्भरं पात्रं दौभ्र्यां भुजाभ्यां धारयन् वहन् प्राजापत्य: प्रजापतिसम्बन्ध: पुरुष: राजानं भूपतिम् एवं वक्ष्यमाणप्रकारेण अब्रवीत् अवदत्। यज्ञाय कर्म यज्ञकर्म, तस्मिन् यज्ञकर्मणि। पयस: विकार: पायसम्, दिव्यं तत् पायसं दिव्यपायसम्, तेन सम्पूर्णं दिव्यपायससम्पूर्णम्। धारयन् (त-पु-प्र-ए-व)। धारयन् – धारयन्तौ – धारयन्त:।
किमब्रवीत् इति सूचयति।
गद्यम् – २
‘नृपशार्दूल! प्रजाकरमिदं देवनिर्मितं पायसं गृहाण प्रयच्छ चानुरूपाभ्यो महिषीभ्य: तासु त्वं लप्स्यसे पुत्रान्’इति। नृपति: तत्प्रतिगृह्य तं पुरुषमभिवाद्य परमया मुदा समपूजयत्। परमभास्वरो दिव्यपुरुष: तत्रैवान्तर्दधे। प्रहृष्टो नरपतिरन्त:पुरं प्रविश्य कौसल्यायै पायसार्धं प्रथमं प्रददौ। द्वितीयादर्धादर्धं सुमित्रायै ददौ, ततोऽवशिष्टस्यार्धं कैकेय्यै दत्वा पुनरवशिष्टं सुमित्रायै प्रददौ। ता: महीपतेरुत्तमस्त्रिय: पायसं तत्प्राश्य नचिरेणैव तेजस्विनो गर्भानधारयन्। ततश्च द्वादशे मासि नवम्यां तिथौ पुनर्वसुनक्षत्रे पञ्चसु ग्रहेषु स्वोच्चस्थानं गतेषु कौसल्या दिव्यलक्षणसंयुतं राममजनयत्, कैकेय्यां सत्यपराक्रमो भरतो जज्ञे, सुमित्रायां वीरौ लक्ष्मणशत्रुघ्नौ च जज्ञाते।
व्याख्या
नृपशार्दूल इति– नृपशार्दूल हे महाराज, प्रजाकरमिदं प्रजाहितकरं देवनिर्मितं देवै: निर्मितं पायसं गृहाण स्वीकुरु, अनुरूपाभ्य: महिषीभ्य: अनुयोग्याभ्य: भार्याभ्य: प्रयच्छ दीयतां च। तासु तव भार्यासु त्वं लप्स्यसे तुभ्यं लभते पुत्रान् सुतान् इति एवम्। नृपशार्दूल नृप: शार्दूल: इव नृपशार्दूल:, तत्सम्बोधने नृपशार्दूल। प्रशंसार्थे ‘शार्दूल’इति प्रयोग:। प्रयच्छ (प्र अ दाण् दाने- पर-लोट्-मपु-ए-व) प्रयच्छ, प्रयच्छतात् – प्रयच्छतम् – प्रयच्छत। महिषी – कृताभिषेकस्य पत्नी। लप्स्यसे (डुलभष् प्राप्तौ-आत्म-लृट्-मपु-ए-व)। लप्स्यसे – लप्स्येथे – लप्स्यध्वे।
नृपति: राजा तथेति तथा करिष्यामि इति तत्प्रतिगृह्य तत्पायसं स्वीकृत्य तं पुरुषं दिव्यपुरुषम् अभिवाद्य अभिवादनं कृत्वा परमया मुदा अधिकेन सन्तोषेण समपूजयत् सम्यक् अर्चयामास। परमभास्वर: प्रशोभमान: स: दिव्यपुरुष: तत्रैव तस्मिन् यागभूमौ एव अन्तर्दधे अप्रत्यक्षो बभूव। तत्र अ एव अन्तर्दधे – अतत्रैवान्तर्दधे। अन्तर्दधे (‘अन्तर्’ पूर्वस्य डुधाञ् धारणपोषणयो:-आत्म-लिट्-प्रपु-ए-व) अन्तर्दधे – अन्तर्दधाते – अन्तर्दधिरे। प्रहृष्ट: सन्तुष्ट: नरपति: राजा अन्त:पुरं प्रविश्य कौसल्यायै प्रथममहिष्यै पायसार्धं पायसस्यार्धभागं प्रथमं आद्यतया प्रददौ अदात्। कौसल्यायै (आ-स्त्री-च-ए-व) द्वितीयाद् अवशिष्टस्य पायसस्य अर्धादर्धं चतुर्भागेषु अन्यतमं भागं सुमित्रायै ददौ तत: अनन्तरं अवशिष्टस्यार्धम् अवशिष्टभागस्य अर्धभागं कैकेय्यै दत्वा कैकेयीं प्रति दत्वा पुनरवशिष्टं पुनरप्यवशिष्टं सुमित्रायै प्रददौ सुमित्रायै अदात्। तत:अअवशिष्टस्य अअर्धम् – ततोऽवशिष्टस्यार्धम्। सुमित्रायै प्रददौ, कैकेय्यै दत्वा इत्यादिषु दानार्थकधातो: योगे चतुर्थी। सुमित्रायै, कैकेय्यै इत्यादीनि रूपाणि। ता: महीपते: उत्तमस्त्रिय: ता: राज्ञ: महिष्य: कौसल्यासुमित्राकैकेय्य: पायसं तत्प्राश्य तत्पायसं भक्षयित्वा नचिरेणैव कालविलम्बं विना तेजस्विनो गर्भान् दीप्तिमत: गर्भलक्षणान् अधारयन् दधिरे। प्राश्य (प्र पूर्व अश् भोजने ल्यप्) ततश्च द्वादशे मासि नवम्यां तिथौ पुनर्वसुनक्षत्रे पञ्चसु ग्रहेषु स्वोच्चस्थानं गतेषु यदा पञ्चग्रहा: उच्चावस्थायाम् अवर्तन्त तदा कौसल्या दिव्यलक्षणयुतं दिव्यलक्षणेन युक्तं रामं श्रीरामम् अजनयत् प्रसूते, कैकेय्यां सत्यां पराक्रम: पराक्रमशील: भरत: जज्ञे अजायत, सुमित्रायां सुमित्रादेव्यां लक्ष्मणशत्रुघ्नौ लक्ष्मण: शत्रुघ्न: इति नामानौ च जज्ञाते अजायेताम्। अजनयत् (जनी प्रादुर्भावे- पर-णिचि-लङ्-प्रपु-ए-व) अजनयत् – अजनयताम् – अजनयन्।
गद्यम् – ३
ते च राजपुत्रा: शैशवमतीत्य साङ्गेषु वेदेषु च सर्वेषु शास्त्रेषु नैपुण्यं प्रत्यपद्यन्त। परस्परमतिमात्रमनुरक्तानां तेषां मध्ये लक्ष्मणस्य ज्येष्ठे रामे, शत्रुघ्नस्य च भरते काप्यसाधारणप्रीतिरभवत्। राजा दशरथश्चतुभिर्महाभागै: पुत्रै: परमप्रीतो बभूव। विवाहार्हे वय: प्राप्तानां तेषां दारक्रियां प्रति चिन्तयति दशरथे, विश्वामित्रो महामुनिरयोध्यां प्रपेदे।
व्याख्या
ते इति ते राजपुत्रा: श्रीरामादय: राजकुमारा: शैशवमतीत्य साङ्गेषु वेदेषु अङ्गै: सह वर्तमानेषु वेदेषु (वेदाङ्गा: षट् – शिक्षा,कल्पं, व्याकरणं, छन्द:, निरुक्तं, ज्योतिषम् इत्यादिषु, वेदा: चत्वार: ऋक्-यजुस्-साम-अथर्वण:) च सर्वेषु शास्त्रेषु च नैपुण्यं सामथ्र्यं प्रत्यपद्यन्त प्राप्तवन्त:। परस्परम् अन्योन्यं अतिमात्रम् अत्यधिकम् अनुरक्तानां अनुरागिणां तेषां कुमाराणां मध्ये लक्ष्मणस्य लक्ष्मणकुमारस्य ज्येष्ठे रामे शत्रुघ्नस्य च भरते कापि असाधारणी असामान्या प्रीतिरभवत् तृप्तिरभवत्। अतिशयेन वृद्ध: प्रशस्यो वा ज्येष्ठ:। राजा दशरथ: चतुर्भि: महाभागै: पुत्रै: परमप्रीत: नितरां सन्तुष्टो बभूव अभवत्। बभूव (भू सत्तायां-पर-लिट्-प्रपु-ए-व) बभूव – बभूवतु: – बभूवु:। विवाहार्हे विवाहाय योग्ये वय:प्राप्तानां यौवनप्राप्तानां तेषां कुमाराणां, दारक्रियां प्रति चिन्तयति दशरथे यथा दशरथ: कुमारेभ्य: अनुयोज्यान् दारान् योजयितुं चिन्तितवान् तदा (सति सप्तमी) विश्वामित्रो महामुनि: विश्वामित्रनामक: महर्षि: अयोध्यां प्रपेदे अयोध्यां प्राप। प्रपेदे (प्र पूर्व आप्लृ प्रापणे आत्म-लिट्-प्रपु-ए-व) प्रपेदे – प्रपेदाते – प्रपेदिरे।
गद्यम् – ५
दशरथस्तमतिथिं प्रत्युद्गम्य यथाविधि समपूजयत्। मुनिरपि प्रतिगृह्य तां पूजां पुरे, कोशे, जनपदे, बान्धवेषु, सुहृत्सु च राज्ञ: कुशलं पर्यपृच्छत्। अथ हृष्टमना राजा विश्वामित्रमुवाच – ‘भगवन्, स्वागतं ते, अपुत्रस्येव पुुत्रजन्म, तवेदमागमनं मन्ये। कं वा भवत: कामं करवाणि’इति।
व्याख्या
दशरथ इति – दशरथ: तमतिथिं तं विश्वामित्रं, प्रत्युद्गम्य स्वीकृत्य यथाविधि विधिमनतिक्रम्य समपूजयत् सम्यक् अर्चयामास। मुनिरपि विश्वामित्रोऽपि तां पूजां प्रतिगृह्य तमतिथिसत्कारं
स्वीकृत्य पुरे पत्तने, कोशे भण्डागारे, राष्ट्रे राज्ये, जनपदे देशे, बान्धवेषु बन्धुजनेषु, सुहृत्सु मित्रेषु च राज्ञ: महाराजस्य कुशलं सौख्यं पर्यपृच्छत् अन्वेषितवान्। अथ अनन्तरं हृष्टमना: सन्तुष्टचित्त: राजा विश्वामित्रम् उवाच अवोचत्। हृष्ट: मना: यस्य स: हृष्टमना:। भगवन् हे महाशय, ते स्वागतं तुभ्यं स्वागतं अपुत्रस्य पुत्रजन्म इव अविद्यमानपुत्रस्य पुत्रलाभ इव तवेदमागमनं भवत: इदमागमनं मन्ये अहं मन्ये। तव अ इदम् अआगमनम् – तवेदमागमनम्। तव (दकारान्त:-त्रिषु लिङ्गेषु समान:-युष्मद् शब्द: ष-ए-व)। भवत: कं कामं तव अभीष्टं कं कार्यं करवाणि इति अहं करवाणि। भवते मया किं कर्तव्यम् इति आशय:।
गद्यम् – ६
महातेजा विश्वामित्र: प्रत्यभाषत – ‘राजन्, सर्वमेतदुपपन्नं महावंशप्रसूते वसिष्ठशिष्ये च भवति। अहं यदर्थमागतोऽस्मि तदाकण्र्यताम्। सिद्ध्यर्थं नियममतिष्टितो मे सुबाहुमारीचौ राक्षसौ विघ्नकरौ वर्तेते। न च मे व्रतमध्ये क्रोधावेशो युज्यत इति शापेन तयोर्निवारणमशक्यम्। तयोर्विनाशाय ज्येष्ठं पुत्रं रामं मे दातुमर्हसि’इति।
व्याख्या – महातेजेति।
महातेजा तेजस्वी विश्वामित्र: प्रत्यभाषत प्रत्युत्तरमदात् – राजन् हे महाराज, महावंशप्रसूते उन्नतकुलजाते वसिष्ठशिष्ये वसिष्ठस्य शिष्ये भवति दशरथे सर्वमेतदुपपन्नं एतत्सर्वं योज्यमेव। अहं विश्वामित्र:, यदर्थमागतोऽस्मि यत्कारणार्थं सम्प्राप्तवानस्मि तदाकण्र्यतां तत्कार्यं श्रूयताम्। यदर्थम् अआगत: अअस्मि – यदर्थमागतोऽस्मि। सिद्ध्यर्थं सिद्धये नियममतिष्टित: मे व्रतं कुर्वत: मम (विश्वामित्रस्य) सुबाहुमारीचौ राक्षसौ सुबाहुमारीचनामानौ निशिचरौ विघ्नकरौ अन्तरायकरौ वर्तेते। वर्तेते (वृतु वर्तने-आत्म-लट्-प्रपु-द्वि-व)। व्रतमध्ये व्रतानुष्ठानमध्ये क्रोधावेश: क्रोधप्रकटनं न युज्यत इति अननुयोज्यमित्यत:, शापेन आक्रोशेन तयोर्निवारणं राक्षसयो: वारणं, अशक्यं न श्क्यम्। तयो: राक्षसयो:। तयो: (द-पु-ष-द्वि-व) तस्य – तयो: – तेषाम्। विनाशाय नाशाय ज्येष्ठं पुत्रं रामं श्रेष्ठं सुतं श्रीरामं, मे दातुमर्हसि मह्यं त्वं दीयस्व, इति एवम्।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. सज्जनानां जीवनं भवति तत्- तत् किम्? २. ‘भूतये’इत्यस्यअर्थः कः? ३. अयोध्याया: अधिपति: क:? ४. विभाण्डकसूनु: क:? ५. दानार्थकधातो: प्रयोगे का विभक्ति:? ६. दिव्यपुरुषेण दत्तस्य पायसस्य अर्धभागं कस्यै लब्धम्? ७. श्रीरामस्य जन्मनक्षत्रं किम्? ८. दशरथस्य पुत्राः केषु नैपुण्यं प्रापु:? ९. दशरथपुत्रा: कीदृशा: आसन्? १॰. ‘दाराक्रियां प्रति चिन्तयति दशरथे’ – कीदृशोऽयं प्रयोग:? ११. ‘यथाविधि’इत्यस्य विग्रह: क:? १२. ‘तव’इत्यस्य अन्तलिङ्गादीन् निर्दिशत। १३. ‘अर्हसि’ – क: लकार:? १४. व्रतानुष्ठनमध्ये क: नोचित:? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. बालरामायणे वर्तमानः मङ्गलश्लोक: क:? २. कविवरवचसां विश्रामस्थानं किम्? ३. विधानमित्यस्य कोऽर्थ:? ४. ‘मुमुक्षु:’ विग्रह: क:? ५. कं वैश्रवणतुल्यत्वेन गणयति? ६. दशरथस्य पुत्रकामेष्टियागे किं सम्भूतम्? ७. दशरथस्य भार्या: का:? ८. दशरथस्य पुरोहित: क:? ९. तासु त्वं लप्स्यसे पुत्रान् – कासु? १॰. लक्ष्मणस्य मातु: नाम किम्? ११. लक्ष्मणः सोदरेषु कस्मिन् असाधरणीं प्रीतिं प्राकटयत्? १२. विश्वामित्र: महामुनि: किमर्थम् अयोध्यां प्राप? १३. राज्ञ: कुशलं पर्यपृच्छत् – क:? १४. राजा दशरथ: विश्वामित्रं किमपृच्छत्? १५. यागस्य विघ्नकारिणौ राक्षसौ कौ? १६. कुत: यागस्य विघ्नकारिणौ राक्षसौ विश्वामित्र: न शपति? १७. कैकेय्या: पुत्रस्य नाम किम्? |
एकैकया खण्डिकया उत्तराणि लिखत।(Answer the question in a paragraph)
१. अपुत्रस्य पुत्रजन्म, तवेदमागतं मन्ये।विशदयत। |
निर्दिष्टाभ्यासः (Assignments)
१. दशरथस्य पुत्राणाम् उत्पतिं्त विशदयत। २. बालरामायणे वर्तमानस्य प्रथमस्य गद्यस्य आशयं कैरल्यां लिखन्तु। |
निर्देशानुसारम् उत्तरं लिखत।
|
उत्तराणि (Answer to Objective type questions)
१. कल्याणानां निधानम् इत्यारभ्यमाणः श्लोकः। २. ऐश्वर्याय। ३. दशरथ:। ४. ऋष्यश्रृङ्ग:। ५. चतुर्थी। ६. कौसल्यायै। ७. पुनर्वसु:। ८. वेदेषु, वेदाङ्गेषु, सर्वेषु शास्त्रेषु च नैपुण्यं प्राप्ताः। ९. परस्परमतिमात्रमनुरक्ता:। १॰सतिसप्तमीप्रयोग:। ११. विधिम् अनतिक्रम्य। १२. द-त्रिषुलिङ्गेषु समान:-ष-ए-व। १३. लट्। १४शाप:। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. पी.एस्. अनन्तनारायणशास्त्री, बालरामायणम्, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्. एस्. वाध्यार् आन्ट् सन्स्, कल्पात्ति। २. पि.एस्. अनन्तनारायणशास्त्रि, बालरामायणम्, व्यख्या पि.जि.अजित् प्रसाद्, अनामिका पब्लिक्केषन्स्, एलुकोण्, 2008. ३. डा. पूवट्टूर् रामतृष्णपिल्ल, केरलसंस्कृतविज्ञाननिघण्डु, केरलभाषा इन्स्टिट्यूट्, अनन्तपुरी, 2096 पुटं 30-31 |