Unit-1
अमरसिंहविरचितः अमरकोश:-द्वितीयकाण्डम्-वनौषधिवर्गः। (केषुचिद्ग्रन्देषु वनवर्ग इत्येव) अटव्यरण्यं इत्यारभ्य सुमनोरजः इति पर्यन्तम् 34 पङ्क्तयः।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षा: (Prerequisites)
सर्वासामपि भाषाणां अध्ययनाय नि़घण्टवः महत् साह्यं आचरन्ति। पदानां अर्थप्रकाशनमेव नि़घण्टवः मुख्यतया अनुतिष्ठन्ति। वैदिकपदानां अर्थं प्रकाशयन् निरुक्तं इति कोऽपि ग्रन्थः यास्कमुनिना विरचितः। स एव संस्कृतभाषायाः प्रथमो निघण्टुः भपति। संस्कृते निघण्टोः, कोशःइत्यपि नामास्ति। अस्यां भाषायां बहवः कोशग्रन्थाः सन्ति। तेषु अमरसिंहकृतः अमरकोश एव प्रशस्ततमो भपति। अमरकोशात् पूर्वं परं चापि बहवः कोशग्रन्थाः संस्कृतभाषायां रचिता आसन्निति ज्ञायते। उत्पलिनी, त्रिकाण्डी, शब्दसागरः, विश्वप्रकाशः, हारावली, वैजयन्ती प्रभृतयः तेष्वन्तर्भवन्ति। ततोऽपिअमरकोशस्य प्राशस्त्यं अनूनमेव विराजते। |
मुख्यपदानि (Key terms)
अटवी, आरामः, वृक्षवाटिका, आक्रीडः, वीथिः, अङ्कुरः, वृक्षः।
Discussion
अमरसिंह:।
विक्रमादित्यमहाराजस्य सदसि नवरत्नेषु अन्यतम: भवति अमरसिंह: इति सूचना अस्ति।
धन्वन्तरिक्षपणकामरसिंहशङ्कु-
वेतालभट्टघटकर्परकालिदासा:।
ख्यातो वराहमिहिरो नृपते: सभायां
रत्नानि वै वररुचिर्नवविक्रमस्य।।
किन्तु श्लोकोऽयं कालान्तरे रचित इति ज्ञातुं शक्यते। तथाहि कालिदासस्य काल: क्रिस्तो: पूर्वं प्रथमे शतके इति प्रायेण निर्णीतं गवेषकै:। वराहमिहिर: कालिदासात्पूर्वं जीवितमधारयत् इति गणयन्ति गवेषका:। अपि च विक्रमादित्य: इति नाम्ना प्रसिद्धा: नैके राजान:। अत: पूर्वोक्तश्लोकेन अमरसिंहे कालिदासस्य समकालिकत्वं स्थापयितुं न शक्यते। क्रिस्तो: पूर्वं चतुर्थे पञ्चमे वा शतके अमरकोशकर्ता अमरसिंह: जीवितमधारयत् इति विश्वासन्ति बहवो गवेषका:।
भोः छात्राः, मातृशब्दः यूष्माकं सर्वेषामपि सुपरिचित एव। अस्य शब्दस्य समानार्थकानि अन्यानि पदानि यूयं जानीथ किम्?अमरसिंहः स्वस्य कोशग्रन्थे अमरकोशे “जनयित्री प्रसूर्माता जननी” इति मात्रर्थकानि पदानि निर्दिशति। एव संस्कृतभाषायां विद्यमानानाम् अन्येषामपि पदानां पर्यायपदानि अमरकोशे उक्तानि।तादृशानि पदानि अधिकृत्य अमरकोशे वयं अधिगच्छामः।अस्य ग्रन्थस्य अपरं नाम ‘नामलिङ्गानुशासनम्’इति। नाम्ना एव ज्ञातुं शक्यते यत् अस्य प्रतिपाद्यविषयः क इति। नामपदानां पुंलिङ्ग-स्त्रीलिङ्ग-नपुंसकभेदानाम् अनुशासनं करोति आचार्यः।काण्डत्रयात्मके अस्मिन् प्रथमे काण्डे स्वर्गपर्यायपदानि देवादीनां पर्यायपदानि च विशदयति। द्वितीये काण्डे भूवर्गादय: सन्ति। अस्मिन् काण्डे वनसम्बद्धा: ओषधिवर्गादय: च अन्तर्भवन्ति।
शैलवर्गानन्तरं तत्सम्बन्धित्वेन वनवर्ग:, तत्सम्बन्धित्वेन ओषधिवर्ग:, पुन: मृगवर्ग: च समायोजिताः। केचन पण्डिता: वन-ओषधिवर्गौ एकत्वेन विचार्य वनौषधिवर्ग: इति नामकरणं कुर्वन्ति।
अटव्यरण्यं विपिनं गहनं काननं वनम्।
महारण्यमरण्यानी गृहारामस्तु निष्कुट:।।१।।
आराम: स्यादुपवनं कृत्रिमं वनमेव यत्।
अमात्यगणिकागेहोपवने वृक्षवाटिका।।२।।
*अटवी (ई-स्त्री), अरण्यं (अ-नपुं), विपिनं (अ-नपुं), गहनं (अ-नपुं), काननं (अ-नपुं), वनं (अ-नपुं) – वनस्यइति 6 पर्यायपदानि।
महारण्यं (अ-नपुं) अरण्यानी (ई-स्त्री) – उभयमपि महत् अरण्यम्।
गृहाराम: (अ-पु) निष्कुट: (अ-पु) – उभयमपि उद्यानम्। गृहसमीपस्थं कृत्रिमं वनम् (उद्यानम्)।
आराम: (अ-पु) उपवनं (अ-नपुं) – कृत्रिमस्य वनस्य नाम। अर्थात् उद्यानम्। तद्वनं कृत्रिमं भवति। प्रमदवनम् (अ-नपुं) – अन्त:पुरोद्यानम्।
वृक्षवाटिका (आ-स्त्री) – अमात्यस्य गणिकाया: वा गृहस्य समीपस्थ: गृहाराम:।
*अटवी (ई-स्त्री) = अटवी शब्दः ईकारान्तः स्त्रीलिङ्गः इति अवगन्तव्यम्। एवमेव अरण्यशब्दः अकरान्तः नपुंसकलिङ्गः इत्यादि। |
पुमानाक्रीड उद्यानं राज्ञ: साधारणं वनम्।
स्यादेतदेव प्रमदवनमन्त:पुरोचितम्।।३।।
आक्रीड: (अ-पु) उद्यानं (अ-नपुं) – उभयमपि राजप्रासादस्य समीपस्थं उद्यानम्। तद्वनं कृत्रिमं भवति। प्रमदवनम् (अ-नपुं) – अन्त:पुरोद्यानम्।
वीथ्यालिरावलि: पङ्क्ति: श्रेणी लेखास्तु राजय:।
वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि।।४।।
वीथी (ई-स्त्री)आलि: आवलि: पङ्क्ति: (त्रयमपि इ-स्त्री) श्रेणी (ई-स्त्री) – वृक्षाणां पङ्क्ति: वृक्षनमूहः।
लेखाः (आ-स्त्री) राजयः (इ-स्त्री) – उभयमपि वृक्षाणाम् अतिबाहुल्यम्। सामान्यत एतानि सप्तपदान्यपि पङ्क्तिरित्यर्थे प्रयोगे सन्ति। वन्या (आ-स्त्री) – वनसमूहः। अङ्कुर: (अ-पु) – नूतनप्ररोहः।
वृक्षो महीरुह: शाखी विटपी पादपस्तरु:।
अनोकह: कुटश्शाल: पलाशी द्रुद्रुमागमा:।।५।।
वृक्ष:, महीरुह: (अ-पु) शाखी, विटपी (न-पु) पादप: (अ-पु) तरु: (उ-पु)
अनोकह:, कुट:, शाल: (अ-पु) पलाशी (न-पु) द्रु: (उ-पु) द्रुम:, अगम: (अ-पु) – एतानि त्रयोदशपदानि वृक्षस्य पर्यायदानि भवन्ति। कुट: इत्यस्य स्थाने कुज: इति पदमपि वर्तते। कुज: – वृक्ष:।
वानस्पत्य: फलै: पुष्पात्तैरपुष्पाद्वनस्पति:।
ओषध्य: फलपाकान्ता: स्यादवन्ध्य: फलेग्रहि:।।६।।
वानस्पत्य: (अ-पु) – पुष्पात् जातैः फलैः उपलसितः वृक्षः। (यथा – आम्र:)। वनस्पति: (इ-पु) पुष्पं विनाजातैः फलैः उपलसितो वृक्षः। (यथा – अश्वत्थ:)। ओषधि: (इ-स्त्री) फलपाकान्तवृक्ष: (यथा – कदली)। अवन्ध्य:(अ-पु) फलेग्रहि: (इ-पु) फलधरवृक्ष:।
वन्ध्योऽफलोऽवकेशी च फलवान् फलिन: फली।
प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटा:।।७।।
वन्ध्य:, अफल: (अ-पु) अवकेशी (न-पु) – ऋतौ अपि फलरहितोवृक्ष:। फलवान् (त-पु) फलिन: (अ-पु)फली (न-पु) -फलयुक्त: वृक्ष:। प्रफुल्ल:, उत्फुल्ल:, संफुल्ल:, व्याकोश:, विकच:, स्फुट: (अ-पु) – यथावत् विकसित:, (पुष्पितः) वृक्ष:।
फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु।
स्थाणुरस्त्री ध्रुवश्शङ्कुह्र्रस्वशाखाशिफ क्षुप:।।८।।
फुल्ल:, विकसित: (अ-पु) – विकसित: वृक्ष:।
श्रद्धेय: – अवन्ध्य: इत्यारभ्य विकसित:इति पर्यन्तं वर्तमानानि पदानि विशेष्यपदानुसारेण त्रिषु लिङ्गेषु उपयुज्यन्ते। अवन्द्यः वृक्षः, अवन्द्या लता, अवन्द्यं वनं इत्यादिवत्।
*स्थाणु: (उ-पु-नपुं) ध्रुव: (अ-पु) शङ्कु: (उ-पु) – शाखापत्ररहित: तरु:।
*ह्रस्वशाखाशिफ:, क्षुप: (अ-पु) – क्षुद्रवृक्ष:।
*स्थाणुरस्त्री – स्थाणु:+ अस्त्री। स्थाणुशब्दःस्त्रीलिङ्गे प्रयुज्यते। ततः अयं पुंलिङ्गे नपुंसकलिङ्गे च प्रयोक्तुं योग्यः। **शाखा– विटपः, शिफः – वृक्षमूलम्। ह्रस्वाभिः शाखाभिः, ह्रस्वेन शिफेन च युक्तो वृक्षः क्षुप इत्युच्यते इत्यर्थः। स एव क्षुद्रवृक्ष:। |
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता।
लता प्रतानिनी वीरुद् गुल्मिन्यूलप इत्यपि।।९।।
स्तम्ब:, गुल्म: – (अ-पु) अप्रकाण्डवृक्ष: (अविद्यमान: प्रकाण्ड: यस्य स:)प्रकाण्डरहितो वृक्षइत्यर्थः। वल्ली (ई-स्त्री) व्रतति: (इ-स्त्री) लता (आ-स्त्री) वीरुत् (ध-स्त्री) गुल्मिनी (ई-स्त्री)
उलप: (अ-पु) – अधिकतया व्यापृताया: लताया: पर्यायपदानि।प्रतानिनीलताउपत्रैः शाखाभिश्च प्रसृतालता
नगाद्यारोह उच्छ्राय: उत्सेधश्चोच्छ्रयश्चः स:।
अस्त्री प्रकाण्ड: स्कन्ध: स्यान्मूलाच्छाखावधिस्तरो:।।१॰।।
उच्छ्राय:, उत्सेध:,उच्छ्रय: (अ-पु) – पर्वत -वृक्ष-हम्र्यादीनां औन्नत्यम् । प्रकाण्ड: (अ-पु-नपुं)
स्कन्ध: (अ-पु) – वृक्ष्स्य मूलादारभ्य शाखापर्यन्तो भाग:।
समे शाखालते स्कन्धशाखाशाले शिफाजटे।
शाखाशिफावरोह: स्यान्मूलाच्चाग्रं गता लता।।११।।
शाखा, लता (आ-स्त्री) – वृक्षस्य श्रृङ्गं (शिखरम्)। स्कन्धशाखा, शाला (आ-स्त्री) – स्कन्धाज्जायमाना शाखा। शिफा, जटा (आ-स्त्री) , अवरोह: (अ-पु) – मूलत: अग्रपर्यन्तं अवरोहरूपेण वर्तमाना लता। (वटादिवृक्षाणां शाखाभ्यः लम्बमानाजट)
शिरोऽग्रं शिखरं वा ना मूलं बुद्ध्नोऽङ्घ्रिनामक:।
सारो मज्जा नरि त्वक् स्त्री वल्कं वल्कलमस्त्रियाम्।।१२।।
शिर: (स-नपुं) अग्रं, शिखरं (अ-नपुं) – वृक्षस्य अग्रभाग:। “शिखरंवा ना”इत्युक्तत्वात्शिखरशब्दः पुंलिङ्गेऽपि प्रयुज्यते (ना उ नरः)। मूलं (अ-नपुं)
बुध्न:, *अङ्घ्रिनामक: (अ. पु) – वृक्षमूलस्य पर्यायपदानि।
सार: (अ-पु) **मज्जा (न-पु) – वृक्षस्य स्थिरांशः ।
त्वक् (च-स्त्री) वल्कं ,वल्कलं (अ-नपुं) वल्कलममस्त्रियांइत्युक्तत्वात्वल्कलशब्दः पुंलिङ्गेऽपिप्रयुज्यते- वृक्षस्य त्वक्।
*अङ्घ्रिनामक:इति पदस्यार्थः पाद इति संज्ञया युक्तःइति। अंघ्रि उपादः। ततः पादस्य पर्यायपदानि भवन्ति इति पारमेश्वरी व्याख्यायां स्पष्टीकृतम्। **।मज्जाइत्यस्य “मज्जामज्जानौ मज्जान”इति नकारान्तत्वेन “मज्जा – मज्जे – मज्जाः”इति स्त्रीलिङ्गत्वेन च गणना अस्तीति पारमेश्वरी। नटि उ पुंसि उ पुंलिङ्गे। |
काष्ठं दार्विन्धनं त्वेध इध्ममेध: समित् स्त्रियाम्।
निष्कुह: कोटरं वा ना वल्लरिर्मज्जरि: स्त्रियाम्।।१३।।
काष्ठं (अ-नपुं) दारु (उ-नपुं) – वृक्षस्य काष्ठम्। इन्धनं (अ-नपुं) एध: स-नपुं)
इध्मं (अ-नपुं) एध: (अ-पु) समित् (ध-स्त्री) – काष्ठस्य पर्यायपदानि(अÏग्न प्रज्वालयितुम् उपयुज्यमानं शुष्कतृणादि काष्ठशब्दस्य अत्र अर्थः)।
निष्कुह: (अ-पु) कोटरं (अ-नपुं) – वृक्षे जातं कोटरम्। वृक्षस्योपरिजातं विवरम्।कोटरशब्दः पुंलिङ्गेऽपि। वल्लरि:, मज्जरि: (इ-स्त्री) – पुष्पस्तबक:।
पत्रं पलाशं छदनं दलं पर्णं छद: पुमान्।
पल्लवोऽस्त्रि किसलयं विस्तारो विटपोऽस्त्रियाम्।।१४।।
पत्रं, पलाशं, छदनं दलं, पर्णं (अ-नपुं) छद: अ-पु) – पर्णस्य पर्यायपदानि। पल्लव: (अ-पु) किसलयं (अ-नपुं) – किसलयस्य पर्यायपदे भवत:। (नूतनपदस्य पर्यायपदे)।पल्लवशब्दः नपुंसकेऽपि प्रयुज्यते।
विस्तार:, विटप: (अ-पु) – पल्लवसमुदाय:।
वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्।
आमे फले शलाटु: स्याच्छुष्के वानमुभे त्रिषु।।१५।।
सस्यं (अ-नपुं) – वृक्षादीनां फलम्। वृन्तं (अ-नपुं) – प्रसवबन्धनम् । पुष्पाणां फलानाञ्च मातृवृक्षेण बन्धनम्।
शलाटु: (उ-पु) आमफलम्, अपक्वफलम्। वानम् (अ-नपुं) शुष्कं फलम्। शलाटु:, वानं इति पदद्वयं त्रिष्वापि लिङ्गेषु प्रयुज्यते।
क्षारको जालकं क्लीबे कलिका कोरक: पुमान्।
स्यात् गुच्छकस्तु स्तबक: कुड्मलो मुकुलोऽस्त्रियाम्।।१६।।
क्षारक: (अ-पु) जालकं (अ-नपुं) – नूतना कलिका (अस्फुटकलिका)। कलिका (आ-स्त्री)
कोरक: (अ-पु) – अविकसितकुसुमम्। गुच्छक:, स्तबक: (अ-पु) विकासोन्मुखपुष्पम्। कुड्मल:, मुकुल: (अ-पु) – ईषद्विकासोन्मुखपुष्पम्।
स्त्रिय: सुमनस: पुष्पं प्रसूनं कुसुमं सुमम्।
मकरन्द: पुष्परस: पराग: सुमनोरज:।।१७।।
सुमनस: (स- नित्यं बहुवचनं स्त्री) पुष्पं, प्रसूनं, कुसुमं, सुमं (अ-नपुं) – पुष्पस्य पर्यायपदानि। मकरन्द:, पुष्परस: (अ-पु) – पुष्पमधु:। पराग: (अ-पु) पुष्पस्य रज:।
संक्षिप्तीकरणम्।
संक्षिप्तीकरणम् अधो दीयते पट्टिकायाम्।
पदानि | पर्यायपदानि | अर्थभेद: |
वनम् | अटवी, अरण्यं, विपिनं, काननम् | |
अरण्यम्-महारण्यम् | अरण्यम् – काननम् वनम् महारण्यम् – महत् अरण्यम् (महत् वनम्) अरण्यानि |
|
वनम् – उपवनम् | वनं – काननम्। (स्वाभाविकरीत्या वर्तमानम्) उपवनम् -कृत्रिमं वनम्। |
|
वृक्ष: | महीरुह:, शाखी, विटपी, पादप:। | |
वानस्पत्य:-
वनस्पति: |
वानस्पत्य: – पुष्पात् जातैः फलैः उपलक्षितो वृक्ष:। वनस्पति: – पुष्पं विनाजातैःफलैः उपलक्षितो वृक्ष:। |
|
ओषधि: – फलेग्रहि: | ओषधि: – फलपाकान्त: वृक्ष:। फलेग्रहि: – यथासमयं फलधरवृक्षः |
|
वन्ध्य: | अफल:, अवकेशी, वन्ध्य: | वन्ध्य:- ऋतौ अपि फलरहितो वृक्ष:। |
फली | फलिन:, फलवान्, फली | फली – फलयुक्त: वृक्ष:। |
संफुल्ल: स्थाणु: – क्षुप: |
प्रफुल्ल:, उत्फुल्ल:, व्याकोश:, विकचः। |
स्थाणु: -शाखापत्ररहित: तरु:। क्षुप: – क्षुद्रवृक्ष:। |
पदानि | पर्यायपदानि | अर्थभेद: |
वनम् – वानम् | वनम् इत्यस्य काननम् इत्यर्थ:। वानम् इत्यस्य शुष्कं फलम् इत्यर्थ:। | |
प्रतति: | वल्ली, लता, वीरुत्, गुल्मिनी | |
उत्सेध: – स्कन्ध: | उत्सेध: – पर्वतवृक्षादीनां दैघ्र्यम्। स्कन्ध: -वृक्षस्य मूलादारभ्य शाखापर्यन्त: भाग:। | |
काष्ठम् | दारु, इन्धनम्, एध:(सकारान्तः), एध:(अकारान्तः) | |
कोटरम् – मञ्जरि: | कोटरम् – वृक्षे जातं कोटरं (विवरम् )। मञ्जरि:- पुष्पस्तबक:। |
|
पर्णम् | पलाशं, छदनं, दलं, छद: | |
सस्यम् – जालकम् | सस्यम् – वृक्षादीनां फलम्। जालकम् – नूतनी कलिका। | |
स्तबक: – मुकुल: | स्तबक: – विकासोन्मुखं पुष्पम्। मुकुल: – ईषद्विकासोन्मुखं पुष्पम्। सुमम् सुमनस:, पुष्पं, प्रसूनं, कुसुमम् |
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. अटवी’इत्यस्य कोऽर्थ:? २. ‘अरण्यानी’इत्यस्य समानार्थं पदं किम्? ३. का नाम वृक्षवाटिका? ४. ‘राजि:’ – किं लिङ्गम्? ५. गुल्म: इति पदस्य समानार्थकं पदं लिखत- ६. शिफा नाम का? ७. मज्जा इति पदस्यान्तं लिङ्गं च लिखत। ८. वल्कलम् इत्यस्य समानार्थकं पदं ……………..। (पूरयत) |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. वृक्षपदस्य चत्वारि पर्यायपदानि लिखत। २. वनस्पत्यानां स्वभाव: कीदृश:? ३. अवकेशिन: फलिनस्य च मिथ: को भेद:? ४. स्थाणो: स्वभाव: कीदृश:? ५. वनम् वानम् इत्यनयो: क: भेद:? ६. कोरक: इत्यस्य समानार्थकं पदं किम्? ७. ईषद्विकासोन्मुखस्य पुष्पस्य किंनाम? ८. कुसुमम् इत्यस्य पर्यायपदानि कानि? |
निर्दिष्टाभ्यासः (Assignments)
१. वृक्षस्य पर्यायपदानां सविशेषताः २. वारिवर्गे अन्तर्भूतान् विंशतिः श्लोकान् पठन्तु। |
निर्देशानुसारम् उत्तरं लिखत।
|
उत्तराणि (Answer to Objective type questions)
१. वनम्। २. महारण्यम्। ३. अमात्यस्य गणिकाया: वा गृहस्य समीपस्थ: आराम:। ४. स्त्रीलिङ्गम्। ५. स्तम्ब:। ६. मूलत: अग्रपर्यन्तम् अवरोहरूपेण वर्तमाना लता। ७. नकारान्त: पुल्लिङ्गम्। ८. वल्कम्। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. अमरसिंह: अमरकोशम् व्याख्याता – टि.वि माधववारियर् , काणिप्प्यूर् पञ्चाङ्गं पुस्तकशाला, कुन्नंकुलम् 2012, पुटं 66 – 691. २. अमरसिंह:, अमरकोशम्, व्याखाता वाचस्पति: टि.सी.परमेश्वरन् मूसद्, नाषणल् बुक् स्टाल्, कोट्टयम्, 1983, पुटानि 278-284. |