Unit-1
41-50 श्लोकाः
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
रघुवंशे द्वितीयसर्गे राज्ञा दिलीपेन परिरक्षितं धेनुं वने सिंहः गृह्णाति।राजा दिलीपः धेनुं रक्षितुं सिंहस्य वधाय शरं उद्धर्तुं ऐच्छत्। बाहुप्रतिष्ठम्भेन प्रवृद्धकोपः राजा मन्त्रौषधादिनां निरुद्धवीर्यः सर्पःइव स्वतेजसा अन्तः अदह्यत। तदनन्तरं किं भविष्यति इति अस्मिन् पाठभागे पश्यामः। |
मुख्यपदानि (Key terms)
प्रगल्भम्, वितथप्रयत्न:, विवक्षु:, प्राणभृतम्, , अनुपेक्षणीयम्, घटोघ्नी:, दंष्ट्रामयूखै:,प्रभुत्वम्।
Discussion
४१. राजा दिलीपः लज्जाम् उपेक्षितवान्।
इति प्रगल्भं पुरुषाधिराजो
मृगाधिराजस्य वचो निशम्य।
प्रत्याहतास्त्रो गिरिशप्रभावा-
दात्मन्यवज्ञांशिथिलीचकार।।४१।।
पदच्छेद: – आत्मन्यवज्ञाम् – आत्मनि + अवज्ञाम्।
वचो निशम्य -वचः+ निशम्य।
अन्वय: अन्वयार्थ:
पुरुषाधिराज: – नृृप:
इति – वक्ष्यमाणं
प्रगल्भं – प्रकृष्टं
मृगाधिराजस्य वच: – वनराजस्य वचनं
निशम्य – श्रुत्वा
गिरिशप्रभावात् – ईश्वरस्य तेजोविशेषात्
प्रत्याहतस्त्र: (सन्) – विफलीकृतास्त्र: सन्
आत्मनि – स्वस्य विषये
अवज्ञां – अपमानं
शिथिलीचकार – अत्यजत्।
सार: – वनराजस्य वचनं श्रुत्वा दिलीप: आत्मनि अवज्ञां दूरीचकार। मदीय: क्षात्रतेजस: न्यूनता न। अपि तु
परमशिवस्य तेजोविशेष: एव कारणमिति ज्ञातवान्।
विग्रह: – पुरुषाधिराज: – पुरुषाणाम् अधिराज:।
गिरिश: – गिरं शेते इति गिरिशः।
क्रिया – शिथिलीचकार – अशिथिलं शिथिलं सम्पद्यमानं चकार शिथिलीचकार।
शिथिलपूर्वक डुकृञ् करणे पर-लिट्-प्र-पु-ए-व।
शिथिलीचकार – शिथिलीचक्रतु: – शिथिलीचक्रु:।
अलङ्कार: – काव्यलिङ्गालङ्कार:। (समर्थनीयार्थस्य समर्थनं काव्यलिङ्गम्)
४२. अथ राजा अब्रवीत्।
प्रत्यब्रवीच्चैनमिषुप्रयोगे
तत्पूर्वभङ्गे वितथप्रयत्न:।
जडीकृतस्त्र्यम्बकवीक्षणेन
वज्रं मुमुक्षन्निव वज्रपाणि:।।४२।।
पदच्छेद: – प्रत्यब्रवीच्चैनमिषुप्रयोगे – प्रत्यब्रवीत् + च + एनम् अइषुप्रयोगे।
जडीकृतस्त्र्यम्बकवीक्षणेन – जडीकृत: + त्र्यम्बकवीक्षणेन।
मुमुक्षन्निव – मुमुक्षन् अइव।
अन्वय: अन्वयार्थ:
तत्पूर्वभङ्गे – प्रथमत: संजातप्रतिबन्धे
इषुप्रयोगे – बाणप्रयोगे
वितथप्रयत्न: – विफलप्रयत्न:
वज्रं मुमुक्षन् – वज्रायुधं मोक्तुमिच्छन्
जडीक्रतः – निस्पन्दीकृतः
वज्रपाणि: इव – इन्द्र: इव
एनं प्रत्यब्रवीत् च – सिंहं प्रत्यवदत् च।
सार: – बाणप्रयोगे विफलप्रयत्न: त्रिनेत्रवीक्षणेन निष्पन्दीकृत इन्द्र: इव स्थित: नृप: एनं सिंहं प्रत्यब्रवीत्।
विग्रह: – वितथप्रयत्न: – वितथ: प्रयत्न: यस्य स:।
त्र्यम्बक: – त्रीणि अम्बकानि यस्य स:।
वज्रपाणि: – वज्रं पाणौ यस्य स:।
क्रिया – प्रत्यब्रवीत् – प्रति उपसर्गपूर्वक ब्रूञ् व्यक्तायां वाचि धातो: पर-लङ्-प्र-पु-ए-व।
प्रत्यब्रवीत् – प्रत्यब्रुताम् – प्रत्यब्रुवन्।
अलङ्कार: – उदात्तालङ्कार:। उदात्तमृद्धिश्चरितं श्लाघ्यं चान्योपलक्षणम्।। (कुवलयानन्दम्)
४३. मम वचनं हास्यं भवेत्, तथापि वक्ष्ये।
संरुद्धचेष्टस्य मृगेन्द्रकामं
हास्यं वचस्तद्यदहं विवक्षु:।
अन्तर्गतं प्राणभृतां हि वेद
सर्वं भवान्भावमतोऽभिधास्ये।।४३।।
पदच्छेद: – वचस्तद्यदहम् – वच: +तत् + यद् + अहम्।
भावमतोऽभिधास्ये – भावम् + अत: + अभिधास्ये।
अन्वय: अन्वयार्थ:
हे मृगेन्द्र – हे वनराज
संरुद्धचेष्टस्य – प्रतिबद्धव्यापारस्य मम
तद् वच: – तद् वाक्यं
कामं हास्यम् (अस्ति) – नूनं परिहसनीयं भवेत्।
यद् (वच:) अहं विवक्षु: – यत् वाक्यं अहं विवक्षु: (अस्मि)
हि – निश्चयेन (यस्मात्)
प्राणभृतां – जीविनां
अन्तर्गतं सर्वं भावं – हृद्गतं सर्वम् अभिप्रायं
भवान् वेद – भवान् जानाति
अत: अभिधास्ये – तस्मात् वक्ष्यामि।
सार: – हे मृगेन्द्र, शस्त्रप्रयोगे विफलीकृतस्य मम वचनं यद्यपि परिहासास्पदं तथापि अहं वक्तुमिच्छामि। भूतानां
मनोगतं सर्वं त्वं जानासि इति हेतो: वक्ष्यामि।
विग्रह: – मृगेन्द्र: – मृगाणाम् इन्द्र:।
विवक्षु: – वक्तुम् इच्छु:।
क्रिया – अभिधास्ये – अभि (उपसर्ग) अ डुधाञ् धारणे आत्म-लृट्-उ-पु-ए-व।
अभिधास्ये – अभिधास्यावहे – अभिधास्यामहे।
४४. मया धेनु: येन केनापि प्रकारेण संरक्षितव्या।
मान्य: स मे स्थावरजङ्गमानां
सर्गस्थितिप्रत्यवहारहेतु:।
गुरोरपीदं धनमाहिताग्ने-
र्नश्यत्पुरस्तादनुपेक्षणीयम्।।४४।।
पदच्छेद: – गुरोरपीदम् – गुरो: + अपि +अइदम्।
धनमाहिताग्ने: – धनम् +आहिताग्ने:।
अन्वय: अन्वयार्थ:
स्थावरजङ्गमानां – चराचराणां
सर्गस्थितिप्रत्यवहारहेतु: – सृष्टिस्थितिप्रलयकारणं
स: – ईश्वर:
मे मान्य: – मम पूज्य:
पुरस्तात् नश्यत् – पुरत: नश्यमान:
आहिताग्ने: गुरो: – अग्निहोत्रिण: वसिष्ठस्य
इदं धनम् अपि – इयं धेनु: अपि
अनुपेक्षणीयम् – उपेक्षानर्हं भवति।
सार: – चराचराणां सृष्टिस्थितिसंहारहेतु: स: महेश्वर: मे पूज्य: एव। तथापि मम पुरत: गुरो: वसिष्ठस्य धेनो:
नश्यमाना स्थिति: अपि न उपेक्षणीया भवति। ।
विग्रह: – अनुपेक्षणीयम् – उपेक्षितुं योग्यम् उपेक्षणीयम्, न उपेक्षणीयम् अनुपेक्षणीयम्।
४५.मां भक्षयतु, धेनुं मोचयतु।
स त्वं मदीयेन शरीरवृतिं्त
देहेन निर्वर्तयितुं प्रसीद।
दिनावसानोत्सुकबालवत्सा
विसृज्यतां धेनुरियं महर्षे:।। ४५।।
पदच्छेद: – धेनुरियम् – धेनु: +इयम्।
अन्वय: अन्वयार्थ:
स: त्वं – अङ्कागतसत्ववृत्ति: त्वं
मदीयेन देहेन – मम शरीरेण
शरीरवृतिं्त – क्षुत्पिपासादिकं
निर्वर्तयितुं – शमयितुं
प्रसीद – प्रसन्नो भव
दिनावसानोत्सुकबालवत्सा – सायंकाले वत्सं द्रष्टुम् उत्कण्ठाकुला
इयं महर्षे: धेनु: – एषा वसिष्ठाचार्यस्य गौ:
विसृज्यताम् – मुच्यताम्।
सार: – गो: स्थाने भवान् भक्षणरूपेण मम शरीरं स्वीकृत्य सन्तुष्टो भवतु। सायंकाले स्ववत्सं दृष्टुमुत्सुकां
महर्षे: इमां धेनुं मोचयतु।
विग्रह: – मदीयेन – मम इदं मदीयं, तेन।
क्रिया – विसृज्यताम् – वि अ सृज् विसर्गे आत्म-लोट्-प्रपु-ए-व।
विसृज्यताम् – विसृज्येताम् – विसृज्यन्ताम्।
४६. सिंह: पुनरप्युवाच।
अथान्धकारं गिरिगह्वराणां
दंष्ट्रामयूखै: शकलानि कुर्वन्।
भूय: स भूतेश्वरपाश्र्ववर्ती
किञ्चिद्विहस्यार्थपतिं बभाषे।।४६।।
पदच्छेद: – अथान्धकारम्- अथ + अन्धकारम्।
विहस्यार्थपतिम् – विहस्य +अर्थपतिम्।
स भूतेश्वरपाश्र्ववर्ती – स:+ भूतेश्वरपाश्र्ववर्ती।
अन्वय: अन्वयार्थ:
अथ – अनन्तरम्
भूतेश्वरपाश्र्ववर्ती – शिवस्य अनुचर:
स: – स: सिंह:
गिरिगह्वराणां – पर्वतगुहानां
अन्धकारं – तम:
दंष्ट्रामयूखै: – स्थूलदन्तकिरणै:
शकलानि – खण्डानि
कुर्वन् – वितन्वन्
किञ्चित् – ईषत्
विहस्य – हसित्वा
अर्थपतिम् – नृपम् (दिलीपम्)
भूय: – पुन:
बभाषे – उवाच।
सार: – अनन्तरं महेशभृत्य: स सिंह: स्वदंष्ट्राशोभया गुहान्धकारं शिथिलीचकार। तत: किञ्चित् हसित्वा दिलीपं
वक्ष्यमाणप्रकारेण अवदत्।
विग्रह: – दंष्ट्रामयूखै: – दंष्ट्राणां मयूखा: दंष्ट्रामयूखा:, तै:।
गिरिगह्वराणाम् – गिरे: गह्वराणि गिरिगह्वराणि, तेषाम्।
क्रिया – बभाषे – भाष व्यक्तायां वाचि -आत्म-लिट्-प्र-पु-ए-व।
बभाषे – बभाषाते – बभाषिरे।
४७. त्वं चिन्तारहित: इति मन्ये।
एकातपत्रं जगत: प्रभुत्वं
नवं वय: कान्तमिदं वपुश्च।
अल्पस्य हेतोर्बहुहातुमिच्छन्
विचारमूढ: प्रतिभासि मे त्वम्।।४७।।
पदच्छेद: – वपुश्च – वपु: + च।
हातुमिच्छन् – हातुम् अइच्छन्।
अन्वय: अन्वयार्थ:
एकातपत्रम् – एकच्छत्रम्
जगत: – लोकस्य
प्रभुत्वम् – स्वामित्वम्
नवं वय: – तारुण्यं
इदम् – एतत्
कान्तम् – रम्यम्
वपुःच – शरीरञ्च
बहु – सर्वम्
अल्पस्य हेतो: – अल्पस्य कारणस्य रक्षणार्थं
हातुम् – त्यक्तुम्
इच्छन् – अभिलषन्
त्वम् – भवान्
विचारमूढ: – कार्याकार्ये विचारहीन:
मे प्रतिभासि – मे लक्ष्यते।
सार: – चक्रवर्तित्वं लोकस्य स्वामित्वं नवतारुण्यं सुन्दरं शरीरञ्च भवत: अस्ति। एतत् सर्वं त्वम् अल्पफलाय
नन्दिनीसंरक्षणाय त्यक्तुमिच्छसि वा? एतादृश: त्वं चिन्तारहित: इति अहं मन्ये।
विग्रह: – एकातपत्रम् – एकं च तत् आतपत्रं च एकातपत्रम्।
प्रभुत्वम् – प्रभो: भाव:।
विचारमूढ: – विचारे मूढ:।
क्रिया – प्रतिभासि – प्रति इत्युपसर्गपूर्वक भा दीप्तौ-पर-लट्-म-पु-ए-व।
प्रतिभासि – प्रतिभाथ: – प्रतिभाथ।
४८. तव अनुकम्पयापि स्वदेहत्याग: न युक्त:।
भूतानुकम्पा तव चेदियं गौ-
रेका भवेत्स्वस्तिमती त्वदन्ते।
जीवन्पुन:शश्वदुपप्लवेभ्य:
प्रजा: प्रजानाथ पितेव पासि।।४८।।
पदच्छैद: – चेदिदम् – चेत् +इदम्।
गौरेका- गौ: + एका।
शश्वदुपप्लवेभ्य: – शश्वत् +उपप्लवेभ्य:।
पितेव – पिता अइव।
अन्वय: अन्वयार्थ:
तव – भवत:
भूतानुकम्पा – भूतेषु दयालुत्वं
चेत् – यदि अस्ति
त्वदन्ते – तव नाशे
इयं एका गौः – एषा नन्दिनी
स्वस्तिमती – क्षेमवती भवेत्
प्रजानाथ – हे जनेश्वर
जीवन् – त्वं जीवसि चेत्
पुन: – भूय:
पिता इव – तात इव
प्रजा: – जनान्
उपप्लवेभ्य: – उपद्रवेभ्य:
शश्वत् – सदा
पासि – त्रायसे।
सार: – प्राणिनां कृते भवत: नितराम् अनुकम्पा अस्ति इति अहं मन्ये। एकस्या: धेनो: कृते स्वप्राणान् विहातुं
भवान् इच्छति वा? किन्तु यदि त्वं प्राणान् धारयसि चेत् पिता इव सर्वेषां भूतजालानां रक्षिता भविष्यसि
खलु?
विग्रह: – भूतानुकम्पा – भूतेषु अनुकम्पा।
स्वस्तिमती – स्वस्तिःअस्या: अस्तीति।
प्रजानाथ – प्रजानां नाथ: प्रजानाथ:, तत्सम्बुद्धौ।
क्रिया – पासि – पा रक्षणे पर-लट्-म-पु-ए-व।
पासि – पाथ: – पाथ।
४९. गुरो: कोप: बहुगोदानेन परिहर्तुं शक्यते।
अथैकधेनोरपराधचण्डाद्-
गुरो: कृशानुप्रतिमाद्विभेषि।
शक्योऽस्य मन्युर्भवता विनेतुं
गा: कोटिश: स्पर्शयता घटोघ्नी:।।४९।।
पदच्छेद: – अथैकधेनो: – अथ + एकधेनो:। शक्योऽस्य – शक्य: + अस्य।
अन्वय: अन्वयार्थ:
अथ – अनन्तरं
एकधेनो: अपराधचण्डात् – नन्दिनीं न रक्षिता इति अपराधेन कुपितात्
कृशानुप्रतिमात् गुरो: – अग्निकल्पात् आचार्यवसिष्ठात्
बिभेषि (चेत् ) – भयाकुल: भवसि चेत्
घटोघ्नी: कोटिशः गाः – कलशस्तनी: कोटिसंख्याका: धेनू:
स्पर्शयता – समर्पयता
भवता – त्वया
अस्य मन्यु: – अस्य आचार्यस्य कोप:
विनेतुं शक्य: – दूरीकर्तुं शक्यते।
सार: – नन्दिन्या: कृते कोटिश: पयस्विनी: गा: दत्वा मुने: वसिष्ठस्य कोपात् विमुकिं्त प्राप्तुं त्वया शक्यते। अलं
चिन्तया।
क्रिया – बिभेषि – भी भये धातो: पर-लट्-मपु-ए-व।
बिभेषि – बिभिथ:/बिभीथ: – बिभिथ/बिभीथ। ।
व्याकरणविशेष: – कृशानुप्रतिमात् कोपात् बिभेषि इत्यत्र भीत्रार्थानां भयहेतु: इति सूत्रेण पञ्चमी।
५॰. भवत: शरीरं संंरक्ष।
तद्रक्ष कल्याणपरम्पराणां
भोक्तारमूर्जस्वलमात्मदेहम्।
महीतलस्पर्शनमात्रभिन्न-
मृद्धं हि राज्यं पदमैन्द्रमाहु:।।५॰।।
पदच्छेद: – तद्रक्ष – तत् + रक्ष।
भोक्तारमूर्र्जस्वलमात्मदेहम् – भोक्तारम् अऊर्र्जस्वलम् + आत्मदेहम्।
महीतलस्पर्शनमात्रभिन्नमृद्धम् – महीतलस्पर्शनमात्रभिन्नम् + ऋद्धम्।
पदमैन्द्रमाहु: – पदम् अ ऐन्द्रम् अ आहु:।
अन्वय: अन्वयार्थ:
तत् – तस्मात् हेतो:
कल्याणपरम्पराणाम् – मङ्गलश्रेणीनाम्
भोक्तारम् – अनुभूतवन्तम्
ऊर्जस्वलम् – ऊर्जस्विनम्
आत्मदेहं – निजं शरीरं
रक्ष – पालय
हि – यत:
ऋद्धं राज्यं – समृद्धं राज्यं
महीतलस्पर्शनमात्रभिन्नं – भूतलस्पर्शेन भिन्नं
ऐन्द्रं पदं – स्वर्गं
आहु: – विद्वांसःकथयन्ति।
सार: – मनीषिण: सुसमृद्धं राज्यं भूलोकस्वर्गमिति वदन्ति। अत: समस्तमङ्गलानाम् उपभोक्तारं तव शरीरं
पालय।
विग्रह: – कल्याणपरम्पराणाम् – कल्याणानां परम्परा: कल्याणपरम्परा:, तेषाम्।
ऊर्जस्वलम् – ऊर्ज: अस्य अस्तीति ऊर्जस्वल:, तम्।
आत्मनदेहम् – आत्मन: देह: आत्मदेह:, तम्।
ऐन्द्रम् – इन्द्रस्य इदम्।
क्रिया – आहु: – ब्रूञ् व्यक्तायां वाचि पर-लट्-प्र-पु-ब-व।
ब्रवीति/आह – ब्रूत:/आहतु: – ब्रुवन्ति/आहु:।
अलङ्कार: – व्यतिरेक: (व्यतिरेको विशेषश्चेदुपमानोपमेययोः)
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. आत्मन्यवज्ञां शिथिलीचकार – क:? २. गुरो: भवान् दर्शितशिष्यभक्ति: – कथं शिष्यभकिं्त प्रकटितवान्? ३. भवान् प्राणभृताम् अन्तर्गतं भावं वेत्ति – क:? ४. गिरिगह्वराणाम् अन्धकारं शकलानि कुर्वन् – कै:? ५. ‘मदीयं शरीरं तुभ्यं भक्षणाय समर्पयामि।’इति कः वदति? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. मृगाधिराज: क:? २. त्र्यम्बकवीक्षणेन क: वज्रमुपेक्षितवान्? ३. सर्गस्थितिप्रत्यवहारहेतु: क:? ४. विचारमूढ: प्रतिभासि मे त्वम् – केन कारणेन? ५. गुरो: कोपात् विमुकिं्त प्राप्तुं कम् उपायं सिंह: निर्दिशति? |
निर्दिष्टाभ्यासः (Assignments)
१. सिंहदिलीपसंवादं संक्षिप्य लिखत। २. कालिदासस्य रघुवंशमहाकाव्ये चतुर्थसर्गे वर्तमानाः प्रथमाः पञ्चश्लोकाः सविस्तरं पठन्तु। |
उत्तराणि (Answer to Objective type questions)
१.दिलीप:। २. रक्ष्यां धेनुं रक्षितुं यतितान्। ३. सिंह:। ४. दंष्ट्रामयूखै:। ५. दिलीपः। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. कालिदास:, रघुवंशमहाकाव्यम्, सर्ग: द्वितीय:, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्, कल्पात्ति, पालक्काट्,2013। २. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस। |