Unit-1
1-10 श्लोकाः
कविकुलगुरुणा कालिदासेन प्रणीतस्य रघुवंशमहाकाव्यस्य द्वितीय: सर्ग: अत्र समारभ्यते। दिलीपमहाराजस्य नन्दिनीपरिचरणं, राज्ञः दृढभक्तिपरीक्षणं तथा नन्दिनीवरप्रसादश्च सर्गेऽस्मिन् प्रतिपाद्य विषयः।
उद्देश्यानि।(Learning Outcomes)
१. पद्यं (श्लोकं)यतितालानुसारम् आलपति। २. महाकविं कालिदासं, तस्य ग्रन्थान् च परिचिनोति। ३. महाकाव्येषु रघुवंशस्य प्राधान्यं जानाति। ४. आधुनिकं भरणाधिकारिणं प्रति तुलनां करोति। ५. काव्यरसानुभूतिं अनुभूयते। ६. अलङ्कारप्रयोगे, विशिष्य उपमालङ्कारप्रयोगे कालिदासस्य अनितरसाधारणीं प्रतिभां जानाति। ७. नूतनपदावलीं वर्धयति। ८. आशयावगति: जायते। ९. धातुपदलकारपुरुषवचनानि जानाति। |
प्राग्व्यपेक्षाः (Prerequisites)
अध्यापक: – हे छात्रा:, कवि: काव्यं चेति पदद्वयं युष्माभि: श्रुतपूर्वं वा न वा? छात्रा: – श्रुतमेव। अध्यापक: – एवं चेत् कतिपयानां कवीनां नामानि वदन्तु। छात्रा: – भासभारविकालिदासादय:। अध्यापक: – एतादृशानां कवीनां कर्म एव काव्यम्। संस्कृतसाहित्ये विद्यमानानि महाकाव्यानि ज्ञातं वा न वा? छात्रा: – ज्ञातम् एव। अध्यापक: – यदि चेत् तानि कानि? छात्रा: – नैषधम्, किरातार्जुनीयम्, शिशुपालवधम्, कुमारसम्भवम्, रघुवंशम् चेति। अध्यापक: – तेषु अन्तिमद्वयं महाकविना कालिदासेन प्रणीतं भवति। छात्रा: – कालिदासस्य कालः? अध्यापक: – क्रिस्तो: पूर्वं प्रथमशतकं आसीदिति पण्डिताः मन्यन्ते। स: प्रतिभावान् भावनाकुबेर: कश्चन महाकविरासीत्। कवीनां कवि: एव महाकवि:। विक्रमादित्यमहाराजस्य विद्वत्सभायां नवरत्नेष्वन्यतम: आसीत् अयं महाकवि:। धन्वन्तरिक्षपणकामरसिंहशङ्कुवेतालभट्टघटकर्परकालिदासा:। ख्यातो वराहमिहिरो नृपतेर्सभायां रत्नानि वै वररुचिर्नवविक्रमस्य।। इतीयं भणिति: सुतरां प्रसिद्धमेव। उपमालङ्कारप्रयोगे अनितरसाधारणप्रतिभावान् आसीत् अयं महाकवि:। बहूनि निदर्शनानि सन्ति। तदन्विष्य पश्यन्तु। तस्य कृतित्वेन उपलब्धमानानि ग्रन्थतल्लजानि न केवलं संस्कृतसाहित्ये किन्तु लोकसाहित्ये अपि अनितरसाधारणीं कविताकाÏन्त प्रसार्य सर्वोत्कर्षेण वरीवर्ति इति वक्तुं न कापि संशीति: वर्तते। तेषु अभिज्ञानशाकुन्तलम्, मालविकाग्निमित्रम्, मेघदूतम् इत्यादय: साहित्यनभोमण्डले सर्वोत्कर्षेण वर्तन्ते। प्रथितप्रभावस्य महाकवेरस्य प्रतिभावल्लर्यां विकसिते द्वे महाकाव्येस्त: कुमारसम्भवं रघुवंशं च इति। रघुवंशम् अधिकृत्य वयम् अत्र पठाम:। रघो: वंश: रघुवंश:। वंशं नाम कुलम्। एकोनविंशतिसर्गात्मके अस्मिन् महाकाव्ये दिलीपादारभ्य अग्निवर्णपर्यन्तानां रघुकुलजातानां राज्ञां कथा प्रतिपाद्यते। सर्वैरादृतस्यास्य महाकाव्यस्य द्वितीय: सर्ग: अस्माकं पाठ्यविषय:। द्वितीयसर्गप्रवेशिका। प्रथमसर्गे सभार्य: राजा दिलीप: कुलगुरो: वसिष्ठस्य आश्रमम् उपेत्य कामधेनुसुतां नन्दिनीं परिसेवितुम् आरब्धवान्। यदा नन्दिनी निद्रां प्राप तदा दिलीपःआस्तीर्य तस्या सकाशं शेतवान् आसीत्। अतिप्रभाते महर्षिशिष्याणां मन्त्रोच्चारणध्वनिमाकण्र्य सुप्तोत्थित: महाराज: भूयोऽपि तस्या: परिचरणे श्रद्धावान् आसीत्। |
मुख्यपदानि (Key terms)
प्रजानामधिप: श्रुतेरिवार्थं, सौरभेयीं, स्ववीर्यगुप्ता, द्विपेन्द्र:, आचारलाजै:, समाराधनतत्परः, छायेव, अधिज्यधन्वा, पाश्र्वद्रुमाः।
Discussion:
१. दिलीप: धेनुं मुमोच।
अथ प्रजानामधिप: प्रभाते
जायाप्रतिग्राहितगन्धमाल्याम्।
वनाय पीतप्रतिबद्धवत्सां
यशोधनो धेनुमृषेर्मुमोच।।१।।
पदच्छेद: – प्रजानामधिप: – प्रजानाम् +अधिप:।
धेनुमृषेर्मुमोच – धेनुम् +ऋषे: +मुमोच।
अन्वय: अन्वयार्थ:
अथ – कुलगुरो: वसिष्ठस्य उपदेशानन्तरम्। प्रभाते – उषसि।
यशोधन: – कीर्तिमान्।
प्रजानामधिप: – जनानामधिप: राजा दिलीप:।
जायाप्रतिग्राहितगन्धमाल्याम् – जायया भार्यया, प्रतिग्रहीतं स्वीकृतं, गन्धमाल्यां
सुगन्धपूरितचन्दनमालादिभि: अर्चिताम्।
पीतप्रतिबद्धवत्साम् – पय: पाययित्वा बद्धवत्साम्।
ऋषे: – मुने:।
धेनुं – गां नन्दिनीम्।
वनाय – काननाय।
मुमोच – मोचितवान्।
सार: – वसिष्ठस्य उपदेशानुसारेण प्रभाते राज्ञ: दिलीपस्य धर्मपत्नी सुदक्षिणा गन्धमाल्यादिभि: धेनुं नन्दिनीम्
अर्चयामास। तत: वत्सं दुग्धं पाययित्वा बबन्ध। अनन्तरं यशस्वी दिलीप: स्वच्छन्दगमनाय तां नन्दिनीं
वनाय मुमोच।
विग्रह: – यशोधन: -यश एव धनं यस्य स:।
क्रिया – मुमोच। मुच्लृ मोचने परस्मैपदी लिट् प्रथमपुरुष एकवचनम्।
मुमोच – मुमुचतु: – मुमुचु:।
२. सुदक्षिणा नन्दिनीमनुससार।
तस्या: खुरन्यासपवित्रपांसु-
मपांसुलानां धुरि कीर्तनीया।
मार्गं मनुष्येश्वरधर्मपत्नी
श्रुतेरिवार्थं स्मृतिरन्वगच्छत्।।२।।
पदच्छेद: – श्रुतेरिवार्थं – श्रुते: +इव +अर्थंम्।
स्मृतिरन्वगच्छत् – स्मृति: +अन्वग
अन्वय: अन्वयार्थ:
अपांसुलानां – पतिव्रतानां।
धुरि – अग्रे।
कीर्तनीया – परिगणनीया।
मनुष्येश्वरधर्मपत्नी – नरपते: भार्या।
तस्या: – धेन्वा: नन्दिन्या:।
खुरन्यासपवित्रपांसुं – खुरविक्षेपणेन पवित्रीकृतपांसुसहितम्।
मार्गं – पन्थानम्।
श्रुते: अर्थं स्मृति: इव – वेदस्यार्थं स्मृति: यथा।
अन्वगच्छत् – अन्वसरत्।
सार: – पतिव्रतासु प्रथमगणनीया राज्ञ: दिलीपस्य धर्मपत्नी सुदक्षिणा नन्दिन्या: खुरविक्षेपेण पवित्रीकृतपांसुसहितं
मार्गं यथा श्रुते: अर्थं स्मृति: अनुसरति, तथा अनुससार।
अलङ्कार: – उपमा। ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयो:’
विग्रह: – अपांसुलानाम् – न विद्यमान: पांसु: यस्या: सा अपांसुला, तासाम्।
धर्मपत्नी – धर्माय (धर्मार्थं) पत्नी।
क्रिया – अन्वगच्छत् – अनु इत्युपसर्गपूर्वक गम्लृ गतौ धातो: परस्मैपदि लङ् प्रथमपुरुष एकवचनम्।
अन्वगच्छत् – अन्वगच्छताम् – अन्वगच्छन्।
३. राजा पत्नीं निवत्र्य धेनुं जुगोप।
निवत्र्य राजा दयितां दयालु-
स्तां सौरभेयीं सुरभिर्यशोभि:।
पयोधरीभूतचतुस्समुद्रां
जुगोप गोरूपधरामिवोर्वीम्।।३।।
पदच्छेद: – सुरभिर्यशोभि: – सुरभि: अ यशोभि:।
धरामिवोर्वीम् – धराम् + इव अऊर्वीम्।
अन्वय: अन्वयार्थ:
दयालु: – कारुणिक:।
यशोभि: – कीर्तिभि:।
सुरभि: – मनोज्ञ:।
राजा – दिलीप:।
दयितां – पत्नीम्।
निवत्र्य – प्रतिनिवृत्य।
तां सौरभेयीं – तां नन्दिनीं।
पयोधरीभूतचतुस्समुद्रां – चतुस्समुद्रा: पयोधरीरूपेण वर्तमानां।
गोरूपधरां – गोरूपधारिणीं।
ऊर्वीम् इव – वसुधामिव।
जुगोप – अरक्षत्।
सार: – परमकारुणिक: कीर्तिमान् स राजा दिलीप: स्वपत्नीं निवत्र्य पयोधररूपेण वर्तमानां चतुस्समुद्रसहितां
गोरूपधारिणीं नन्दिनीं भूमिम् इव अरक्षत्।
विग्रह: – सौरभेयीम् – सुरभे: अपत्यं स्त्री सौरभेयी, ताम्।
दयालु: – दया अस्य अस्तीति।
क्रिया – जुगोप – गुपू रक्षणे धातु लिट् परस्मैपदी प्रथमपुरुष एकवचनम्।
जुगोप – जुगुपतु: – जुगुपु:।
४. दिलीप: स्वानुचरान् परावर्तयति।
व्रताय तेनानुचरेण धेनो
न्र्यषेधि शेषोऽप्यनुयायिवर्ग:।
न चान्यतस्तस्य शरीररक्षा
स्ववीर्यगुप्ता हि मनो: प्रसूति:।।४।।
पदच्छेद: – तेनानुचरेण – तेन +अनुचरेण।
धेनोन्र्यषेधि – धेनो: +न्यषेेधि।
शेषोऽप्यनुयायिवर्ग: – शेष: +अपि +अनुयायिवर्ग:।
चान्यतस्तस्य – च +अन्यत: +तस्य।
अन्वय: अन्वयार्थ:
व्रताय – नियमानुष्ठानाय।
धेनो: – नन्दिन्या:।
अनुचरेण – सेवकेन
तेन – दिलीपेन
शेष: – अवशिष्ट:
अनुयायिवर्ग: अपि – अनुचरवर्ग: अपि
न्यषेधि – निवर्तयामास।
अस्य – राज्ञ:
शरीररक्षा – शरीरस्य रक्षणं
अन्यत: न – अपरपुरुषेण न करणीय:।
हि – कुत: इति चेत्
मनो: प्रसूति: – मनुवंशजात:
स्ववीर्यगुप्ता – स्वशक्त्या एव रक्षणीया (भवति)
सार: – धेनो: संरक्षणे कृतनिश्चय: दिलीप: शेषान् अनुयायिवर्गान् अपि प्रतिनिवर्तयामास। यत: मनुवंशजाता:
स्ववीर्यगुप्ता एव। स्वशरीरसंरक्षा इतरै: न कर्तव्या।
अलङ्कार:- काव्यलिङ्गालङ्कार:। ‘समर्थनीयस्यार्थस्य समर्थनं काव्यलिङ्गम्’ ।
विग्रह: – शरीररक्षा – शरीरस्य रक्षा।
अनुचर: – अनु पश्चात् चरतीति।
क्रिया – न्यषेधि – नि षिध् कर्मणि-लङ्-प्र-पु-ए-व।
५. दिलीपस्य नन्दिनीसेवाप्रकार:।
आस्वादवद्भि: कवलैस्तृणानाम्
कण्डूयनैर्दंशनिवारणैश्च।
अव्याहतै: स्वैरगतै: स तस्या:
सम्राट् समाराधनतत्परोऽभूत्।।५।।
पदच्छेद: – कवलैस्तृणानाम् – कवलै: अ तृणानाम्।
कण्डूयनैर्दंशनिवारणैश्च – कण्डूयनै: +दंशनिवारणै: +च।
समाराधनतत्परोऽभूत् – समाराधनतत्पर: +अभूत्।
अन्वय: अन्वयार्थ:
सम्राट् स: – चक्रवर्ती स दिलीप:
आस्वादवद्भि: – स्वादिष्टै:
तृणानां कवलै: – तृणानां ग्रासै:
कण्डूयनै: – खर्जनै:
दंशनिवारणै: च – वनमक्षिकाणां दूरीकरणै: च
अव्याहतै: स्वैरगतै: – अप्रतिहतै: स्वच्छन्तगमनै:
तस्या: – धेन्वा:
समाराधनतत्पर: – परिचरणे तत्पर:
अभूत् – अभवत्।
सार:- महाराज: दिलीप: गुरो: वसिष्ठस्य धेनो: परिचरणे दत्तश्रद्ध: अभवत्। स: नन्दिन्यै
रसयुक्ततृणकबलान् प्रायच्छत्, गात्रं कण्डूययन्् मक्षिकान् निवारयत्। धेन्वा: स्वच्छन्दगमने साहाय्यम्
अकरोत्। एवं स नन्दिनीम् असेवत।
विग्रह: – दंशनिवारणै: – दंशानां निवारणं दंशनिवारणं, तै:।
क्रिया – अभूत् – भूधातु-परस्मैपदी-लुङ्-प्रथमपुरुष-एकवचनम्।
अभूत् – अभूताम् – अभूवन्।
६. दिलीप: छायेव गाम् अन्वगच्छत्।
स्थित: स्थितामुच्चलित: प्रयतां
निषेदुषीमासनबन्धधीर:।
जलाभिलाषी जनमाददानां
छायेव तां भूपतिरन्वगच्छत्।।६।।
पदच्छेद: – स्थितामुच्चलित: – स्थिताम् +उच्चलित:।
निषेदुषीमासनबन्धधीर: – निषेदुषीम् +आसनबन्धधीर:।
छायेव – छाया +इव।
भूपतिरन्वगच्छत् – भूपति: +अन्वगच्छत्।
अन्वय: अन्वयार्थ:।
भूपति: – राजा
तां – धेनुं
स्थितां स्थित: – यदा तिष्ठति तदा तिष्ठन्
प्रयाताम् उच्चलित: – नन्दिन्यां प्रयातां राजा अपि चलितवान् निषेदुषीं – तस्याम् उपविष्टायां
आसनबन्धधीर: – आसने उपविष्ट: सन्।
जलमाददानां – जलं पिबन्त्यां
जलाभिलाषी – जलमभिलषन्
(एवं) छाया इव – प्रतिबिम्बम् इव
अन्वच्छत् – अनुजगाम ।
सार: – महाराज: दिलीप: नन्दिनीं छाया इव अनुससार। नन्दिन्यां स्थितायां राजा अतिष्ठत्। तस्यां गतायां
सोऽपि अगच्छत्, तस्याम् उपविष्टायां सोऽपि उपविवेश, तस्यां जलं पिबन्त्यां स: स्वयं जलाभिलाषी
अवर्तत। एवं छाया इव राजा धेनुम् अन्वगच्छत्।
विग्रह: – जलाभिलाषी – जलम् अभिलषति इति।
भूपति: – भुव: पति: ।
क्रिया – अन्वगच्छत् – अनु उपसर्गपूर्वकगम्लृ गतौ धातो:-परस्मैपदि-लङ्-प्रथमपुरुषैकवचनम्।
अन्वगच्छत् – अन्वगच्छताम् – अन्वगच्छन्।
अलङ्कार: – उपमालङ्कार:।
७. दिलीप: राजचिह्नानि परित्यजति।
स न्यस्तचिह्नामपि राजलक्ष्मीं
तेजोविशेषानुमितां दधान:।
आसीदनाविष्कृतदानराजि-
रन्तर्मदावस्थ इव द्विपेन्द्र:।।७।।
पदच्छेद: – न्यस्यचिह्नामपि – न्यस्यचिह्नाम् +अपि।
आसीदनाविष्कृतदानराजि: – आसीत् +अनाविष्कृतदानराजि:।
अन्तर्मदावस्थ: – अन्त: +मदावस्थ:।
अन्वय: अन्वयार्थ:
न्यस्तचिह्नामपि – उपेक्षितराजचिह्नामपि
तेजोविशेषानुमितां – प्रभावातिशयेनानुमितां
राजलक्ष्मीं – राजैश्वर्यं
दधान: – धारयन्
स: – स राजा दिलीप:
अनाविष्कृतदानराजि: – अप्रकटितमदरेख:।
अन्तर्मदावस्थ: – अन्तर्गतमदावस्थ:
द्विपेन्द्र: इव – गजेन्द्र: इव
आसीत् – अभवत्।
सार: – दिलीपमहाराज: सर्वाण्यपि राजचिह्नानि उपेक्षितवान्। तथापि तस्य प्रतापातिशयेन
राजलक्ष्मीं धारयन् स: अप्रकटीकृतमदरेख: अन्तर्गतमदावस्थ: गजश्रेष्ठ: इव आसीत्।
विग्रह: – न्यस्तचिह्नाम् – न्यस्तानि चिह्नानि यस्या: सा न्यस्तचिह्ना, ताम्।
तेजोविशेषानुमितां – तेजोविशेषेण अनुमिताम्।
राजलक्ष्मीं – राज्ञ: लक्ष्मी राजलक्ष्मी, ताम्।
क्रिया – आसीत् – अस भुवि धातु परस्मैपदी लङ् प्रथमपुरुषैकवचनम्।
आसीत् – आस्ताम् – आसन्।
८. अधिज्यधन्वा स दुष्टसत्वानां विनयनं करिष्यन्निव ददर्श।
लताप्रतानोद्ग्रथितै: स केशै-
रधिज्यधन्वा विचचार दावम्।
रक्षापदेशान्मुनिहोमधेनो-
र्वन्यान् विनेष्यन्निव दुष्टसत्वान्।।८।।
पदच्छेद: – केशैरधिज्यधन्वा – केशै: +अधिज्यधन्वा।
रक्षापदेशान्मुनिहोमधेनो: – रक्षापदेशात् +मुनिहोमधेनो:।
विनेष्यन्निव – विनेष्यन् +इव।
अन्वय: अन्वयार्थ:
लताप्रतानोद्ग्रथितै: – वल्लीनां तन्तुुभि: बन्धितै:
केशै: – कुन्दलै:
स: – राजा
अधिज्यधन्वा – शस्त्रप्रयोगाय उद्युक्त:
मुनिहोमधेनो: – मुने: यागधेनो: नन्दिन्या:
रक्षापदेशात् – रक्षाव्याजेन
वन्यान् – वने स्थितान्
दुष्टसत्वान् – हिंस्रजन्तून्
विनेष्यन् इव – शिक्षयिष्यन् इव
दावं – वनं
विचचार – सञ्चरितवान्।
सार: – वल्लीनां कुटिलतन्तुभि: बद्धकेश: राजा शस्त्रप्रयोगाय उद्यत: सन् मुने: होमधेनो: रक्षाव्याजेन वन्यान्
क्रूरजन्तून् शिक्षयिष्यन् इव वने सञ्चचार।
विग्रह: – लताप्रतानोद्ग्रथितै: – लतानां प्रतानै: उद्ग्रथिता: लताप्रतानोद्ग्रथिता:, तै:।
अधिज्यधन्वा – अधिज्यं धनु: यस्य स:।
क्रिया – विचचार – चर् धातोः लिट् प्र-पु-ए-व।
विचचार – विचेरतुः – विचेरुः
९. पाश्र्वद्रुमा: पक्षिणां विरावै: राज्ञ: दिलीपस्य जयशब्दमुदीरयामासु:।
विसृष्टपाश्र्वानुचरस्य तस्य
पाश्र्वद्रुमा: पाशभृता समस्य।
उदीरयामासुरिवोन्मदाना-
मालोकशब्दं वयसां विरावै:।।९।।
पदच्छेद: – उदीरयामासुरिवोन्मदानाम् – उदीरयामासु: +इव +उन्मदानाम्।
अन्वय: अन्वयार्थ:
विसृष्टपाश्र्वानुचरस्य – परित्यक्तसेवकवर्गस्य
पाशभृता समस्य – वरुणेन तुल्यस्य
तस्य – राज्ञ: दिलीपस्य
पाश्र्वद्रुमा: – उभयत: स्थिता: वृक्षा:
उन्मदानां – उत्कटमदानां
वयसां – खगानां
विरावै: – शब्दै:, कूजनै:
आलोकशब्दं – जयशब्दं
उदीरयामासु: इव – अवदन् इव।
सार: परित्यक्तानुचरस्य वरुणतुल्यस्य राज्ञ: पाश्र्वस्थिता: वृक्षा: तत्रस्थानां पक्षिणां विरावै: जयशब्दमुदीरयन्ति
इवासन्।
विग्रह: – विसृष्टपाश्र्वानुचरस्य – विसृष्टा: पाश्र्वानुचरा: येन स: विसृष्टपाश्र्वानुचर: , तस्य।
पाशभृता – पाशं बिभर्ति इति पाशभृत्, तेन।
पाश्र्वद्रुमा: – पाश्र्वयो: स्थिताःद्रुमा:।
क्रिया – उदीरयामासु: – उत् पूर्वकईर् धातुः लिट् प्र-पु-ब-व।
अलङ्कार: – उत्प्रेक्षालङ्कार: – सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना।
१॰. बाललता: कुसुमै: तमवाकिरन्।
मरुत्प्रयुक्ताश्च मरुत्सखाभं
तमच्र्यमारादभिवर्तमानम्।
अवाकिरन् बाललता: प्रसूनै-
राचारलाजैरिव पौरकन्या:।।१॰।।
पदच्छेद: – मरुत्प्रयुक्ताश्च – मरुत्प्रयुक्ता: +च।
तमच्र्यमारादभिवर्तमानम् – तम् +अच्र्यम् अ आराद् +अभिवर्तमानम्। प्रसूनैराचारलाजैरिव – प्रसूनै: +आचारलाजै: अइव।
अन्वय: अन्वयार्थ:
मरुत्प्रयुक्ता: – वायुना प्रेरिता:
बाललता: – लघुवल्लर्य:
आरात् अभिवर्तमानं – समीपे स्थितं
मरुत्सखाभं – अग्नितुल्यशोभं
तं – तं राजानं
प्रसूनै: – कुसुमै:
आचारलाजै: – पूजार्थम् उपयुज्यमानधान्यै:
अवाकिरन् इव – अर्पयामासु: इव।
सार: – वायुना प्रेरिता: बालवल्लर्य: समीपस्थं अग्निसदृशशोभं राजानं दिलीपं कुसुमै: अर्चयामासु:। पूजार्थम्
उपयुज्यमानै: आचारलाजै: अवाकिरन् इव आसीत्।
विग्रहा: – मरुत्प्रयुक्ता: – मरुत: प्रयुक्ता:।
मरुत्सखाभं – मरुत: सखा मरुत्सखः, मरुत्सखः इव आभा यस्य स: मरुत्सखाभ:, तम्।
आचारलाजै: – आचारार्थं लाजा: आचारलाजा:, तै:।
क्रिया – अवाकिरन् – अव पूर्वक कॄ विक्षेपे धातो: परस्मैपदी-लङ्-प्रथमपुरुष:-बहुवचनम्।
अवाकिरत् – अवाकिरताम् – अवाकिरन्। –
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. धेनुमृषेर्मुमोच – क:? २. जुगोप गोरूपधरामिवोर्वीम् – कां जुगोप? ३. राजा कदा धेनुं मुमोच? ४.अधिज्यधन्वा राजा कुत्र विचचार? ५.का इव राजा धेनुमनुससार? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. सुदक्षिणा धेनो: मार्गम् अन्वगच्छत् – कथम्? २. तेजो विशेषानुमितां दधान: – क:? कां दधान:? ३. न्यषेधिशेषोऽप्यनुयायिवर्ग: – केन? कुत:? ४. छायेव तामन्वगच्छत् – क:? काम्? कथम्? |
निर्देशानुसारमुत्तरत।
|
निर्दिष्टाभ्यासः (Assignment)
१. दिलीपस्य धेनपरिचरणं विशदयत। २. कालिदासस्य रघुवंशे तृतीयसर्गे प्रथमाः पञ्चश्लोकाः सविस्तरं पठन्तु |
उत्तराणि (Answer to Objective type questions)
१. दिलीप:। २. नन्दिनीम्। ३. प्रभाते। ४. वने। ५. छाया। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. कालिदास:, रघुवंशमहाकाव्यम्, सर्गः द्वितीयः, व्याख्या पि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्, कल्पात्ति, पालक्काट्,2013। २. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस। |