Course Content
संस्कृताध्ययनविधि
0/30
Environmental Studies
English Language and Linguistics
National Movement 1
Private: BA Sanskrit
About Lesson

Unit-2

अजन्तस्त्रीलिङ्गशब्दा:- लता, मति, नदी, धेनु, मातृ।

उद्देश्यानि।(Learning Outcomes)

  • भारतीयसंस्कृते: महिमातिरेकम् अवगन्तुं, तस्याः वाहिनीरूपायाः अस्याः भाषायाः अध्ययनेन छात्रान् प्रभावयितुम्।
  • संस्कृतसाहित्ये वर्तमानां काव्यसुभगतां ज्ञात्वा छात्रा: आनन्दम् अनुभवन्तु।
  • अनायासेन आशयविनिमय: आत्मविश्वासाय भविष्यति। अत: अयं पाठ्यक्रम: छात्राणाम् आत्मप्रत्ययं प्रवर्धयितुम् अपि उद्दिशति।
  • अनेकानि अजन्तस्त्रीलिङ्गरूपाणि परिचाययति।

प्राग्व्यपेक्षा: (Prerequisites)

हे छात्रा:,
अस्माभि: अकारान्तपुल्लिङ्गशब्द:, इकारान्त: पुल्लिङ्गशब्द:, उकारान्त: पुल्लिङ्गशब्द:, ऋकारान्त: पुल्लिङ्गशब्द:, ओकारान्त: पुंलिङ्गशब्दाः च पठिताः । इदानीं काश्चन स्त्रीलिङ्गशब्दान् पठामः।

मुख्यपदानि (Key terms) 

लता, मतिः , नदी, धेनुः, माता।

Discussion

Table 1.2.1

आकारान्त: स्त्रीलिङ्गः‘लता’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
लता
हे लते
लतां
लतया
लतायै
लताया:
लताया:
लतायां
लते
हे लते
लते
लताभ्याम्
लताभ्याम्
लताभ्याम्
लतयो:
लतयो:
लता:
हे लता:
लता:
लताभि:
लताभ्य:
लताभ्य:
लतानाम्
लतासु।

Table 1.2.2

इकारान्त: स्त्रीलिङ्गः‘मति’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
मति:
हे मते
मतिम्
मत्या
मत्यै-मतये
मत्या:-मते:
मत्या:-मते:
मत्याम्-मतौ
मती
हे मती
मती
मतिभ्याम्
मतिभ्याम्
मतिभ्याम्
मत्यो:
मत्यो:
मतय:
हे मतय:
मती:
मतिभि:
मतिभ्य:
मतिभ्य:
मतीनाम्
मतिषु।

Table 1.2.3

ईकारान्त:स्त्रीलिङ्गः‘नदी’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
नदी
हे नदि
नदीम्
नद्या
नद्यै
नद्या:
नद्या:
नद्याम्
नद्यौ
हे नद्यौ
नद्यौ
नदीभ्याम्
नदीभ्याम्
नदीभ्याम्
नद्योे:
नद्योे:
नद्य:
हे नद्य:
नदी:
नदीभि:
नदीेभ्य:
नदीेभ्य:
नदीनाम्
नदीषु।

Table 1.2.4

उकारान्त: स्त्रीलिङ्गः‘धेनु’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
धेनु:
हे धेनो
धेनुम्
धेन्वा
धेन्वै / धेनवे
धेन्वा:/धेनो:
धेन्वा: /धेनो:
धेन्वाम्
धेनू
हे धेनू
धेनू
धेनुभ्याम्
धेनुभ्याम्
धेनुभ्याम्
धेन्वो:
धेन्वोे:
धेनव:
हे धेनव:
धेनू:
धेनुभिः
धेनुभ्य:
धेनुभ्य:
धेनूनाम्
धेनुषु।

Table 1.2.5

ऋकारान्त: स्त्रीलिङ्गः‘मातृ’ शब्द:।
विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा
सम्बोधनप्रथमा
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
माता
हे मात:
मातरम्
मात्रा
मात्रे
मातु:
मातु:
मातरि
मातरौै
हे मातरौ
मातरौ
मातृभ्याम्
मातृभ्याम्
मातृभ्याम्
मात्रोे:
मात्रो:
मातर:
हे मातर:
मातॄ:
मातृभि:
मातृभ्य:
मातृभ्य:
मातॄणाम्
मातृषु।

भो: सुहृद:,
कतिपयानां शब्दानां सर्वाणि रूपाणि अस्माभि: पठितानि। तेषां पठनाय यत्न: कार्य:। पठितमपि कार्यं कदाचित् स्मृतिमण्डलात् निर्गच्छति। यदि प्रथमाविभक्तौ रूपाणि स्मृतौ आयान्ति तर्हि इतराणि रूपाणि स्मर्तुं शक्यन्ते।
अत: संक्षिप्तीकरणं पठने साहाय्यमित्यत: अत्र लिख्यते।

संक्षिप्तीकरणम्।

विभाग शब्दा: प्रथमायां रूपाणि सदृश: शब्द:
आकारान्त: स्त्रीलिङ्ग: लता लता- लते- लता: रमा, दुर्गा, वनिता
इकारान्त: स्त्रीलिङ्ग: मति मति:- मती- मतय: स्तुति, नीति,कीर्ति
ऊकारान्त: स्त्रीलिङ्ग: वधू वधू- वध्वौ- वध्व: स्वयम्भू
ऋकारान्त: स्त्रीलिङ्ग: मातृ माता- मातरौ- मातर: स्वसृ,दुहितृ

पुनरावृत्तिः (Recap)

  • आकारान्त: स्त्रीलिङ्ग: लताशब्दः।
  • इकारान्त: स्त्रीलिङ्ग: मतिशब्दः।
  • ऊकारान्त: स्त्रीलिङ्ग: वधूशब्दः।
  • ऋकारान्त: स्त्रीलिङ्ग: मातृशब्दः।
  • सप्तविभक्तयः।
  • प्रतिविभक्ति त्रीणि वचनानि।
  • एकवचन-द्विवचन-बहुवचनभेदात्।
  • प्रथमायाः सम्बोधनप्रथमा इति भेदः अस्ति।
  • सम्बोधनासूचकं पदं भवति हे इति।

वस्तुनिष्ठप्रश्नाः (Objective type questions)

१. लताशब्दस्य सप्तम्यैकवचनरूपं किम्?
२. लता, रमा, माता, दुर्गा – एषु व्यतिरिक्तं पदं किम्?
३. नद्या: – अस्य पदस्य अन्तलिङ्गविभक्तिवचनानि कानि?
४. माता इति शब्दस्य अन्तलिङ्गे के?
५. धेनुः इति शब्दस्य षष्ठीरूपाणि कानि?
६. नदीशब्दस्य सम्बोधनप्रथमारूपाणि कानि?
७. मतिशब्दस्य सप्तमी-एकवचनं किं भवति?
८. मातृशब्दस्य सप्तमी-एकवचनं किम्?

एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)

१. मतिशब्दस्य कुत्र कुत्र रूपद्वयं वर्तते?
२. धेनुशब्दस्य कुत्र कुत्र रूपद्वयं वर्तते?

विचिन्तनम्।

कस्यां विभक्तौ अन्तर्भवति इति पट्टिकारूपेण लिखत।
दशरथ: कश्चन भूपति:। रामलक्ष्मणभरतशत्रुघ्ना: पुत्रा:। अयोध्यायां वसन्ति। वसिष्ठस्य महर्षे: उपदेशेन रामं विश्वामित्रेण यागरक्षायै प्रेषितवान्। बालका: उद्याने क्रीडन्ति। बालिका: विद्यालयात् गृहम् आगच्छन्ति।
यथा –
प्रथमा      द्वितीया     तृतीया          चतुर्थी             पञ्चमी             षष्ठी         सप्तमी
दशरथ:    रामम्        उपदेशेन        यागरक्षायै          विद्यालयात्      वसिष्ठस्य    अयोध्यायाम्
इतराणि पदानि तत्तद्भागे लिखन्तु।
पदानां लिङ्गवचनान्यपि सूचनीयानि।

निर्दिष्टाभ्यासः (Assignments)

  1. सर्वाणि रूपाणि लिखन्तु।
    .स्वसृशब्द:। 
    २. रमाशब्द:।

    ३.वधूशब्द:।
  2. यथेच्छं पञ्च अकारान्तपुंलिङ्गरूपाणि लिखन्तु।

उत्तराणि (Answer to Objective type questions)

१. लतायाम्।
२. माता।
३. इकारान्त: स्त्रीलिङ्ग: षष्ठी एकवचनम्।
४. ऋकारान्तः स्त्रीलिङ्गः मातृ शब्दः।
५. धेन्वा:-धेनो: धेन्वो: धेनूनाम्
६. हे नदि हे नद्यौ हे नद्य:
७. मत्याम्-मतौ
८. मातरि।

अधिकवाचनाय ग्रन्थाः (suggested Readings)

१. रामचन्द्र झा, रूपचन्द्रिका, चौखम्बासंस्कृतसीरीस् ओफीस्, वाराणसि.2011।
२. भट्टोजिदीक्षित: वैयाकरणसिद्धान्तकौमुदी, बालमनोरमामुद्रणं, तृतीय: भाग:, चौखम्बा संस्कृतसीरीस्    ओफीस्, वाराणसि, 1969।
३. विद्यासागर् के.एल्.वी शास्त्री, शब्दमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्।