Unit-2
वदि (वन्द्) धातुः (आत्मनेपदी) – दशलकारेषु।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
भू धातोः दशलकाराणां रूपाणि पठितम्। तथा वदि (वन्द्) धातो: रूपाणि कानि? पश्याम:। वदि धातोः अर्थः- अभिवादने, स्तुतौ। |
मुख्यपदानि (Key terms)
वदि(वन्द्)धातुः, आत्मनेपदी, ववन्दे, वन्दिता, वन्दिष्यते, वन्दताम्, अवन्दत।
Discussion
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वन्दते वन्देते वन्दन्ते
मध्यमपुरुष: वन्दसे वन्देथे वन्दध्वे
उत्तमपुरुष: वन्दे वन्दावहे वन्दामहे।
स: गुरुं वन्दते तौ गुरुं वन्देते ते गुरुं वन्दन्ते
त्वं गुरुं वन्दसे युवां गुरुं वन्देथे यूयं गुरुं वन्दध्वे
अहं गुरुं वन्दे आवां गुरुं वन्दावहे वयं गुरुं वन्दामहे।
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ववन्दे ववन्दाते ववन्दिरे
मध्यमपुरुष: ववन्दिषे ववन्दाथे ववन्दिध्वे
उत्तमपुरुष: ववन्दे ववन्दिवहे ववन्दिमहे।
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वन्दिता वन्दितारौ वन्दितार:
मध्यमपुरुष: वन्दितासे वन्दितासाथे वन्दिताध्वे
उत्तमपुरुष: वन्दिताहे वन्दितास्वहे वन्दितास्महे।
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते
मध्यमपुरुष: वन्दिष्यसे वन्दिष्येथे वन्दिष्यध्वे
उत्तमपुरुष: वन्दिष्ये वन्दिष्यावहे वन्दिष्यामहे।
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वन्दताम् वन्देताम् वन्दन्ताम्
मध्यमपुरुष: वन्दस्व वन्देथाम् वन्दध्वम्
उत्तमपुरुष: वन्दै वन्दावहै वन्दामहै।
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवन्दत अवन्देताम् अवन्दन्त
मध्यमपुरुष: अवन्दथा: अवन्देथाम् अवन्दध्वम्
उत्तमपुरुष: अवन्दे अवन्दावहि अवन्दामहि
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वन्दिषीष्ट वन्दिषायास्ताम् वन्दिषीरन्
मध्यमपुरुष: वन्दिषीष्ठा: वन्दिषीयास्थाम् वन्दिषीध्वम्
उत्तमपुरुष: वन्दिषीय वन्दिषीवहि वन्दिषीमहि।
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वन्देत वन्देयाताम् वन्देरन्
मध्यमपुरुष: वन्देथा: वन्देयाथाम् वन्देध्वम्
उत्तमपुरुष: वन्देय वन्देवहि वन्देमहि।
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवन्दिष्ट अवन्दिषाताम् अवन्दिषत
मध्यमपुरुष: अवन्दिष्ठा: अवन्दिषाथाम् अवन्दिध्वम्
उत्तमपुरुष: अवन्दिषि अवन्दिष्वहि अवन्दिष्महि
वदिधातु: आत्मनेपदी लट्रूपाणि।
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवन्दिष्यत अवन्दिष्येताम् अवन्दिष्यन्त
मध्यमपुरुष: अवन्दिष्यथा: अवन्दिष्येथाम् अवन्दिष्यध्वम्
उत्तमपुरुष: अवन्दिष्ये अवन्दिष्यावहि अवन्दिष्यामहि।
अयि मित्राणि,
वन्द् धातो: (वदि) सर्वेषु लकारेषु वर्तमानानि रूपाणि वयमपठम्। इदानीं परिशीलनमेव कार्यम्। पुन:पुनरपि पठनेन, आवर्तनेन प्रयोगेण वा सर्वाण्यपि रूपाणि स्वायत्तीकर्तुं शक्यते। तदर्थं यत्नं कुरुत।
प्रत्येकं लकारस्य प्रथमपुरुषैकचनरूपपठनेन इतराणि रूपाणि स्मर्तुं शक्यते चेत् तानि रूपाणि सूचयामि।
पुनरावृत्तिः (Recap)
|
बहूनां आत्मनेपदधातूनां रूपाणि वन्द् धातोरिव। परस्मैपदधातूनां रूपाणि भूधातोरिव भवन्ति। अत: एतयो: धात्वो: पठनं पदस्वाधीनतासम्पादने नितरां प्रयोजनप्रदमेव।
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. अहं गुरुं …………………..। (वदि धातुमुपयुज्य पूरयत) २. वन्दिषीय इति रूपस्य धातुः कः? ३. कति परस्मैपदप्रत्ययाः सन्ति? ४. अस्मद् शब्दयोगे कः पुरुषः? ५. वन्द् धातुः आत्मनेपदी परस्मैपदी वा भवति? ६. वन्द् धातोः लृट्प्रथमपुरुषरूपाणि कानि? ७. वन्दते इति शब्दस्य लकारः कः? ८. वन्दितारौ इति शब्दस्य धातुपदलकारपुरुषवचनानि लिखत-? ९. वन्दिषीष्ट इति रूपस्य पुरुषवचने के? १॰. वन्दताम् इति रूपस्य बहुवचनम् किम्? |
विचिन्तनम्
यथोचितं योजयत। क ख १. अनद्यतनभूतकाल: लोट् २. सामान्यभूतकाल: बभूव ३. वेदे एव प्रयोग: लङ् ४. भू धातो: लिट्लकारेषु अन्यतम: आशिर्लिङ् ५. सामान्यभाविकाले लट् ६. भवानि लुङ् ७. आशिरर्थे लृट् ८. क्रियाया: अनिष्पत्तौ प्रयुज्यमान: लकार: लुट् ९. वन्दते लेट् १॰. वन्दितारौ लृङ् |
निर्दिष्टाभ्यासः (Assignment)
१. वन्द् धातोः आत्मनेपदि भूतकालरूपाणि लिखत। |
उत्तराणि (Answer to Objective type questions)
१. अहं गुरुं वन्दे। अवन्दे। वन्दिष्ये वा। २. वन्दिषीय इति रूपं वदि (वन्द्) धातो: भवति। ३. नव परस्मैपदप्रत्यया: सन्ति। ४. अस्मद् शब्दयोगे उत्तमपुरुष: प्रयोक्तव्य:। ५. वन्द् धातुः आत्मनेपदी भवति। ६. वन्दिष्यते वन्दिष्येते वन्दिष्यन्ते। ७. लट्। ८. वन्द् धातु आत्मनेपदि लुट्लकारः प्रथमपुरुष एकवचनम्। ९. प्रथमपुरुष-एकवचनम्। १॰.वन्दन्ताम्। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. रामचन्द्र झा,‘रूपचन्द्रिका’ चौखम्बा संस्कृतसीरीस् ओफीस्, वाराणसी, 2011। २. अप्पय्यदीक्षित:, सिद्धान्तकौमुदी बालमनोरमा तृतीय: भाग:, चौखम्बा,1969। ३. विद्यासागर् के.एल्.वी शास्त्री, धातुमञ्जरी, आर्. एस् वाद्यार् आण्ड् सन्स्,कल्पात्ति,पालक्काड्। |