Course Content
संस्कृताध्ययनविधि
0/30
Environmental Studies
English Language and Linguistics
National Movement 1
Private: BA Sanskrit
About Lesson

Unit-2

खण्डिका 6-10

उद्देश्यानि।(Learning Outcomes)

  • भाषापठने नितरां तात्पर्योत्पादनम्।
  • गद्यसाहित्यं प्रति परिचयप्रदानम्।
  • काव्यरसानुभूतिःअनुभूयते।

प्राग्व्यपेक्षाः (Prerequisites)

अयि सुहृद:,
प्रथमे एकके पठितं कार्यं युष्माभि: ज्ञातमिति विचारयामि। अनपत्यतया दूयमान: दशरथ: पुत्रकामेÏष्ट चकार। कालान्तरे तस्य चत्वार: पुत्राः अजायन्त। श्रीरामादीनां यौवनं, श्रीरामस्य साहाय्यं प्राप्तुं विश्वामित्रमहर्षे: आगमनादिकमधिकृत्य पठाम:।
महामुनि: यागरक्षार्थं श्रीरामस्य साहाय्यमन्विष्य राजधानीं प्राप किल, स: मुनि: दशरथं रामं ययाचे। श्रीरामगुणगुणैराकृष्ट: पुत्रवत्सल: महर्षये रामं दत्तवान् वा? पश्याम:। तदर्थं द्वितीयमेककं पठाम:।

मुख्यपदानि (Key terms) 

योत्स्यते, रामलक्ष्मणौ विश्वामित्रेण सह गच्छतः, बला- अतिबला- ताटका, नागसहस्रबला।

Discussion 

अयि भो: छात्रा:,
महामुनि: यागरक्षार्थं श्रीरामस्य साहाय्यमन्विष्य राजधानीं प्राप किल, स: मुनि: दशरथं रामं ययाचे। श्रीरामगुणगुणैराकृष्ट: पुत्रवत्सल: महर्षये रामं दत्तवान् वा? पश्याम:।
गद्यम् – ६
दशरथो विश्वामित्रस्य भाषितं श्रुत्वा मुहूर्तं निस्संज्ञो बभूव। तत: संज्ञां प्रतिपद्यैवमभाषत – ‘ऊनषोडषवर्ष: सुकुमाराङ्गो राम: कथं वा राक्षसैर्योत्स्यते। अहमेव धनुष्पाणिर्भवदीयं व्रतचर्यां गोप्तास्मि। यावत्प्राणान् धरिष्यामि, तावन्निशाचरैर्योत्स्ये च। तत्कृपया न रामं नेतुमर्हसि’इति।
व्याख्या
दशरथ इति – विश्वामित्रस्य भाषितं भाषणं श्रुत्वा आकण्र्य दशरथ: मुहूर्तम् अल्पसमयं निस्संज्ञ: बोधरहित: बभूव। तत: अनन्तरं संज्ञां बोधावस्थां प्रतिपद्य प्राप्य एवं वक्ष्यमाणप्रकारेण अभाषत अवदत्। प्रतिपद्य अ एवम् अअभाषत – प्रतिपद्यैवमभाषत। ऊनषोडशवर्ष: इत: परं षोडशवयमप्राप्तं सुकुमाङ्ग: कोमलाङ्ग: राम: कथं वा केन प्रकारेण राक्षसै: निशाचरै: योत्स्यते युद्धं करिष्यति? राक्षसै: अयोत्स्यते – राक्षसैर्योत्स्यते। अहमेव दशरथ एव धनुष्पाणि: धनुर्धारी भवदीयं भवत: इयं व्रतचर्यां यागकार्यं गोप्तास्मि संरक्षक: भवामि। गोप्तास्मि – गोप्ता अ अस्मि। अस्मि (अस भुवि पर-लट् – उपु – एव)। अस्मि – स्व: – स्म:। यावत् यावत्कालं प्राणान् असून् धरिष्यामि वर्ते तावत् तावत्कालं निशाचरै: राक्षसै: योत्स्ये युद्धं करिष्यामि च। धरिष्यामि (धृञ् धारणे-पर-लृट्-उपु-एव)। धरिष्यामि – धरिष्याव: – धरिष्याम:। तत्कृपया अत: कृपां भूत्वा रामं नेतुं आनयितुं न अर्हसि त्वं नार्ह: भवसि इति।
गद्यम् – ७
पुत्रविष्लेषकातरस्य दशरथस्य वचनं निशम्य विश्वामित्र: कुपितो बभाषे – ‘प्रथमं यं कमपि कामं करिष्यामीति प्रतिज्ञाय सम्प्रति प्रतिज्ञां हातुमिच्छसि। किमिदं साम्प्रतमिक्ष्वाकुवंशे जातस्य भवत:? यदीदं ते क्षमं तर्हि तथा कुरुष्व। अहं यथागतं गमिष्यामि। मिथ्याप्रतिज्ञस्त्वं चिराय सुखी भव’इति।
व्याख्या
पुत्रेति – पुत्रविश्लेषकातरस्य पुत्रस्य वियोगे दु:खितस्य दशरथस्य वचनं वाचं निशम्य आकण्र्य विश्वामित्र: कुपित: कोपाकुल: बभाषे अभाषत। प्रथमं प्रथमत: यं कमपि कामं यं कार्यं इच्छति तत्कार्यं करिष्यामीति, प्रतिज्ञाय प्रतिज्ञां कृत्वा, सम्प्रति इदानीं, प्रतिज्ञां प्रतिज्ञापरिपालनं, हातुं त्यक्तुं इच्छसि अभिलषसि किम्? कम् अअपि – कमपि। किमिदं किमेतद् साम्प्रतम् इदानीम् इक्ष्वाकुवंशे जातस्य संजातस्य भवत: दशरथस्य। यदीदं ते क्षमं इदं कार्यं तुभ्यं योग्यं तर्हि चेत् तथा कुरुष्व तथा कुरु। अहं (विश्वामित्र:) यथागतम् आगतमनतिक्रम्य (यत्रत: आगतं तत्र) गमिष्यामि व्रजिष्यामि। गमिष्यामि (गम्लृ गतौ-पर-लृट्-उपु-ए-व)। गमिष्यामि – गमिष्याव: – गमिष्याम:। मिथ्याप्रतिज्ञ: मिथ्यया प्रतिज्ञां कुर्वन् त्वं दशरथ: चिराय बहुकालं सुखी सुखत्वेन भव त्वं भव।
गद्यम् – ८
कुपिते कौशिके कृत्स्ना वसुधा भयेन चचाल। देवानामपि महद्भयं बभूव। इत्थं भूते व्यतिकरे भगवान् वसिष्ठो राजानमाबभाषे – ‘अहं वेद्मि महात्मनो रामस्यानुपमं पराक्रमम्। वृथा विशङ्कया इक्ष्वाकूणां कुले जातो धर्मात्मा च भवान्न धर्म हातुमर्हति। विश्वामित्रेण गुप्तस्य रामभद्रस्य कुतो भेतव्यम्’इति।
व्याख्या
कुपित इति – कुपिते कौशिके यदा कौशिक: विश्वामित्र: कुपितवान् तदा कृत्स्ना सम्पूर्णा वसुधा भूमि: भयेन भीत्या चचाल चलितवती। देवानां दैत्यानाम् अपि महद्भयं अतिभयं बभूव अभवत्। इत्थं भूते व्यतिकरे अनेन प्रकारेण सम्भवे भगवान् वसिष्ठ: वसिष्ठमुनि: राजानं दशरथम् आबभाषे बभाषे। भगवान् (त-पु-प्र-ए-व)। भगवान् – भगवन्तौ – भगवन्त:। महात्मनो रामस्य अनुपमम् अनितरसाधारणं पराक्रमम् अहं वेद्मि जानामि। महान् आत्मा यस्य स: महात्मा तस्य महात्मन:। इक्ष्वाकूणां कुले जातानां इक्ष्वाकुकुलजातानां धर्मात्मा धर्मिष्ट: भवान् वृथा मुधा विशङ्कया संशयेन धर्मं हातुं विनाशयितुं न अर्हति। इक्ष्वाको: गोत्रापत्यानि पुमांस: ऐक्ष्वाकव: तेषाम् इक्ष्वाकूणाम्। ऐक्ष्वाकस्य – ऐक्ष्वाकयो: – इक्ष्वाकूणाम्। विश्वामित्रेण कौशिकेन गुप्तस्य संरक्षितस्य रामभद्रस्य रामस्य कार्यं प्रति कुतो भेतव्यं भयकारणं किम् इति।

गद्यम् – ९
तथा वदति वसिष्टे नृपति: प्रहृष्टो राममाजुहाव। कृतस्वस्त्ययनं सलक्ष्मणं तं कौशिकाय प्रदाय गमनायानुमेने। प्रतिष्ठमाने च कौशिकानुयायिनि रामभद्रे महती पुष्पवृष्टिरासीत्। कौशिको राघवाभ्यां सहित: सरयूं तीत्र्वा दक्षिणां तीरमाससाद। ततो रामेति मधुरमामन्त्र्य मत्तो बलामतिबलां च विद्ये सानुजो गृहाणेति तमादिदेश। राम: प्रहृष्टो भावितात्मनो महर्षे: सकाशात्ते विद्ये सानुजो जगृहे। मध्येमार्गमविप्रहतं कमपि घोरं काननं दृष्ट्वा किन्विदं दारुणं वनम् इति राम: कौशिकं पप्रच्छ।
व्याख्या
तथेति – तथा वदति वसिष्ठे वसिष्ठ: यदा अवदत् तदा प्रहृष्टो सन्तुष्टो नृपति: राजा रामं श्रीरामम् आजुहाव आहूतवान्। तथा वदति वसिष्ठे – सति सप्तमीप्रयोग:। कृतस्वस्त्ययनं कृतं स्वस्त्ययनं यस्य तम्। सलक्ष्मणं लक्ष्मणेन सहितं तं रामं कौशिकाय विश्वामित्राय प्रदाय दत्वा गमनाय गन्तुम् अनुमेने अनुमतिमदात्। कौशिकानुयायिनि विश्वामित्रम् अनुगन्तुम् उत्सुके रामभद्रे रामे प्रतिष्ठमाने (सति) यदा कौशिकेन सह राम: गन्तुं प्रस्थितवान् तदा महती पुष्पवृष्टि: कुसुमानि वृष्टिरिव आसीत् अभूत् । कौशिकानुयायिनि कौशिकानुयायी तस्मिन्। कौशिक: विश्वामित्र: राघवाभ्यां रामलक्ष्मणाभ्यां सहित: सह सरयूं सरयूनदीं तीत्र्वा तरणं कृत्वा दक्षिणं तीरं आससाद प्राप। तत: रामेति मधुरमामन्त्र्य मन्त्रणं कृत्वा मत्त: मत्सकाशात् (विश्वामित्रसकाशात्) ‘बला-अतिबला’ नामिके विद्ये सानुज: लक्ष्मणसहित: राम: गृृहाण स्वीकुरु, इति तमादिदेश तं राममुपदिष्टवान्। राम अइति – रामेति। सानुज: – अनुजेन सहित:। प्रहृष्ट: सन्तुष्ट: राम: भावितात्मन: भाविकालनिर्णेतु: (त्रिकालज्ञस्य) मुने: वसिष्ठस्य सकाशात् समीपात् ते विद्ये ते बलातिबले जगृहे स्वीचकार। मध्येमार्गं मार्गमध्ये अविप्रहतं विनाशयितुमसाध्यं किमपि किञ्चन घोरं भयानकं काननं वनं दष्ट्वा पश्यन् किं नु इदं दारुणं वनम् किमिदं भयानकं काननम्, इति राम: श्रीराम: कौशिकं विश्वामित्रं प्रपृच्छ अपृच्छत्। किम् अअपि – किमपि।
गद्यम् – १॰
महातेजा विश्वामित्रस्तमुवाच-
‘वत्स श्रूयतामस्य दारुणस्य वनस्य वृत्तान्त:। पुरा किलात्र मदलकुरूषाभिधानं स्फीतं जनपदद्वयमवर्तत।सुन्दस्य भार्या मारीचस्य रक्षसो जननी ताटका नागसहस्रबला तदीदं विनाश्य काननतां निनाय। सेयं पथिकानां प्राणहारिणी इतोऽध्यर्थयोजने वसति। तामेनां निहत्य देशमिमं निष्कण्डकं कर्तुमर्हसि’इति।
व्याख्या
महातेजेति– महातेजा: तेजस्वी विश्वामित्र: महर्षि: तं श्रीरामम् उवाच अवदत्। उवाच (ब्रूञ् व्यक्तायां वाचि-पर-लिट्-प्रपु-एव) उवाच – ऊचतु: – ऊचु:। वत्स पुत्र, अस्य दारुणस्य भयानकस्य वनस्य अरण्यस्य वृत्तान्त: चरित: श्रूयताम् आकर्णय। श्रूयताम् (श्रु श्रवणे-आत्म-लोट्-प्रपु-ए-व) दारुणस्य (अ-नपुं-ष-एव)। पुरा पूर्वं मदल-कुरुषाभिधानं मदलमिति कुरुषमिति नामयुक्तं स्फीतं समृद्धं जनपदद्वयं देशद्वयम् अत्र अस्मिन् स्थले अवर्तत आसीत् किल खलु। सुन्दस्य भार्या पत्नी मारीचस्य रक्षसो जननी माता ताटका ताटकानामधेया नागसहस्रबला सहस्रनागानां बलयुक्ता तदिदं इदं वनं विनाश्य नाशयित्वा, काननताम् अरण्यावस्थां निनाय अनयत्। सेयम् इयं ताटका पथिकानां यात्रिकाणां प्राणहारिणी प्राणापहरणशीला इत: अस्मत्स्थलात् अध्यर्धयोजने मा किं अर्धाधिकयोजने दूरे वसति वासं करोति। प्राणहारिणी -प्राणान् हर्तुं शीलं यस्या: सा। तामेनां तांताटकां निहत्य हत्वा निष्कण्डकम् उपद्रवरहितं कर्तुमर्हसि इति। त्वं तस्या: प्राणान् अपहरइत्याशय:।

पुनरावृत्तिः (Recap)

  • ‘यागरक्षायै श्रीरामं मया सह प्रेषयतु’इति विश्वामित्रवचनं श्रुत्वा दशरथ: मोहालस्यं प्राप।
  • अहमेव गत्वा राक्षसान् हनिष्यामि’इति मोहालस्यात् विमुक्त: दशरथ: विश्वामित्रं याचितवान्।
  • ‘प्रथमं यं कमपि कामं करिष्यामि इति प्रतिज्ञाय पुन: प्रतिज्ञालङ्घनम् इक्ष्वाकुवंशजातस्य तवोचितं वा’इति विश्वामित्र: दशरथमभाषत।
  • विश्वमित्रस्य कोपेन वसुधापि भयेन चचाल।
  • वसिष्ठमुनि: तदा दशरथमभाषत – ‘श्रीरामवैभवमहं जानामि। विश्वामित्रमुने: संरक्षणे वर्तमानस्य रामस्य न कापि हानि: सम्भविष्यति। अपि च भवत: प्रतिज्ञालङ्घनं न सम्भवति’।
  • सन्तुष्ट: राजा सलक्ष्मणं रामं विश्वामित्रेण सह गमनाय अनुमेने।
  • तेषां गमनवेलायाम् आकाशात् पुष्पवृष्टिरजायत।
  • मार्गमध्ये विश्वामित्र: बला -अतिबला नामिके विद्ये सानुजं राममुपदिदेश।
  • सरयूनदीं तीत्र्वा दक्षिणां तीरं प्रापु:।
  • अतिघोरं काननं दृष्ट्वा ‘किं नु इदं दारुणं वनम्’इति श्रीराम: महर्षिमपृच्छत्।
  • तेजस्वी विश्वामित्र: ताटकावृत्तान्तं रामलक्ष्मणौ अकथयत्।
  • मलद-कुरुषाभिधाने जनपदे नागसहस्रबला ताटका नाशितवती।
  • पथिकानां प्राणनाशने तत्परां तां त्वं जहि।

वस्तुनिष्ठप्रश्नाः (Objective type questions)

१. विश्वामित्र: दशरथं रामं ययाचे। तदा किं सम्भूतम्?
२. ‘अहमेव धनुष्पाणि: भवदीयं व्रतचर्यां गोप्तास्मि’- क:?
३. ‘अस्मि’- क: लकार:?
४. का नाम ताटका?
५. ‘महातेजा:’इत्यस्य समानार्थकं पदं किम्?
६. ‘श्रूयताम्’ – क: लकार:?

एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)

१. ‘यदीदं ते क्षमं तर्हि तथा कुरुष्व’ – कस्येदं वचनम्? कं प्रति?
२. देवानामपि महद्भयं बभूव – कदा?
३. वसिष्ठमुनि: दशरथं किमुवाच?
४. रामलक्ष्मणौ घोरमेकं वनं ददर्शतु: – कुत्र?
५. ‘तथा वदति वसिष्ठे’ – कीदृशोऽयं प्रयोग:?
६. विश्वामित्रेण सह यागरक्षार्थं रामलक्ष्मणयो: गमनवेलायां किं सम्भूतम्?
७. रामलक्ष्मणौ प्राप्तयो: विद्ययो: नामनी के?
८. श्रीरामं विश्वामित्रेण प्रेषयितुं दशरथ: प्रथमं विमुख: आसीत्। अस्य कारणं किम्?
९. दशरथस्य वचनं निशम्य विश्वामित्र: कुपितो बभाषे – विश्वामित्रस्य कोपस्य कारणं किम्?

आशयं विशदयत। (Answer the following questions in a paragraph)

१. मिथ्याप्रतिज्ञस्त्वं चिराय सुखी भव।
२. किमिदं साम्प्रतमिक्ष्वाकुवंशे जातस्य भवत:।

निर्दिष्टाभ्यासः (Assignments)

१.रामलक्ष्मणौ विश्वामित्रेण सह यागरक्षायै अगच्छताम्। तत्कार्यं संक्षिप्य लिखत।
२. बालरामायणे वर्तमानं द्वितीयं काण्डं वाचयतु।

निर्देशानुसारम् उत्तरं लिखत।

  1. अर्थं लिखत।
    १.इक्ष्वाकूणाम्।
    २.प्राणान्।
    ३.प्रतिज्ञाय।
    ४.गमिष्यामि।
    ५.स्फीतम्।
  2. विग्रहं लिखत।
    १. सलक्ष्मणम्।
    २. धनुष्पाणि:।
    ३. पुत्रविश्लेषकातरस्य।
  3.  सन्धत्त
    १. किम् + नु + इदम्।
    २. प्रतिपद्य + एवम् +अभाषत।
  4. कस्मिन् विभागे अन्तर्भवति?
    १.श्रुत्वा।

    २. नेतुम्।
    ३. प्रतिपद्य।
    ४. आनयितुम्।
    ५. हातुम्।

उत्तराणि (Answer to Objective type questions)

१. दशरथ: मोहालस्यं प्राप।
२. दशरथ:
३. लट्,
४. सुन्दस्य भार्या।
५. तेजस्वी।
६. लोट्।

अधिकवाचनाय ग्रन्थाः (suggested Readings)

१. पी.एस्. अनन्तनारायणशास्त्री, बालरामायणम्, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्. एस्. वाध्यार्     आन्ट् सन्स्, कल्पात्ति।
२. पि.एस्. अनन्तनारायणशास्त्रि, बालरामायणम्, व्यख्या पि.जि.अजित् प्रसाद्, अनामिका                     पब्लिक्केषन्स्, एलुकोण्, 2008.
३. डा. पूवट्टूर् रामतृष्णपिल्ल, केरलसंस्कृतविज्ञाननिघण्डु, केरलभाषा इन्स्टिट्यूट्, अनन्तपुरी, 2096      पुटं 30-31