Unit-2
51-58 श्लोकाः
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षा (Prerequisites)
कालिदासस्य रघुवंशे द्वितीये सर्गे राज्ञः दिलीपस्य नन्दीनीपरिपालनं वर्णयति। राज्ञा दिलीपेन पालितां धेनुः कश्चन सिंहः आक्रमितवान्। राजा दिलीपः धेनुं सिंहात् रक्षितुं स्वशरीरं दातुं सन्नद्धः भवति। तदनन्तरं किं संभूतमिति अस्मिन् पाठभागे पश्यामः। |
मुख्यपदानि (Key terms)
मृृगेन्द्रे, उच्चैः, धेन्वा, वाचं, क्षतात्,विपरीतबुद्धेः, सुरभेः।
Discussion
५१. सिंह: स्ववचोभ्य: विरराम।
एतावदुक्त्वा विरते मृृगेन्द्रे
प्रतिस्वनेनास्य गुहागतेन।
शिलोच्चयोऽपि क्षितिपालमुच्चै:
प्रीत्या तमेवार्थमभाषतेव।।५१।।
पदच्छेद: – एतावदुक्त्वा – एतावत् + उक्त्वा
तमेवार्थमभाषतेव – तम् + एव + अर्थम् + अभाषत +इव।
अन्वय: अन्वयार्थ:
मृगेन्द्रे – सिंहे
एतावत् – एतत्पर्यन्तं
उक्त्वा – कथयित्वा
विरते (सति) – विरामं गते सति
गुहागतेन – गुहापूरितेन
अस्य प्रतिस्वनेन – सिंहशब्दस्य प्रतिशब्देन
शिलोच्चय: अपि – पर्वत: अपि
तमेवार्थं – मृगराजेन यदुक्तं तद्
प्रीत्या – सन्तोषेण
क्षितिपालं – दिलीपं
उच्चै: – उच्चस्तरं
अभाषत इव – अवदत् इव (प्रतिभाति)।
सार: – एतत्पर्यन्तम् उक्त्वा मृगेन्द्रे विरते सति दरीगतेन प्रतिशब्देन पर्वतोऽपि अतिप्रीत्या राजानं तदेव उच्चैस्तरं
अवदत् इव प्रतिभाति।
अलङ्कार: – उत्प्रेक्षा। (सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना)
विग्रह: – मृगेन्द्र: – मृगाणाम् इन्द्र: मृगेन्द्र:।
क्षितिपाल: – क्षिते: पाल: क्षितिपाल:।
क्रिया – अभाषत – भाष व्यक्तायां- वाचि -आत्म-लङ्-प्र-पु-एव।
अभाषत – अभाषेतां – अभाषन्त।
प्रयोगविशेष: – विरते मृगेन्द्रे – सति सप्तमीप्रयोग:।
५२. राजा पुनरपि उवाच।
निशम्य देवानुचरस्य वाचं
मनुष्यदेव: पुनरप्युवाच।
धेन्वा तदध्यासितकातराक्ष्या
निरीक्ष्यमाण: सुतरां दयालु:।।५२।।
पदच्छेद: – पुनरप्युवाच – पुन: + अपि + उवाच।
तदध्यासितकातराक्ष्या – तत्+ अध्यासितकातराक्ष्या।
अन्वय: अन्वयार्थ:
देवानुचरस्य – देवस्य (शिवस्य) अनुयायिन: (सिंहस्य)
वाचं निशम्य – वाणीम् आकण्र्य
मनुष्यदेव: – राजा दिलीप:
तदध्यासितकातराक्ष्या धेन्वा – सिंहाक्रमणेन भयचकितया धेन्वा
निरीक्ष्यमाण: – वीक्ष्यमाण:
सुतरां दयालु: – अत्यधिकं कृपालु: सन्
पुन: अपि उवाच – भूयोऽपि अवदत्
सार: – सिंहाक्रमणेन भयचकिताया: धेन्वा: अवलोकनेन राजा नितरां दयालु: अभवत्। देवानुचरस्य सिंहस्य
वाणीम् आकण्र्य मनुष्यदेव: स: भूयोऽपि अवदत्।
विग्रह: – मनुष्यदेव: – मनुष्याणां देव: मनुष्यदेव:।
कातराक्ष्या – कातरे अक्षिणी यस्या: सा कातराक्षी, तया।
क्रिया – उवाच – ब्रूञ् व्यक्तायां वाचि पर-लिट्-प्र-पु-ए-व।
उवाच – ऊचतु: – ऊचु:।
५३. क्षतात् त्राणमेव क्षत्रियस्य मुख्य: धर्म:।
क्षतात्किल त्रायत इत्युदग्र:
क्षत्रस्य शब्दो भुवनेषु रूढ:।
राज्येन किं तद्विपरीतवृत्ते:
प्राणैरुपक्रोशमलीमसैर्वा।।५३।।
पदच्छेद: – त्रायत इति – त्रायते +इति।
इत्युदग्र: – इति +उदग्र:।
प्राणैरुपक्रोशमलीमसैर्वा – प्राणै: अ उपक्रोशमलीमसै: अ वा।
अन्वय: अन्वयार्थ:
क्षतात् – आपद:
त्रायते इति – रक्ष्यते इति
उदग्र: क्षत्रस्य शब्द: – श्रेष्ठ: क्षत्रियशब्द: इति
भुवनेषु रूढ: किल – त्रिषु लोकेषु प्रसिद्ध: खलु
तत् विपरीतवृत्ते: – तस्य प्रतिलोमेन आचरत:
राज्येन किं – राज्येन किं प्रयोजनम्?
उपक्रोशमलीमसै: प्राणै: वा – निन्दया मलीमसेन प्राणधारणेन वा किम्?
सार: – क्षतात् त्रायते इति क्षत्रिय: इति श्रेष्ठ: शब्द: लोकेषु सर्वत्र प्रसिद्ध: खलु। एवं स्थिते तद्विपरीतेन आचरितस्य पुरुषस्य राज्येन, उपक्रोशमलीमसेन जीवितेन वा किं प्रयोजनम्? (न किमपि प्रयोजनम् इत्यर्थ:)
विग्रह: – उपक्रोशमलीमसेन – उपक्रोशेन (निन्दया) मलीमस: उपक्रोशमलीमस:, तेन।
५४. अन्यगवां प्रदानेन महर्षिम् अनुनेतुं न शक्यते।
कथं नु शक्योऽनुनयो महर्षे-
र्विश्राणनादन्यपयस्विनीनाम्।
इमामनूनां सुरभेरवेहि
रुद्रौजसा तु प्रहृतं त्वयास्याम्।।५४।।
पदच्छेद: – शक्योऽनुनय: – शक्य: + अनुनय:।
विश्राणनाच्चान्यपयस्विनीनाम् – विश्राणनात् + च +अन्यपयस्विनानाम्।
सुरभेरवेहि – सुरभे: + अवेहि।
त्वयास्याम् – त्वया + अस्याम्।
अन्वय: अन्वयार्थ:
अन्यपयस्विनीनां – अन्यधेनूनां
विश्राणनात् – दानात्
महर्षे: – वसिष्ठस्य
अनुनय: – सान्त्वनं
कथं नु शक्य: – अशक्य: एव
इमां – नन्दिनीं
सुरभे: – कामधेनो:
अनूनाम् अवेहि – अन्यूनाम् जानीहि
अस्यां – अस्यां गवि
त्वया प्रहृतं तु – त्वया कृतम् अपहरणं तावत्
रुद्रौजसा – रुद्रस्य शिवस्य शक्त्या एव।
सार: – अन्यधेनूनाम् प्रदानेन महर्षे: सान्त्वनं साध्यं न। इयं धेनु: कामधेनो: अनन्या एव। केवलं शिवशक्त्या
एव इमां प्रहृतवान् अस्ति।
विग्रह: – पयस्विनी – प्रशस्तं पय: यस्या: सा पयस्विनी।
क्रिया – अवेहि – अव आ इत्युपसर्ग-द्वयपूर्वकइण् गतौ पर-लोट्-म-पु-एव।
अवेहि -अवेतम् – अवेत।
५५. राजा स्वदेहार्पणेन धेन्वा: मोचनम् इच्छति।
सेयं स्वदेहार्पणनिष्क्रयेण
न्याय्या मया मोचयितुं भवत्त:।
न पारणा स्याद्विहता तवैवं
भवेदलुप्तश्च मुने: क्रियार्थ:।।५५।।
पदच्छेद: – सेयम् – सा +इयम्।
स्याद्विहता- स्यात् + विहता।
तवैवम् – तव + एवम्।
भवेदलुप्तश्च – भवेत्+ अलुप्त: + च।
अन्वय: अन्वयार्थ:
सा इयं – इयं नन्दिनी
मया – राज्ञा
स्वदेहार्पणनिष्क्रयेण – स्वदेहसमर्पणविनिमयेन
भवत्त: – त्वत्त:
मोचयितुं – विमोचयितुं
न्याय्या – न्यायादनपेता
तव – सिंहस्य
पारणा – व्रतावसानभोजनं
विहता न स्यात् – विनष्टा न भवेत्
मुने: – वसिष्ठस्य
क्रियार्थ: च – क्रियाया: साधनं (धेनु:)
अलुप्त: भवेत् – अन्यूनं न भवेत्।
सार: – मम शरीरप्रदानेन त्वत्त: इमां धेनुं मोचयितुम् इच्छामि। एवं चेत् तव पारणाया: हानि: न भवति, महर्षे:
क्रियाया: हेतो: धेनो: लोभश्च न स्यात्।
विग्रह: – न्याय्या – न्यायात् अनपेता।
क्रिया – भवेत् – भू सत्तायाम् पर-विधिलिङ्-प्र-पु-ए-व।
भवेत् – भवेतां – भवेयु:।
५६. गो: रक्षाम् अकृत्वा स्वामिन: पुरत: स्थातुं न शक्यते।
भवानपीदं परवानवैति
महान् हि यत्नस्तव देवदारौ।
स्थातुं नियोक्तुर्नहि शक्यमग्रे
विनाश्य रक्ष्यं स्वयमक्षतेन।।५६।।
पदच्छेद: – भवानपीदं – भवान् + अपि +इदम्।
यत्नस्तव – यत्न: + तव।
नियोक्तुर्न – नियोक्तु: +न।
अन्वय: अन्वयार्थ:
परवान् भवान् अपि – यजमानेन नियुक्त: भवान् अपि
इदम् अवैति – एतत् जानातु
हि तव – कुत: इति चेत् भवत:
देवदारौ – देवदारुसंरक्षणे
महान् यत्न: – अधिक: यत्न:
रक्ष्यं – रक्षणीयं वस्तु
विनाश्य – नाशयित्वा
अक्षतेन – विना क्षतं
स्वयं नियोक्तु: – स्वयं यजमानस्य
अग्रे – पुरत:
स्थातुं शक्यं नहि – उपैतुम् अशक्यं खलु।
सार: – त्वं देवदारो: रक्षणाय नियुक्त: असि। त्वया अस्मिन् कर्मणि महान् क्लेश: अनुभूयते किल। एवं
स्थिते रक्ष्यं वस्तु अरक्ष्य अक्षतेन यजमानस्य पुर: स्थातुं कथं शक्यते? विना नन्दिनीम् ऋषिम् उपैतुम्
अशक्त: इति भाव:।
विग्रह: – रक्ष्य: – रक्षितुं योग्य:।
५७. महतां देहापेक्षया यश: वरीय:।
किमप्यहिंस्यस्तव चेन्मतोऽहं
यश: शरीरे भव मे दयालु:।
एकान्तविध्वंसिषु मद्विधानां
पिण्डेष्वनास्था खलु भौतिकेषु।।५७।।
पदच्छेद: – किमप्यहिंस्यस्तव – किम् + अपि + अहिंस्य: + तव।
चेन्मतोऽहम् – चेत् + मत: + अहम्।
पिण्डेष्वनास्था – पिण्डेषु + अनास्था।
अन्वय: अन्वयार्थ:
किमप्यहं – येन केनापि कारणेन अहं (दिलीप:)
तव – सिंहस्य
अहिंस्य: मत: इति चेत् – हिंसानर्ह: इति चिन्ता चेत्
मे यश: शरीरे – मम यश एव शरीरे
दयालु: भव – करुणावान् भव
मद्विधानां – मादृशानां
एकान्तविध्वंसिषु – अत्यन्तनश्वरेषु
भौतिकेषु पिण्डेषु – पञ्चभूतनिर्मितेषु शरीरेषु
अनास्था खलु – आसक्ति: न अस्त्येव।
सार: – अहम् अवध्य: इति भवान् चिन्तयति तर्हि मम यश: एव शरीरे दयालु: भव। कुत: इति चेत् मादृशानां
पञ्चभूतनिर्मितेषु शरीरेषु आसक्ति: नास्ति एव।
विग्रह: – अहिंस्य: – हन्तुं योग्य: हिंस्य:, न हिंस्य:।
दयालु: – दया अस्य अस्ति इति दयालु:।
५८. सम्भाषणेन सौहृदं जायते।
सम्बन्धमाभाषणपूर्वमाहु-
र्वृत्त: स नौ संगतयोर्वनान्ते।
तद्भूतनाथानुग नार्हसि त्वं
सम्बन्धिनो मे प्रणयं विहन्तुम्।।५८।।
पदच्छेद: – संगतयोर्वनान्ते – संगतयो: + वनान्ते।
तद्भूतनाथानुग – तत् + भूतनाथानुग।
नार्हसि – न + अर्हसि ।
सम्बन्धिनो मे – सम्बन्धिनःअ मे
अन्वय: अन्वयार्थ:
सम्बन्धं – सौहृदं
आभाषणपूर्वम् (इति) आहु: – सम्भाषणहेतुकम् इति विद्वांसःवदन्ति
वनान्ते संगतयो: – वने मिलितयो: आवयो:
स: नौ वृत्त: – सम्बन्ध: जात:
तत् – तस्मात्
हे भूतनाथानुग! – हे शिवकिङ्कर!
त्वं संबन्धिन: मे – सुहृद्भूतस्य मे
(त्वं मम सुहृत् संजात: असि)
प्रणयं विहन्तुं नार्हसि – मम प्रार्थनां त्यक्तुं नार्हसि।
सार: – मिथ: सम्भाषणेन सौहृदं संजायते इति अभिज्ञा: वदन्ति। तादृश: सम्बन्ध: अत्र संजात:। तस्मात् मम
प्रार्थनां स्वीकुरु।
क्रिया – आहु: – ब्रूञ् व्यक्तायां वाचि धातो: पर-लट्-प्रपु-बव।
ब्रवीति /आह – ब्रूत: /आहतु: – ब्रुवन्ति/आहु:।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१.तमेवार्थम् अभाषत – क:? २. निरीक्ष्यमाण: सुतरां दयालु: – काम् निरीक्ष्यमाण:? ३. विनाश्य रक्ष्यं स्वयमक्षतेन – किं रक्ष्यम्? ४. केन सौहृदं सञ्जायते ५. क्षतात् त्रायते इति ——। रिक्तस्थानं पूरयत। |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. प्राणैरुपक्रोशमलीमसै: वा – कुत: एवम् अवदत्? २. रुद्रौजसा तु प्रहृतं त्वायास्याम् – केन ? कस्याम्? ३. स्थातुं नियोक्तुः न हि शक्यमग्रे – कुत:? |
निर्देशानुसारम् उत्तरयत
|
एकैकया खण्डिकयाउत्तराणि लिखत।(Answer the following question in a paragraph)
१. सम्बन्धिनो मे प्रणयं विहन्तुं नार्हसि – कुत:? |
निर्दिष्टाभ्यासः (Assignments)
१. अस्मिन् एकके आगतानि विग्रहवाक्यानि लिखत। २. कालिदासस्य रघुवंशमहाकाव्ये चतुर्थसर्गे वर्तमानानां प्रथमानां दशश्लोकानां आशयं लिखन्तु । |
उत्तराणि (Answer to Objective type questions)
१. शिलोच्चय:। २. नन्दिनीम्। ३. नन्दिनी। ४. सम्भाषणेन। ५. क्षत्रियः। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. कालिदास:, रघुवंशमहाकाव्यम्, सर्ग: द्वितीय:, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्, कल्पात्ति, पालक्काट्,2013। २. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस। |