Unit-2
11-20 श्लोकाः
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
महाकवेः कालिदासस्य रघुवंशे द्वितीयसर्गे राजा दिलीप: कुलगुरो: वसिष्ठस्य आश्रमम् उपेत्य कामधेनुसुतां नन्दिनीं परिसेवितुम् आरब्धवान्। यदा नन्दिनी निद्रां प्राप तदा कुशम् आस्तीर्य तस्या सकाशं शेतवान् आसीत्। अतिप्रभाते महर्षिशिष्याणां मन्त्रोच्चारणध्वनिमाकण्र्य सुप्तोत्थित: महाराज: भूयोऽपि तस्या: परिचरणे श्रद्धावान् आसीत्। तादृशं राजानं अत्र कविः वर्णयति। |
मुख्यपदानि (Key terms)
धनुर्भृत:, मारुतपूर्णरन्ध्रै:,पृक्त:,दवाग्नि:, पल्लवरागताम्रा,अन्वग्ययौ,गृष्टि:।
Discussion
११. हरिण्य: विश्वस्ताः राजानमवलोकयन्त्य: तस्थु:।
धनुर्भृतोऽप्यस्य दयाद्र्रभाव-
माख्यातमन्त:करणैर्विशङ्कै:।
विलोकयन्त्यो वपुरापुरक्ष्णां
प्रकामविस्तारफलं हरिण्य:।।११।।
पदच्छेद: – धनुर्भृतोऽप्यस्य – धनुर्भृत: +अपि +अस्य।
वपुरापुरक्ष्णां – वपु: +आपु: +अक्ष्णाम्।
अन्वय: अन्वयार्थ:
धनुर्भृत: अपि – चापधारिण: अपि
अस्य – दिलीपस्य
विशङ्कै: – संशयविहीनै:
अन्त:करणै: – मनोभि:
दयाद्र्रभावं – करुणाद्र्रभावं
आख्यातं – प्रकटितं
वपु: – शरीरं
विलोकयन्त्य: – दर्शयन्त्य:
हरिण्य: – मृग्य:
अक्ष्णां – नेत्राणां
प्रकामविस्तारफलं – अत्यन्तविशालफलं
आपु: – प्रापु:।
सार: – धनुर्धरस्यापि दिलीपस्य शङ्काविहीनै: मनोभि: प्रकटितं करुणाद्र्रभावं विलोकयन्त्य: मृग्य: नयनानां
सायूज्यम् प्राप्तवन्त: अभूवन्।
विग्रह: – धनुर्भृत: – धनु: विभर्ति इति धनुर्भृत्, तस्य।
दयाद्र्रभावम् – दयया आद्र्र: भाव: यस्य तत्।
विशङ्कै: – विगता शङ्का येषां ते विशङ्का:, तै:।
क्रिया – आपु: – आप्लृ गतौ धातु परस्मैपदी-लिट्-प्रथमपुरुष:-एकवचनम्।
आप – आपतु: – आपु:।
१२. वनदेवताभि: गीयमानमात्मनो यश: श्रृण्वन्नगच्छत्।
स कीचकैर्मारुतपूर्णरन्ध्रै:
कूजद्भिरापादितवंशकृत्यम्।
शुश्राव कुञ्जेषु यश: स्वमुच्चै-
रुद्गीयमानं वनदेवताभि:।।१२।।
पदच्छेद: – कीचकैर्मारुतपूर्णरन्ध्रै: – कीचकै: +मारुतपूर्णरन्ध्रै:।
अन्वय: अन्वयार्थ:
स: – स राजा
मारुतपूर्णरन्ध्रै: – वायुना पूरितद्वारै:
कूजद्भि: – कूजनं कुर्वद्भि:
कीचकै: – वेणुभि:
आपादितवंशकृत्यं – सम्पादितवंशानुचरितम्
कुञ्जेषु – लतानिकुञ्जेषु
वनदेवताभि: – अरण्यदेवताभि:
उच्चै: – उच्चम्
उद्गीयमानं – स्तूयमानं
स्वं यश: – स्वस्य कीर्तिं
शुश्राव – श्रुतवान्।
सार: – वने विचरन् स राजा वायुना पूरितरन्ध्रद्वारा कूजद्भि: वेणुभि: सम्पादितवंशकृत्ये लतानिकुञ्जेषु
आसीनाभि: वनदेवताभि: उच्चै: गीयमानं स्वं यश: श्रुतवान्। (वायु: वेणुनादम् उत्पादयति, वनदेवता:
दिलीपकीर्तिं गायन्ति)
विग्रह: – मारुतपूर्णरन्ध्रै: – मारुतेन पूर्णानि रन्ध्राणि मारुतपूर्णरन्ध्राणि, तै:।
१३. पवन: क्लान्तं राजानं सिषेवे।
पृक्तस्तुषारैर्गिरिनिर्झराणा-
मनोकहाकम्पितपुष्पगन्धी।
तमातपक्लान्तमनातपत्र-
माचारपूतं पवन: सिषेवे।।१३।।
पदच्छेद: – पृक्तस्तुषारैर्गिरिनिर्झराणां – पृक्त: +तुषारै: +गिरिनिर्झराणाम्।
तमातपक्लान्तमनातपत्रं – तम् + आतपक्लान्तम् +अनातपत्रम्।
अन्वय: अन्वयार्थ:
गिरिनिर्झराणां – पर्वतवारिप्रवाहाणां
तुषारै: – शीकरै:
पृक्त: – संपृक्त:
अनोकहाकम्पितपुष्पगन्धी – वृक्षाणां चलनेन जातकुसुमगन्धो
पवन: – वायु:
अनातपत्रं – आतपत्ररहितं
आतपक्लान्तं – आतपेन क्षीणितं
आचारपूतं – आचारेण पवित्रं
तं – दिलीपं
सिषेवे – सेवितवान्।
सार: – गिरिनिर्झरप्रवाहशीकरै: वृक्षाणां कम्पनेन जातकुसुमगन्धेन वायु: आतपत्ररहितं आतपेन क्लान्तं
आचारेण पवित्रं च राजानं सेवितवान्।
विग्रह: – गिरिनिर्झराणां – गिरिषु निर्झरा: गिरिनिर्झरा:, तेषाम्।
अनोहाकम्पितपुष्पगन्धी – अनोकहानां आकम्पितानि पुष्पाणि अनोकहाकम्पितपुष्पाणि। तेषां गन्ध: अस्य अस्तीति।
आचारपूतं – आचारेण पूतम्।
अनातपत्रम् – न विद्यते आतपत्रं यस्य सः, तम्।
क्रिया – सिषेवे – षिव् सेवने आत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
सिषेवे – सिषेवाते – सिषेविरे।
१४. गोप्तरि वनं प्रविश्यमाने सर्वं शान्तमभवत्।
शशाम वृष्ट्यापि विना दवाग्नि-
रासीद्विशेषा फलपुष्पवृद्धि:।
ऊनं न सत्वेष्वधिको बबाधे
तस्मिन्वनं गोप्तरि गाहमाने।।१४।।
पदच्छेद: – वृष्ट्यापि – वृष्ट्या +अपि।
दवाग्निरासीद्विशेषा – दवाग्नि: +आसीत् +विशेषा।
सत्वेष्वधिक: – सत्वेषु +अधिक:।
अन्वय: अन्वयार्थ:
गोप्तरि – राज्ञि तस्मिन्
वनं गाहमाने – वनं प्रविशति सति
वृष्ट्या विनापि – वृष्टिराहित्येऽपि
दवाग्नि: – वनाग्नि:
शशाम – शमितवान्।
फलपुष्पवृद्धि: – फलपुष्पाणाम् अभिवृद्धि:
विशेषा आसीत् – अतिशायिता अभवत्।
सत्वेषु अधिक: – जन्तुषु मध्ये प्रबल:
ऊनं – दुर्बलं
न बबाधे – न अपीडयत्।
सार: – यदा राजा वनं प्राविशत्, तदा वृष्ट्या विना वनाग्नि: शशाम। फलपुष्पाणां अभिवृद्धि: अतिशायित: आसीत्। व्याघ्रादय: प्रबला: जन्तव: दुर्बलान् हरिणादीन् नापीडयन्।
विग्रह: – फलपुष्पवृद्धि: – फलानां पुष्पाणां च वृद्धि:।
क्रिया – शशाम – शम शमने धातु परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
शशाम – शेमतु: – शेमु:।
१५. दिनान्ते धेनुः निलयाय गन्तुं प्रचक्रमे।
सञ्चारपूतानि दिगन्तराणि
कृत्वा दिनान्ते निलयाय गन्तुम्।
प्रचक्रमे पल्लवरागताम्रा
प्रभा पतङ्गस्य मुनेश्च धेनु:।।१५।।
पदच्छेद: – मुनेश्च – मुने:+ च।
अन्वय: अन्वयार्थ:
पल्लवरागताम्रा – नवपल्लवस्य रागवर्ण इव अरुणा
पतङ्गस्य प्रभा – सूर्यस्य कान्ति:
मुने: – वसिष्ठस्य
धेनु: च – नन्दिनी च
दिगन्तराणि – दिश: अन्तराणि
सञ्चारपूतानि – सञ्चारेण पवित्रीभूतानि
कृत्वा – विधाय
दिनान्ते – दिनावसाने
निलयाय गन्तुं – आलयगमनाय
प्रचक्रमे – उद्यत: अभूत्।
सार: – नूतनपल्लवस्य वर्ण इव प्रशोभमाना सूर्यप्रभा तथा यागधेनु: नन्दिनी च सञ्चारेण दिश: पवित्रीकृत्य
सायंकाले निलयाय गन्तुं प्रचक्रमे।
विग्रह: – पल्लवरागताम्रा – पल्लवस्य राग इव राग: ताम्र: च।
दिगन्तराणि – दिशाम् अन्तराणि।
सञ्चारपूतानि – सञ्चारेण पूतानि।
क्रिया – प्रचक्रमे – प्र इत्युपसर्गपूर्वक क्रमु पादविक्षेपे धातु: आत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
प्रचक्रमे – प्रचक्रमाते – प्रचक्रमिरे
प्रचक्रमे इत्यत्र प्र पूर्वक क्रम् धातो: आत्मनेपदित्वं लभते।
अलङ्कार: – दीपकालङ्कार: (वदन्ति वण्र्यावण्र्यानां धर्मैक्यं दीपकं बुधा:)
१६. राजा तां नन्दिनीम् अनुययौ।
तां देवतापित्रतिथिक्रियार्था-
मन्वग्ययौ मध्यमलोकपाल:।
बभौ च सा तेन सतां मतेन
श्रद्धेव साक्षाद्विधिनोपपन्ना।।१६।।
पदच्छेद: – श्रद्धेव – श्रद्धा + इव।
अन्वय: अन्वयार्थ:
मध्यमलोकपाल: – भूलोकपालो दिलीप:
देवतापित्रतिथिक्रियार्थाम् – देवतानां पितॄणां अतिथीनां च क्रियार्थं
तां – नन्दिनीं
अन्वग्ययौ – अन्वगच्छत्।
सतां मतेन – सज्जनसम्मतेन
तेन – दिलीपेन
उपपन्ना सा (सतां मतेन) – युक्ता सा नन्दिनी
विधिना – अनुष्ठानेन (युक्ता)
साक्षात् – यथार्थत:
श्रद्धा इव बभौ – श्रद्धा इव शुशुभे।
सार: – भूलोकपालो दिलीप: देवतापित्रादीनां क्रियार्थां नन्दिनीं अन्वगच्छत्। सज्जनसम्मतेन दिलीपेन सह सा
नन्दिनी सतां मतेन विधिना युक्ता यथार्थत: श्रद्धा इव शुशुभे।
विग्रह: – मध्यमलोकपाल: – मध्यम: लोक: मध्यमलोक: मध्यमलोकं पालयतीति
मध्यमलोकपाल:।
क्रिया – अन्वग्ययौ – अन्वक् (अव्ययपूर्वक) या प्रापणे धातु परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
अन्वग्ययौ – अन्वग्ययतु: – अन्वग्ययु:।
अलङ्कार: – उत्प्रेक्षालङ्कार:।
१७. दिलीप: श्यामायमानानि वनानि पश्यन् ययौ।
स पल्वलोत्तीर्णवराहयूथा-
न्यावासवृक्षोन्मुखबर्हिणानि।
ययौ मृगाध्यासितशाद्वलानि
श्यामायमानानि वनानि पश्यन्।।१७।।
अन्वय: अन्वयार्थ:
स: – स राजा
पल्वलोत्तीर्णवराहयूथानि – अल्पजलाशयेभ्य: निर्गच्छत: वराहसमूहान्
आवासवृक्षोम्नुखबर्हिणानि – वासवृक्षोन्मुखान् मयूरान्
मृगाध्यासितशाद्वलानि – मृगै: अध्यासितहरिततृणप्रदेशान्
श्यामायमानानि वनानि – श्यामीकृतानि काननानि (च)
पश्यन् ययौ – दृश्यमान: अगच्छत्।
सार: – महाराज: अल्पजलाशयेभ्य: निर्गतान् सूकरजालान् वासवृक्षोन्मुखान् मयूरान् हरितप्रदेशस्थान् हरिणान्
श्यामीकृतानि काननानि च दृश्यमान: सन् अगच्छत्।
विग्रह: – पल्वलोत्तीर्णवराहूथानि – पल्वलेभ्य: उत्तीर्णानि वराहाणां यूथानि, येषु तानि।
मृगाध्यासितशाद्वलानि – मृगै: अध्यासिता: शाद्वला: येषु तानि।
ययौ इति क्रियां पूर्वश्लोकेन अन्वेति।
१८. उभौ गताभ्यां तपोवनावृत्तिपथं अलञ्चक्रतु:।
आपीनभारोद्वहनप्रयत्नात्
गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्र:।
उभावलञ्चक्रतुरञ्चिताभ्यां
तपोवनावृत्तिपथं गताभ्याम्।।१८।।
पदच्छेद: – गृष्टिर्गुरुत्वाद्वपुषो – गृष्टि: + गुरुत्वात् + वपुष:।
उभावलञ्चक्रतुरञ्चिताभ्यां – उभौ +अलंचक्रतु: +अञ्चिताभ्याम्।
अन्वय: अन्वयार्थ:
आपीनभारोद्वहनप्रयत्नात् – ऊधस: भारवहनप्रयत्नात्
गृष्टि: – गौ: नन्दिनी
वपुष: – शरीरस्य
गुरुत्वात् – भारवत्वात्, आधिक्यात्
नरेन्द्र: – राजा (च)
उभौ – नन्दिनीदिलीपौ
अञ्चिताभ्यां – मनोज्ञाभ्यां
गताभ्यां – गमनाभ्याम्
तपोवनावृत्तिपथं – तपोवनप्रत्यागमनमार्गम्
अलञ्चक्रतु: – भूषितवन्तौ।
सार: – ऊधस: भारत्वात् नन्दिनी, शरीरस्य गुरुत्वात् राजा च उभौ मनोज्ञाभ्यां गताभ्यां तपोवनप्रत्यागमनमार्गम्
अलञ्चक्रतु:।
विग्रह: – नरेन्द्र: – नरेषु इन्द्र:।
तपोवनावृत्तिपथं – तपोवनं प्रति आवृत्ते: पन्थानम्।
क्रिया – अलञ्चक्रतु: – अलं पूर्वक डुकृञ् करणे धातु परस्मैपदी लिट् प्रथमपुरुषद्विवचनम्।
अलञ्चकार – अलञ्चक्रतु: – अलञ्चक्रु:।
१९. वनान्तादावर्तमानं तं सुदक्षिणा अतितृष्णया व्यलोकयत्।
वसिष्ठधेनोरनुयायिनं त-
मावर्तमानं वनिता वनान्तात्।
पपौ निमेषालसपक्ष्मपङ्क्ति-
रुपोषिताभ्यामिव लोचनाभ्याम्।।१९।।
पदच्छेद: – वसिष्ठधेनोरनुयायिनम् – वसिष्ठधेनो: +अनुयायिनम्।
अन्वय: अन्वयार्थ:
वसिष्ठधेनो: – वसिष्ठस्य होमधेनो:
अनुयायिनं – अनुचरं
वनान्तात् आवर्तमानं – वनान्तात् प्रत्यागच्छन्तं
तं – राजानं
वनिता – सुदक्षिणा
निमेषालसपक्ष्मपङ्क्ति: – निर्निमेषपक्ष्मपङ्क्ति: सती
उपोषिताभ्याम् इव – कृतोपवासाभ्याम् इव
लोचनाभ्यां – नयनाभ्यां
पपौ – पीतवती।
सार: – वसिष्ठस्य यागधेनो: नन्दिन्या: अनुचरं वनात् प्रत्यागतं राजानं सुदक्षिणा निर्निमेषा सती दृष्टवती।
विग्रह: – निमेषालसपक्ष्मपङ्क्ती: – निमेषेषु अलसा पक्ष्मणां पङ्क्ति: यस्या: सा।
अलङ्कार: – उत्प्रेक्षालङ्कार: । (उपोषिताभ्यामिव)
क्रिया – पपौ – पा पाने-पर-लिट्-प्र-पु-ए-व।
पपौ – पपतु: – पपु:।
२०. सुदक्षिणा धेनुं प्रत्युद्ययौ।
पुरस्कृता वत्र्मनि पार्थिवेन
प्रत्युद्गता पार्थिवधर्मपत्न्या।
तदन्तरे सा विरराज धेनु-
र्दिनक्षपामध्यगतेव सन्ध्या।।२०।।
पदच्छेद: – दिनक्षपामध्यगतेव – दिनक्षपामध्यगता + इव।
अन्वय: अन्वयार्थ:
वत्र्मनि – मार्गे
पार्थिवेन – राज्ञा
पुरस्कृता – पुरत: कृता
पार्थिवधर्मपत्न्या – राज्ञ: धर्मपत्न्या सुदक्षिणया
प्रत्युद्गता – स्वीकृता
सा धेनु: – नन्दिनी
तदन्तरे – तयो: सुदक्षिणदिलीपयो: मध्ये
दिनक्षपामध्यगता – दिनरात्र्यो: मध्ये स्थिता
सन्ध्या इव – सायम् इव
विरराज – शुशुभे।
सार: – मार्गे राज्ञ: पुरत: गच्छती, राजपत्न्या स्वीकृता च नन्दिनी सुदक्षिणादिलीपयो: मध्ये
दिवसरजन्यो: मध्यगता सन्ध्या इव अशोभत।
विग्रह: – पार्थिवधर्मपत्न्या – पार्थिवस्य धर्मपत्नी पार्थिवधर्मपत्नी, तया।
क्रिया – विरराज – वि+राजृ दीप्तौ-पर-लिट्-प्र पु-ए व।
विरराज – विरेजतु: – विरेजु:।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. काः नयनानां सायुज्यं प्राप्तवन्तः अभूवन्? २. कः स्वं यशः श्रुतवान्? ३. नन्दिनी केन दिशः पवित्रीकरोति? ४. नन्दिनी राजा च किम् अलञ्चक्रतुः? ५. नन्दिनी कस्य यागधेनुः अस्ति? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. मृग्यः किं विलोकयन्त्यः नयनानां सायुज्यं प्राप्तवन्तः अभूवन्? २. कीदृशः वायुः राजानं सेवितवान्? ३. वनाग्निः कदा शशाम? |
निर्दिष्टाभ्यासः (Assignments)
१. पाठान्तर्गतानां श्लोकानां आशयं लिखत। २. कालिदासस्य रघुवंशमहाकाव्ये तृतीयसर्गे वर्तमानं षट्श्लोकादारभ्य पञ्चदशश्लोकपर्यन्तं भागं पठन्तु। |
उत्तराणि (Answer to Objective type questions)
१.मृग्यः । २. दिलीपः । ३.सञ्चारेण । ४.तपोवनप्रत्यागमनमार्गम्। ५. वसिष्ठस्य। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. कालिदास:, रघुवंशमहाकाव्यम्, सर्गः द्वितीयः, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्,कल्पात्ति, पालक्काट्,2013। २. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस। |