Unit-3
तृतीय – चतुर्थ – पञ्चमखण्डेषु पाठ्यांशगतानां क्रियापदानां धातुपदलकारपुरुषवचनानि।
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षा: (Prerequisites)
पदानि त्रिधा। सुबन्त-निङन्त-अव्ययभेदात्। सुबन्तानि नामपदानि।तिङन्तानि क्रियापदानि। अव्ययपदानि व्यतियान्ारहितानि भवन्ति। सुबन्तानां तिङन्तानां प्रतिविभक्ति प्रतिपुरुषं च भेदाः वर्तन्ते। क्रियापदानि प्रधानतया त्रिधा। परस्मैपदिनः आत्मनेपदिनःउभयपदिनश्चेति। केचनआत्मनेपदिनः यथा भू अस् पठ् स्थादयः। केचनआत्मनेपदिनः यथा एध् वृतु रुच् प्रभृतयः। केचन धातवः परस्मैपदे आत्मनेपदे च वर्तन्ते। तेे उभयपदिनः यथा ङृकुञ्, करणे, ङुपचष्, पाके प्रभृतयः। आवर्तनैव क्रियापदानि वशीकर्तुं शक्यन्ते। कालानुसारं लकाराः प्रयुज्यन्ते।वर्तमाने लट्लकारः भूते लङ् लिट् लुङ्च। लृट् लृङ् लोट् इत्येते लकाराः भविष्यत्काले प्रयुज्यन्ते। सुगमयारीत्या संस्कृताद्ययनाय धातूनां पद-लकार-पुरुषवचनानि अवगन्तव्यानि। पाठभागे वर्तमानानां कतिपयानां धातूनां सूचना अत्र सन्ति। |
मुख्यपदानि (Key terms)
मुमोच, अन्वगच्छत्, विरराज, आनर्च, ददर्श, बिभेषि।
Discussion
क्रियापदानां धातुपदलकारपुरुषवचनानि।(तृतीय खण्डस्य रघुवंशमहाकाव्यस्य)
मुमोच -‘मुच्लृमोचन’े परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।मुमोच – मुमुचतु: – मुमुचु:।
अन्वगच्छत् – अनु इत्युपसर्गपूर्वकस्य‘गम्लृ गतौ’ इति धातो: परस्मैपदी लङ् प्रथमपुरुष एकवचनम्।
अन्वगच्छत् – अन्वगच्छताम् – अन्वगच्छन्।
जुगोप – ‘गुपू रक्षणे’इति धातुः लिट् परस्मैपदी प्रथमपुरुष एकवचनम्।जुगोप- जुगुपतु:- जुगुपु:।
न्यषेधि -‘निपूर्वकः षिध (सेध्) गत्यां’इति धातुः, कर्मणि-लङ्-प्रथमपुरुषःा एकवचनम्
अभूत् -‘भ’ूधातुः-परस्मैपदी-लुङ्-प्रथमपुरुष-एकवचनम्।अभूत् – अभूताम् – अभूवन्।
अन्वगच्छत् -अनु उपसर्गपूर्वकस्य ‘गम्लृ गता’ै धातो:-परस्मैपदी-लङ्-प्रथमपुरुष एकवचनम्।
अन्वगच्छत् – अन्वगच्छताम् – अन्वगच्छन्।
आसीत् -‘अस भुवि’ धातुः परस्मैपदी लङ् प्रथमपुरुषः एकवचनम्।
आसीत् – आस्ताम् – आसन्।
विरराज -वि पूर्वकः‘राजृ दीप्ता’ै धातुः परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
विरराज – विरेजतु: – विरेजु:।
अवाकिरन् -अव पूर्वकस्य‘कॄ विक्षेप’े इति धातो: परस्मैपदी-लङ्-प्रथमपुरुष:-बहुवचनम्।
अवाकिरत् – अवाकिरताम् – अवाकिरन्।
आपु: -‘आप्लृ गता’ै इति धातुः परस्मैपदी-लिट्-प्रथमपुरुष:-एकवचनम्।
आप – आपतु: – आपु:।
सिषेवे -‘षिव् सेवने’इति धातुःआत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
सिषेवे – सिषेवाते – सिषेविरे।
शशाम -‘शम शमन’े इति धातुः परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
शशाम – शेमतु: – शेमु:।
आपु: -‘आप्लृ गतौ’इति धातुः परस्मैपदी लिट् प्रथमपुरुष: बहुवचनम्।
शुश्राव -‘श्रु श्रवण’े इति धातुः परस्मैपदी लिट् प्रथमपुरुष: बहुवचनम्।
बबाधे -‘बाध् बाधने’इति धातुः आत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
प्रचक्रमे -प्र इत्युपसर्गपूर्वकः ‘क्रमु पादविक्षेपे’ इति धातु: आत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
प्रचक्रमे – प्रचक्रमाते – प्रचक्रमिरे
अन्वग्ययौ -अन्वक् (अव्ययपूर्वक) ‘या प्रापणे’इति धातुः परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
अन्वग्ययौ – अन्वग्ययतु: – अन्वग्ययु:।
अलञ्चक्रतु: -अलं पूर्वक ‘डुकृञ् करणे’ इति धातुः परस्मैपदी लिट् प्रथमपुरुष द्विवचनम्।
अलञ्चकार – अलञ्चक्रतु: – अलञ्चक्रु:।
पपौ -पा पानेपरस्मैपदी लिट् प्रथमपुरुष द्विवचनम्।
पपौ – पपतु: – पपु:।
आनर्च -‘अर्च पूजायां’ लिट् परस्मैपदी प्रथमपुरुष: एकवचनम्।
आनर्च – आनर्चतु: – आनर्चु:।
ननन्दतु: -‘नन्द् समृद्धा’ै इति धातुःार-लिट्-प्रपु-द्विव।
ननन्द – ननन्दतु: – ननन्दु:।
भेजे -‘भज् सेवायां’इति धातुःआत्मनेपदी-लिट्-प्रथमपुरुष:-एकवचनम्।
भेजे – भेजाते – भेजिरे।
उदतिष्ठत् -उत् इत्युपसर्गपूर्वकःस्था धातुः परस्मैपदी-लङ्-प्रथमपुरुष:-एकवचनम्।
उदतिष्ठत् – उदतिष्ठताम् – उदतिष्ठन्।
व्यतीयु: -वि, अतिइत्युपसर्गद्वयपूर्वकःइण् गतौ इति धातुःपरस्मैपदी-लिट्-प्रथमपुरुष:-बहुवचनम्।
व्यतीय – व्यतीयतु: -व्यतीयु:।
ययौ -‘या प्रापण’इतिे धातुःपरस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
ययौ-ययतुः-ययुः।
आनर्च -‘अर्च पूजायां’इतिधातुःपरस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
अनर्च-आनर्चतुः-आनर्चुः।
व्यतीयु: -वि अति पूर्वक इण् गतौ इति धातुः परस्मैपदी लिट् प्रथमपुरुषः बहुवचनम्।
आविवेश -आङ् इति उपसर्गपूर्वस्य ‘विश् विशने’इति धातो:परस्मैपदी लिट् प्रथमपुरुषः बहुवचनम्।
आविवेश – आविविशतु: – आविविशु:।
चकर्ष -‘कृष् विलेखने’इति धातु: परस्मैपदी-लिट्-प्रथमपुरुष:-एकवचनम्।
चकर्ष – चकृषतुः – चकृषुः।
निवर्तयामास -‘नि वृत् वर्तन’इति धातो: परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
निवर्तयामास – निवर्तयामासतु: – निवर्तयामासु:।
ददर्श -दृशिर् प्रेक्षणे- परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
ददर्श – ददृशतुः – ददृशुः।
ऐच्छत् -‘इष् इच्छायां’इति धातो: लङ् प्रथमपुरुष: एकवचनम्।
ऐच्छत् – ऐच्छताम् – ऐच्छन्।
अवतस्थे -‘अव’ उपसर्गपूर्वकस्य (ष्ठा गतिनिवृत्तौ) ‘स्था’ धातो: लिट् प्रथमपुरुष: एकवचनम्।
अवतस्थे – अवतस्थाते – अवतस्थिरे।
अदह्यत -‘दह् भस्मीकरणे’इति धातो: आत्मनेपदी कर्मणि लङ् प्रथमपुरुष: एकवचनम्।
अदह्यत – अदह्येतां – अदह्यन्त।
निजगाद -नि उपसर्गपूर्वक ‘गद व्यक्तायां वाचि’इति धातो: परस्मैैपदी लिट् प्रथमपुरुष: एकवचनम्।
निजगाद – निजगददु: – निजगदु:।
मूच्र्छति -‘मूच्र्छ मोहन’इति धातो: परस्मैैपदी लट् प्रथमपुरुष: एकवचनम्।
मूच्र्छति – मूच्र्छत: – मूच्र्छन्ति।
अवेहि -अव्इण् गतौ परस्मैैपदीलोट् मध्यमपुरुष एकवचनम्।
अवेहि/अवेतात् – अवेतं- अवेत।
पश्यसि -दृशिर् प्रेक्षणे परस्मैपदी लट् मध्यमपुरुष एकवचनम्।
पश्यसि – पश्यथ: – पश्यथ।
शुशोच -शुच् शोके परस्मैैपदी लिट् प्रथमपुरुष: एकवचनम्।
शुशोच – शुशुचतु: – शुशुचु:।
निवर्तस्व -निपूर्वक ‘वृतु वर्तने’इति धातुःआत्मनेपदी लोट् मध्यमपुरुषः एकवचनम्।
निवर्तस्व – निवर्तेथाम् – निवर्तध्वम्।
प्रत्यब्रवीत् -प्रति उपसर्गपूर्वकस्य‘ब्रूञ् व्यक्तायां वाचि’ धातो: परस्मैैपदी लङ् प्रथमपुरुष: एकवचनम्।
प्रत्यब्रवीत् – प्रत्यब्रूताम् – प्रत्यब्रूवन्।
अभिधास्ये -अभि (उपसर्ग) ‘डुधाञ् धारण’इति धातुः आत्मनेपदी लृट् उत्तमपुरुषः एकवचनम्।
अभिधास्ये – अभिधास्यावहे – अभिधास्यामहे।
विसृज्यताम् -वि असृज् विसर्गे आत्मनेपदी लोट् प्रथमपुरुष: एकवचनम्।
विसृज्यताम् – विसृज्येताम् – विसृज्यन्ताम्।
बभाषे -भाष व्यक्तायां वाचि आत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
बभाषे – बभाषाते – बभाषिरे।
प्रतिभासि -प्रति इत्युपसर्गपूर्वक ‘भा दीप्ता’ै इति धातुः परस्मैपदी लट् मध्यमपुरुषः एकवचनम्।
प्रतिभासि – प्रतिभाथ: – प्रतिभाथ।
पासि -‘पा रक्षण’े इति धातुः परस्मैपदी लट् मध्यमपुरुषः एकवचनम्।
पासि – पाथ: – पाथ।
बिभेषि -भी – भये धातो: परस्मैपदी लट् मध्यमपुरुषः एकवचनम्।
बिभेषि – बिभिथ:/बिभीथः- बिभिथ/बिभिथ।
अभाषत -भाष व्यक्तायां वाचि आत्मनेपदी लङ् प्रथमपुरुष: एकवचनम्।
अभाषत -अभाषेतां -अभाषन्त।
(चतुर्थखण्डस्य रघुवंशमहाकाव्यस्य)
उवाच – ब्रूञ् व्यक्तायां वाचि परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
उवाच – ऊचतु: – ऊचु:।
अवेहि -अव पूर्व इण् गतौ परस्मैपदी लोट् मध्यमपुरुषः एकवचनम्।
अवेहि/अवेतात् – अवेतं – अवेत।
भवेत् -भू सत्तायाम् परस्मैपदी विधिलिङ् प्रथमपुरुष: एकवचनम्।
भवेत् – भवेतां – भवेयु:।
आहु: – ब्रूञ् व्यक्तायां वाचि इति धातो: परस्मैपदी लट् प्रथमपुरुषः बहुवचनम्।
ब्रवीति – ब्रूत: – ब्रुवन्ति। (अथवा)आह – आहतु: – आहु: इति रूपाणि।
उपानयत् -उपइत्युपसर्गपूर्वक णीञ् प्रापणे परस्मैपदी लङ् प्रथमपुरुष: एकवचनम्।
उपानयत् – उपानयतां – उपानयन्।
पपात -पत्लृ पतने परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
पपात – पेततु: – पेतु:।
अस्मि -‘अस् भुवि’ धातो: परस्मैपदी लट् उत्तमपुरुष एकवचनम्।
अस्मि – स्व: – स्म:।
ययाचे -याचृ याञ्चायांआत्मनेपदीलिट् प्रथमपुरुष: एकवचनम्।
ययाचे – यायाचाते – ययाचिरे।
आदिदेश -आङ् पूर्व दिश् उच्चारणे परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
आदिदेश – अदिदिशतु: – आदिदिशु:।
इच्छामि – इष इच्छायां धातो: परस्मैपदी लट ्उत्तमपुरुषः एकवचनम्।
इच्छामि – इच्छाव: – इच्छाम:।
प्रत्याययौ -‘प्रति आङ् पूर्वस्य या प्रायेण’इति धातोः परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
प्रत्याययौ – प्रत्याययतु: – प्रत्याययु:।
शशंस -शंस् स्तुतौ परस्मैपदी लिट् प्रथमपुरुष: एकवचनम्।
शशंस – शशंसतु: – शशंसु:।
प्रतिस्थापयामास – प्र अष्ठा गतिनिवृत्तौ इति धातुः,णिचि आत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
प्रस्थापयामास – प्रस्थापयामासतु: – प्रस्थापयामासु:।
प्रतस्थे -प्र अस्था गतिनिवृत्तौ आत्मनेपदी लिट् प्रथमपुरुष: एकवचनम्।
प्रतस्थे – प्रतस्थाते – प्रतस्थिरे।
पपु: -पा पाने परस्मैपदी लिट् प्रथमपुरुष: बहुवचनम्।
पपौ – पपतु: – पपु:।
आससज्ज -आङ् असस्ज् गतौ परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
आससज्ज – आससज्जतु: – आससज्जु:।
आधत्त -आङ् पूर्व‘डुधाञ् धारणपोषणयो:’इति धातुःआत्मनेपदी लङ् प्रथमपुरुष: एकवचनम्।
आधत्त – आदधतां – आदधत।
पञ्चमखण्डस्य क्रियापदानां धातुपदलकारपुरुषवचनानि।(बालरामायणम्)
अभवन् -भूधातुः परस्मैपदी लङ् प्रथमपुरुष: बहुवचनम्।
अभवत् – अभवताम् – अभवन्।
अजायत -जनी प्रादुर्भावे आत्मनेपदी लङ् प्रथमपुरुषः एकवचनम्।
अजायत – अजायेताम् – अजायन्त।
प्रयच्छ -प्र अ दाण् दाने परस्मैपदी लोट् मध्यमपुरुषः एकवचनम्।
प्रयच्छ, प्रयच्छतात् – प्रयच्छतं – प्रयच्छत।
लप्स्यसे -डुलभष् प्राप्तौआत्मनेपदी लृट् मध्यमपुरुषः एकवचनम्।
लप्स्यसे – लप्स्येथे – लप्स्यध्वे।
अन्तर्दधे -‘अन्तर्’ पूर्वस्य ‘डुधाञ् धारणपोषणयो:’इति धातोः आत्मनेपदी लिट् प्रथमपुरुषःएकवचनम्।
अन्तर्दधे – अन्तर्दधाते – अन्तर्दधिरे।
अजनयत् – जनी प्रादुर्भावे परस्मैपदी णिचि लङ् प्रथमपुरुषः एकवचनम्।
अजनयत् – अजनयताम् – अजनयन्।
बभूव – भू सत्तायांपरस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
बभूव – बभूवतु: – बभूवु:।
प्रपेदे – प्र पूर्व आप्लृ प्रापणे आत्मनेपदी लिट् प्रथमपुरुषः एकवचनम्।
प्रपेदे – प्रपेदाते – प्रपेदिरे।
वर्तेते -वृतु वर्तनेआत्मनेपदी लिट् प्रथमपुरुषः एकवचनम्।
वर्तते- वर्तेते-वर्तन्ते।
धरिष्यामि -धृञ् धारणे परस्मैपदी लृट् उत्तमपुरुषःएकवचनम्।
धरिष्यामि – धरिष्याव: – धरिष्याम:।
गमिष्यामि -गम्लृ गतौ परस्मैपदी लृट् उत्तमपुरुषः एकवचनम्।
गमिष्यामि – गमिष्याव: – गमिष्याम:।
उवाच -ब्रूञ् व्यक्तायां वाचि परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
उवाच – ऊचतु: – ऊचु:।
श्रूयताम् -श्रु श्रवणे आत्मनेपदी कर्मणि लोट् प्रथमपुरुषः एकवचनम्।
श्रूयतां-श्रूयेतां-श्रूयन्ताम्।
पपात -पत्लृ पतने परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
पपात – पेततु: – पेतु:।
अवर्तत -वृतु वर्तने-आत्मनेपदी लङ् प्रथमपुरुषः एकवचनम्।
अवर्तत-अवर्तेतां-अवर्तन्त।
निनाय – णीञ्प्रापणे परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
निनाय-निन्यतुः-निन्युः।
अकरोत् -डुकृञ् करणे परस्मैपदी लङ् प्रथमपुरुषः एकवचनम्।
अकरोत्- अकुरुतां-अकुर्वन्।
अन्वगच्छताम् -अनुपूर्वकस्य गम्लृधातो: परस्मैपदी लङ् प्रथमपुरुषः द्विवचनम्।
अन्वगच्छत् – अन्वगच्छताम् – अन्वगच्छन्।
पप्रच्छ -‘प्रच्छ ज्ञीप्सायाम्’परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
पप्रच्छ – पप्रच्छतुः – पप्रच्छुः।
वरयामासु: -वृञ् वरणे परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
वरयामास – वरयामासतुः – वरयामासु:।
प्रतिजग्राह -प्रतिअ ग्रह उपादाने परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
प्रतिजग्राह -प्रतिजगृहतुः-प्रतिजगृहुः।
दर्शय -दृशिर् प्रेक्षणे णिच् परस्मैपदी लोट् मध्यमपुरुषः एकवचनम्।
दर्शय/दर्शयतात् – दर्शयतं -दर्शयत।
आदिदेश -आङ्पूर्वः दिश् उच्चारणेइति धातुः परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
आदिदेश – आदिदिशतुः – आदिदिशुः।
यतिष्ये -यती प्रयत्ने आत्मनेपदी लृट् उत्तमपुरुषः एकवचनम्।
यतिष्ये – यतिष्यावहे – यतिष्यामहे।
जहृषुः -हृष् तुष्टौपरस्मैपदी लिट् प्रथमपुरुषः बहुवचनम्।
जहर्ष – जहृषतुः – जहृषु।
प्रययौ -प्र अ या प्रापणे परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
प्रययौ- प्रययतुः – प्रययुः।
चकम्पे -कपि चले कम्पने च आत्मनेपदी लिट् प्रथमपुरुषः एकवचनम्।
चकम्प – चकम्पाते – चकम्पिरे।
आचख्ये -आङ् चक्षिङ् शब्दे आत्मनेपदी लिट् प्रथमपुरुषः एकवचनम्।
आचख्ये – आचख्याते – आचख्यिरे।
सम्प्राप -सम प्र पूर्वस्य आप्लृगतौइति धातोः परस्मैपदी लिट् प्रथमपुरुषः एकवचनम्।
सम्प्राप – सम्प्रापतुः – सम्प्रापुः।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. आसीत् इति क्रियापदस्य लकारः कः? २. कृञ् धातोः परस्मैपदे लट् लकारे प्रथमपुरुषे एकवचनरूपं किम्? ३. अन्वगच्छत् – अत्र लकारः कः? ४. शमाम – अत्र लकारः कः? ५. स्थाधातोः लृटि प्रथमपुरुषे एकवचने किं रूपम्? ६. उदतिष्टत् इति क्रियापदस्य द्विवचनं किम्? ७. पश्यसि इति क्रियापदस्य धातुः कः? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. लटि रूपाणि लिखत। २. कृञ् धातोः परस्मैपदि लटि रूपाणि लिखत। ३. लृटि रूपाणि लिखत। |
निर्दिष्टाभ्यासः (Assignments)
१. दृशिर्धातोः दशसु लकारेषु सर्वाणि रूपाणि लिखत। २. रघुवंशस्य द्वितीयसर्गे वर्तमानानां आघ्यानां दश श्लोकानां सुबन्तानाम् अन्तलिङ्ग विभक्तिवचनानि लिखत। |
उत्तराणि (Answer to Objective type questions)
१. लङ् लकारः। २. करोति। ३. लङ्। ४. लिट्। ५. स्थास्यति। ६. उदतिष्ठताम्। ७. दृश् धातुः। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. अमरसिंह: अमरकोशम् व्याख्याता – टि.वि माधववारियर् , काणिप्प्यूर् पञ्चाङ्गं पुस्तकशाला, कुन्नंकुलम् 2012, पुटं 66 – 691. २. अमरसिंह:, अमरकोशम्, व्याखाता वाचस्पति: टि.सी.परमेश्वरन् मूसद्, नाषणल् बुक् स्टाल्,कोट्टयम्, 1983, पुटानि 278-284. ३. कालिदास:, रघुवंशमहाकाव्यम्, सर्ग: दिवुतीय:, व्याख्या पि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्, कल्पात्ति, पासक्काट्, 2013। ४. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या, कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ५. रामचन्द्र झा,‘रूपचन्द्रिका’ चौखम्बा संस्कृतसीरीस् ओफीस् वाराणसी, 2011। ६. अप्पय्यदीक्षित:, सिद्धान्तकौमुदी बालमनोरमा तृतीय: भाग:, चौखम्बा,1969। |