Unit-3
खण्डिका 11-15
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
अयि मित्राणि, द्वितीयमेककम् अस्माभि: पठितम्।दशरथस्य सभायामागतं विश्वामित्रं राजा दशरथ: यथाविथि स्वीचकार। सत्कारं स्वीकृत्य कुशलप्रश्नानन्तरं यागरक्षायै श्रीरामं प्रेषयितुं विश्वामित्र: अभ्यर्थितवान्। प्रथमं वैमनस्यं प्रकटयन्नपि राजा वसिष्ठोपदेशमनुसृत्य सानुजं श्रीरामं विश्वामित्रेण सह प्रेषितवान्। यात्रामध्ये दारुणं किमपि वनं वीक्ष्य ‘किमेतद्’इति श्रीराम: विश्वामित्रमपृच्छत्। एतावत्पर्यन्तमस्माभि: ज्ञाता: किल? अस्य वनस्य कथां ज्ञातुं वयं तत्परा:। अत: तृतीयमेककं प्रविशाम:। |
मुख्यपदानि (Key terms)
ताटकावधम्, मन्त्रग्रामेः, अहल्याशापानाः, सुबाहुमारीचौ , शाम्भवधनुः, धनूरत्नम्,वीर्यशल्का सीता।
Discussion
गद्यम् – ११
महर्षेराशयं शिरसा धारयन् दाशरथिर्देशहिताय तमर्थं प्रतिज्ञाय तीव्रं ज्याशब्दमकरोत्। तं शब्दमसहमाना शिलाजालं वर्षन्ती राक्षसी राममभ्यद्रवत्। अभिमुखमापतन्तीं तां शरेणोरसि विव्याध। सा सद्यधरणीतले पपात ममार च। ताटकावधेन तोषितस्य मुनिवरस्यादेशेन तौ तां रजनीं तत्र सुखमूषतु:। मुनिदत्तेन मन्त्रग्रामेण समेधितप्रभावौ राघवौ मुनिमनुगच्छन्नाश्रमपदमवापताम्। महामुनेस्तास्ता: कौतुकावहा: कथा: श्रृण्वन्तौ तौ राजपुत्रौ कदापि मार्गखेदमनुबुद्ध्येताम्।
व्याख्या
महर्षेरिति – महर्षे: विश्वामित्रमहर्षे: आशयं आग्रहं शिरसा मूध्र्ना धारयन् वहन् दाशरथि: श्रीराम: देशहिताय जनपदहिताय तमर्थं ताटकावधार्थं प्रतिज्ञाय प्रतिज्ञां कृत्वा ज्याशब्दं धनुर्गुणाकर्षणरवं अकरोत् चकार। धारयन् (त-पुं-प्र-ए-व)। तं शब्दं तं रवं असहमाना सोढुमसह्या शिलाजालं पाषाणसमूहं वर्षन्ती राक्षसी प्रेक्षणं कुर्वन्ती ताटका राममभ्यद्रवत् रामाभिमुखमागतवती। शिलानां जालं शिलाजालम्। अभिमुखं प्रत्यक्षम् आपतन्तीं तां आगच्छन्तीं ताटकां शरेण बाणेन उरसि वक्षसि, विव्याध विदारयामास। बाण:, अजिहाग:, आशुग:, पृथत्क: शरस्य पर्यायपदानि। सा ताटका सद्य सहसा धरणीतले भूतले पपात अपतत् ममार मृतिं प्राप। पपात (पत्लृ पतने-पर-लिट्-प्रपु-ए-व)। पपात – पेततु: – पेतु:। ताटकावधेन ताटकाया: वधेन तोषितस्य मुनिवरस्य सन्तुष्टस्य श्रेष्ठमुने: तौ रामलक्ष्मणौ तां रजनीं तां निशां तत्र तत्स्थले सुखं ससुखम् ऊषतु: अवसताम्। मुनिवरस्य – मुनिषु वर: मुनिवर:, तस्य मुनिवरस्य। मुनिदत्तेन वसिष्ठदत्तेन मन्त्रग्रामेण मन्त्रसमूहेन समेधितप्रभावौ संवर्धितैश्वर्यौ राघवौ रामलक्ष्मणौ मुनिमनुगच्छन् मुनिमनुसरन् आश्रमपदम् आश्रमम्, अवापतां प्रापतु:। राघवौ रघो: अपत्ये पुमांसौ। महामुने: विश्वामित्रस्य ता: कौतुकावहा: कथा: ता: रसावहा: प्रबन्धकल्पना: श्रृण्वन्तौ आकर्णयन्तौ तौ राजपुत्रौ तौ राजकुमारौ मार्गखेदं मार्गक्लेशं कदापि ईषदपि न अवबुद्ध्येतां न जानीयाताम्। कथाश्रवणे तत्परौ तौ मार्गक्लेशं न अजानीयताम्। कौतुकम् आवहन्तीति कौतुकावहा:।
गद्यम् -१२
ततो नियतेन्द्रियो मुनिवरो दीक्षां प्रविवेश। राघवौ च निर्निद्रौ महत्या श्रद्धया तपोवनस्य रक्षणे जागरूकाववर्तेताम्। षष्ठेऽहनि समागते सानुचरौ सुबाहुमारीचौ यज्ञशालामुपगम्य रुधिरौघमवर्षताम्। तावदेव राजीवलोचनो राघवो मारीचोरसि शरेण प्रहृत्य तं योजनशतं यावत्समुद्रे चिक्षेप। सुबाहुमाग्नेयास्त्रेण गतासुं पातयित्वा तदनुचराणि रक्षांसि च वायव्यास्त्रेण दूरं विद्रावयामास। तेनाद्भुतेन कर्मणा सर्वेऽपि तपोवनस्था: नितान्तं प्रमुदिता: राघवं बहुधा प्रशशंसु:।
व्याख्या
ततो इति – तत: अनन्तरं नियतेन्द्रिय: मुनिवर: जितेन्द्रिय: मुनिश्रेष्ठ: दीक्षां यागाचरणाय व्रतं प्रविवेश आरब्धवान्। दीक्षाम् (आ-स्त्री-द्वि-ए-व)। दीक्षां – दीक्षे – दीक्षा:। राघवौ रामलक्ष्मणौ निर्निद्रौ निद्रां त्यक्त्वा वर्तमानौ महत्या श्रद्धया अतिश्रद्धया तपोवनस्य रक्षणे तपोवनसंरक्षणे जागरूकौ नितान्तं श्रद्धालू अवर्तेताम् अभवतां च। महत्या (ई-स्त्री-तृ-ए-व)। महत्या – महद्भ्यां – महद्भ्य:। षष्ठेऽहनि समागते यदा षष्ठं दिनं समागतं तदा सानुचरौ अनुचरै: सहितौ सुबाहुमारीचौ राक्षसौ यज्ञशालां यागशालाम् उपगम्य प्राप्य रुधिरौघं रक्तसमूहम् अवर्षतां ववर्षतु:। सानुचरौ – अनुचरै: सह वर्तते इति सामुचर: तौ सानुचरौ। यावत् यदा अनुचरै: सह रक्तवर्षणं चकार तावत् तत्काले एव राजीवलोचन: राघव: कमलाक्ष: श्रीराम: मारीचोरसि मारीचस्य वक्षसि शरेण बाणेन प्रहृत्य हत्वा तं योजनशतं शतयोजनदूरे समुद्रे सागरे चिक्षेप निक्षेपितवान्। राघव: – रघो: गोत्रापत्यं पुमान्। सुबाहुं सुबाहुनामानं राक्षसम् आग्नेयास्त्रेण अग्निदेवतारूपेण अस्त्रेण, गतासुं पातयित्वा प्राणवियोगं कृत्वा (हत्वा), तदनुचराणि रक्षांसि च तस्यानुचरान् राक्षसान् च वायव्यास्त्रेण वायुदेवतारूपेण अस्त्रेेण दूरं बहुदूरं विद्रावयामास विद्रवणं कारयामास। पातयित्वा (पत्लृ धातुना सह णिचि क्तप्रत्यय:) तेनाद्भुतेन कर्मणा तेन विस्मापयकर्मणा सर्वेऽपि तपोवनस्था: सकला: तपोवने वर्तमाना: नितान्तं नितरां प्रमुदिता: सन्तुष्टा: राघवं श्रीरामं बहुधा अनेकधा प्रशशंसु: प्रशंसयामासु:।
गद्यम् –
अथ यज्ञे समाप्ते प्रसन्नहृदयो विश्वामित्रो राममाबभाषे – ‘नरश्रेष्ठ! मिथिलाधिपतेर्जनकस्य परमपावनो यज्ञ इदानीं प्रवर्तते। तत्र सर्वे वयं यास्याम:। त्वमप्यस्माभि: सह मिथिलां गन्तुमर्हसि। तत्रत्यमप्रमेयप्रभावं शाम्भवं धनूरत्नं च द्रष्टुमर्हसि’इति। मुनेराज्ञया राघवावपि प्रतिष्ठमानं मुनिरन्वगच्छताम्। मिथिलोपवनं प्राप्तो दाशरथि: कौशिकात् विदितवृत्तान्तो गौतमाश्रमं प्रविश्य गौतमशापेनापश्यतां गतां तत्पत्नीमहल्यां शापान्तेनानुजग्राह। अहल्यासहितेन गौतमेन विधिवत्कृतां सपर्यां च प्रतिजग्राह।
व्याख्या
अथेति – अथ अनन्तरं यज्ञे समाप्ते यागे समाÏप्त गते प्रसन्नहृदय: सन्तुष्टचित्त: विश्वामित्र: कौशिक: रामं श्रीरामं आबभाषे कथितवान्। यज्ञे समाप्ते – यदा यज्ञ: समाप्त: तदा। सतिसप्तमीप्रयोग:। नरश्रेष्ठ हे मानवश्रेष्ठ, मिथिलाधिपते: मिथिलानामकस्य राज्यस्य राज्ञ: जनकस्य जनकनामकस्य परमपावन: पवित्र: यज्ञ: याग: इदानीम् अधुना प्रवर्तते प्रचलति। तत्र मिथिलायां वयं सर्वे यात्स्याम: गमिष्याम:। वयम् (अस्मद्शब्द:-त्रिषु लिङ्गेषु समान:-प्र-ब-व)। अहं – आवां – वयम्। त्वम् अपि भवान् अपि अस्माभि: सह साकं, मिथिलां गन्तुमर्हसि गमनार्ह: । त्वम् अअपि अअस्माभि: – त्वमप्यस्माभि:। तत्रत्यं तत्र वर्तमानम् अप्रमेयप्रभावं केनापि तुलनं कर्तुमसाध्यं शाम्भवं धनूरत्नं शिवसम्बन्ध: विशिष्टधनु: च द्रष्टुमर्हसि द्रष्टुं भवान् अर्ह: इति। शम्भो: इदं शाम्भवम्। मुनेराज्ञया विश्वामित्राज्ञया राघवौ अपि रामलक्ष्मणौ अपि प्रतिष्ठमानं गच्छन्तं मुनिं महर्षिम् अन्वगच्छताम् अनुजग्मतु:। राघवौ अअपि – राघवावपि। मिथिलोपवनं मिथिलाया: समीपस्थं वनं प्राप्त: सम्प्राप्त: दाशरथि: श्रीराम: कौशिकात् विश्वामित्रात् विदितवृत्तान्त: ज्ञातोदन्त: गौतमाश्रमं गौतममहर्षे: आश्रमं प्रविश्य गौतमशापेन गौतममहर्षे: शापेन अदृश्यतां अदृश्यरूपं गतां तत्पत्नीं प्राप्तां गौतमभार्याम् अहल्याम् अहल्यानामिकां शापान्तेन शापावसानेन अनुजग्राह अनुग्रहीतवान्। दाशरथि: – दशरथस्य गोत्रापत्यं पुमान्। अहल्यासहितेन गौतमेन अहल्यायुक्तेन गौतममहर्षिणा विधिवत्कृतां यथाविधि कृतां सपर्यां पूजां च प्रतिजग्राह स्वीचकार।
गद्यम् – १३
जनको विश्वामित्रमनुप्राप्तं श्रुत्वा पुरोहितं शतानन्दं पुरस्कुर्वन् सहसा प्रत्युद्गम्य विधिवदभ्यर्हितवान्। निर्वृत्ते मिथ: कुशलप्रश्ने स राजा सकुतुकं देवतुल्यपराक्रमौ काविमौ कुमाराविति कौशिकं पपृच्छ। मुनिरपि राघवानुगतं सर्वमपि वृत्तान्तं यथावद्वर्णयामास। निवेदयामास च तयोर्महाधनुषो दर्शनकौतुकम्।
व्याख्या
जनक इति – विश्वामित्रम् अनुप्राप्तं सम्प्राप्तं श्रुत्वा आकण्र्य जनक: जनकमहाराज: पुरोहितं शतानन्दं शतानन्दनामकं पुरस्कुर्वन् पुरत: कुर्वन् सहसा सवेगं प्रत्युद्गम्य स्वीकृत्य विधिवत् यथाविधि अभ्यर्हितवान् पूजितवान्। श्रुत्वा (श्रु श्रवणे-क्त्वान्तमव्ययम्) मिथ: परस्परं कुशलप्रश्ने निर्वृत्ते कुशलप्रश्नानन्तरं स राजा जनक: सकुतुकं तात्पर्येण सह देवतुल्यपराक्रमौ कौ इमौ कुमारौ इति कौशिकं विश्वामित्रं पपृच्छ अपृच्छत्। मुनिरपि विश्वामित्र अपि राघवानुगतं सर्वमपि सकलमपि वृत्तान्तम् उदन्तं यथावत् वर्णयामास विशदीकृतवान्। तयो: रामलक्ष्मणयो: महाधनुष: शाम्भवधनुष: दर्शनकौतुकं दर्शनाय वर्तमानं तात्पर्यं निवेदयामास व्यजिज्ञपत्। तयो:अ महाधनुष: – तयोर्महाधनुष:।
गद्यम् – १४
जनको मुनिमेवं व्यजिज्ञपत्। – ‘इदं किल धनूरत्नं देवरातस्य राज्ञो हस्ते न्यासीकृतम्। अस्य चारोपणाय देवा दानवा गन्धर्वा रक्षांसि वा न प्रभवन्ति। अत्र यो भुजवीर्यं प्रकाशयति तस्मै मत्सुता सीता देयेति प्रतिज्ञा मया कृता। बहवो राजान: सीतामत्रागत्य वरयामासु:। तथापि धनुषोऽस्य ग्रहणेऽप्यशक्ता भग्नाशाः निववृतिरे। रामो यद्यस्य धनुष: आरोपणं कुर्यात्तर्हि सीतामवश्यंं तस्मै दद्याम्’इति।
व्याख्या
जनक इति – जनक: जनकराज: मुनिं ऋषिम् एवं वक्ष्यमाणप्रकारेण व्यजिज्ञपत् विज्ञापयामास। इदं धनूरत्नं विशिष्ट: अयं धनु: राज्ञ: महाराजस्य देवरातस्य देवरातनामकस्य दशरथपूर्विकस्य हस्ते करे न्यासीकृतं न्यासरूपेण निक्षिप्तं किल खलु। धनु: अरत्नं – धनूरत्नम्। अस्य आरोपणाय अस्य धनुष: ज्यारोपणाय देवा: दैत्या: दानवा: असुरा: गन्धर्वा: देवगायका: रक्षांसि राक्षसा: वा न प्रभवन्ति अशक्ता: भवन्ति। च अआरोपणाय – चारोपणाय। अत्र धनुरारोपणे य: भुजवीर्यं करस्य वीर्यं प्रकाशयति प्रकटयति तस्मै तज्जनाय मत्सुता मम पुत्री सीता जानकी देया दातुं योग्या इति मया प्रतिज्ञा कृता अहं प्रतिज्ञां कृतवान्। भुजवीर्यम् – भुजस्य वीर्यं भुजवीर्यम्। बहव: अनेके राजान: भूपाला: अत्रागत्य अत्रागम्य सीतां जानकीं वरयामासु: वव्रु:।अत्र अआगत्य – अत्रागत्य। तथापि अस्य धनुष: ग्रहणे धनुरारोपणकार्ये अशक्ता: शक्तिहीना: भग्नाशाः निराशा: (भूत्वा), निववृतिरे प्रतिन्यवर्तन्त। धनुष: अअस्य – धनुषोऽस्य। धनुष: (ष-पु-ष-ए-व)। धनुष: – धनुषो: – धनुषाम्। यदि राम: धनुष: आरोपणं कुर्यात् करिष्यति तर्हि अवश्यं निस्संशयं सीतां सीतादेवीं तस्मै रामाय दद्याम् अहं दास्यामि इति। अस्य (म-पु-ष-ए-व) अस्य – अनयो: – एषाम्।
गद्यम् – १५
विश्वामित्रेण ‘धनुर्दर्शय रामाय’इति प्रार्थितो जनको धनुरानयनाय सचिवानादिदेश। महता प्रयासेन बहुभि: जनसमूहै: समानीतं तद्धनुश्रेष्ठं ‘वत्स राम, धनु: पश्य’इति विश्वामित्रो रामाय दर्शयामास। रामो विनीत: कार्मुकस्यास्य ग्रहणे पूरणे च यतिष्य इति वदन् पश्यतां नृसहस्राणां समक्षं लीलया मध्ये गृहीत्वा यावत्पूरयामास तावदेव तन्मध्ये भग्नं बभूव। निर्घातसमेन च तस्य निस्वनेन विश्वामित्रं जनकं राघवौ च वर्जयित्वा सर्वापि जनता मोहं प्रपेदे। तत: प्रत्याश्वस्तेषु जनेषु जनको राजा विश्वामित्रं सप्रमोदमभाषत। – ‘भगवन्, दृष्टवीर्याय दशरथसूनवे रामाय वीर्यशुल्कां सीतां प्रदाय सत्यप्रतिज्ञो भवितुमभिलषामि। शीघ्रमेव भवतोऽनुमत्या वार्ताहर अयोध्यां प्रयान्तु, आनयन्तु च महात्मानं दशरथं सबान्धवं सपुरोधसं सत्वरमेव’इति। जनकेन प्रेषिता दूता महता रंहसा विहितगमना अयोध्यां संप्राप्य राज्ञे दशरथाय सन्तोषवार्तां निवेदयामासु:।
व्याव्ख्या
विश्वामित्रेण इति – ‘धनुर्दर्शनाय रामाय रामं धनुं दर्शयतु’इति विश्वामित्र: जनकं निर्दिदेश। तदा धनुरानयितुं जनक: सचिवान् मन्त्रीन् अदिदेश। धनु: अ दर्शनाय – धनुर्दर्शनाय। अनेके जना: महता प्रयासेन तद् श्रेष्ठं धनुम् आनीतवन्त:। तदा विश्वामित्र: ‘वत्स राम धनुं पश्य इति रामम् अवदत्। राम: धनुं ददर्श। बहुभि: अनेकै:। विनीत: विनयशाली राम: अस्य कार्मुकस्य धनुष: ग्रहणे पूरणे च गृहणाय पूरणाय च यतिष्ये यत्नं करिष्यामि इति वदन् पश्यतां नृसहस्राणां समक्षं जनसहस्राणामवलोकनसमये एव लीलया सलीलं मध्ये गृहीत्वा धनुष: मध्ये उद्धृत्य यावत् पूरयामास तावत् यदा अपूरयत् तदा एव तन्मध्ये धनु: मध्ये भग्नं खण्डितं बभूव। कार्मुकस्य अ अस्य – कार्मुकस्यास्य। निर्घातसमेन सौमादिनीतुल्येन तस्य निस्वनेन घोरेण शब्देन विश्वामित्रं जनकं राघवौ च वर्जयित्वा विहाय सर्वापि जनता सर्वे जना: मोहं प्रपेदे मोहालस्यं प्रापु:। विश्वामित्र: जनक: रामलक्ष्मणौ च न मोहिता:। इतरे सर्वे मोहालस्यं प्रापु:। तस्य – द-पु-ष-ए-व। तत: अनन्तरं प्रत्याश्वास्तेषु जनेषु जना: यदा मोहाद्विमुक्ता: तदा राजा जनक: विश्वामित्रं सामोदं ससन्तोषम् अभाषत वक्ष्यमाणप्रकारेणअवदत् – भगवन् दृष्टवीर्याय दशरथसूनवे रामाय (रामस्य पराक्रम: अस्माभि: दृष्ट:) तस्मै दशरथपुत्राय रामाय वीर्यशुल्कां सीतां वीर्येण क्रीतां जानकीं प्रदाय दत्वा सत्यप्रतिज्ञ: सत्यपरिपालनतल्पर: भवितुमभिलषामि भवितुमिच्छामि। दशरथस्य सूनु: दशरथसूनु:, तस्मै दशरथसूनवे। भवतोऽनुमत्या भगवत: सम्मतेन शीघ्रमेव झटित्येव वार्ताहरा: दूता: अयोध्यां अयोध्यानगरीं प्रयान्तु गच्छन्तु। सबान्धवं बन्धुवर्गसहितं सपुरोधसं सपुरोहितं महात्मानं दशरथं श्रेष्ठं दशरथं आनयन्तु जनकराजधानीम् आनयन्तु इति। भवत: अ अनुमत्या – भवतोऽनुमत्या। भवत: -त-पु-ष-एव। जनकेन प्रेषिता: दूता: महता रंहसा वेगेन अयोध्यां विहितगमना: (विहितं गमनं येषां ते ) संप्राप्य प्राप्य दशरथाय सन्तोषवार्तां जनकाभिलाषकार्यं निवेदयामासु: व्यजिज्ञपन्।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. विश्वामित्र: मिथिलां गन्तुं रामलक्ष्मणौ उपदिशति। किमर्थम्? २. मुनेराज्ञया तौ मुनिरन्वगच्छताम् – कौ? ३. श्रीराम: कां शापात् मोचितवान्? ४. मिथिलाधिपति: क:? ५. ‘धनुर्दर्शनाय’इत्यस्य पदच्छेद: ……………। ६. ‘महता प्रयासेन बहुभि: जनसमूहै: समानीतं तद्धनु:’ – अस्य धनुष: नाम किम्? ७. गौतममहर्षे: भार्या का? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. शाम्भवं धनु: इदानीं कस्य सकाशे वर्तते? २. अहल्या का? ३. देवतुल्यपराक्रमौ कुमारौ कौ? ४. जनकमहाराजस्य पुरोहितस्य नाम किम्? ५. मिथिलाया: अधिप: क:? ६. देवरात: क:? ७. धनुरारोपणे के के असमर्था: बभूवु:? ८. ‘पश्यतां नृसहस्राणां समक्षम्’इत्यनेन सूचित: आशय: क:? ९. सर्वापि जनता मोहं प्रपेदे – कारणं किम्? |
एकैकया खण्डिकया उत्तराणि लिखत।(Answer the question in a paragraph)
१. ताटका वधम्, विशदयत। २. श्रीरामः कथं विश्वामित्रस्य यागं संरक्षितवान्। |
निर्दिष्टाभ्यासः (Assignment)
१.विश्वामित्रेण साकं रामलक्ष्मणयोः गमनं ताटकावधम् अहल्यामोक्षवृत्तान्तं च संक्षिप्य लिखत। |
निर्देशानुसारम् उत्तरं लिखत।
|
उत्तराणि (Answer to Objective type questions)
१. कश्चन याग: प्रचलति, तद्दर्शनार्थम्। २. राघवौ ३. अहल्याम् ४. जनक: ५. धनु: अ दर्शनाय ६. शाम्भवम् ७. अहल्या। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. पी.एस्. अनन्तनारायणशास्त्री, बालरामायणम्, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्. एस्. वाध्यार् आन्ट् सन्स्, कल्पात्ति। २. पि.एस्. अनन्तनारायणशास्त्रि, बालरामायणम्, व्यख्या पि.जि.अजित् प्रसाद्, अनामिका पब्लिक्केषन्स्, एलुकोण्, 2008. ३. डा. पूवट्टूर् रामतृष्णपिल्ल, केरलसंस्कृतविज्ञाननिघण्डु, केरलभाषा इन्स्टिट्यूट्, अनन्तपुरी, 2096 पुटं 30-31 |