Unit-3
21-30 श्लोकाः
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
महाकवेः कालिदासस्य रघुवंशे द्वितीयसर्गेराजा दिलीप: कुलगुरो: वसिष्ठस्य आश्रमम् उपेत्य कामधेनुसुतां नन्दिनीं परिसेवितुम् आरब्धवान्। यदा नन्दिनी निद्रां प्राप तदा कुशम् आस्तीर्य तस्या सकाशं शेतवान् आसीत्। अतिप्रभाते महर्षिशिष्याणां मन्त्रोच्चारणध्वनिमाकण्र्य सुप्तोत्थित: महाराज: भूयोऽपि तस्या: परिचरणे श्रद्धावान् आसीत्। नन्दिनीपरिचरणम् अत्र वर्णयति। |
मुख्यपदानि (Key terms)
सुदक्षिणा, प्रदक्षिणीकृत्य, सपर्यां, प्रसादचिह्नानि, दोहावसाने, महनीयकीर्तिः, गुहा, धातुमय्याम्।
Discussion
२१. सुदक्षिणा नन्दिनीं नमस्कृत्यार्चयामास।
प्रदक्षिणीकृत्य पयस्विनीं तां
सुदक्षिणा साक्षतपात्रहस्ता।
प्रणम्य चानर्च विशालमस्या:
श्रृङ्गान्तरं द्वारमिवार्थसिद्धे:।।२१।।
पदच्छेद: – चानर्च – च +आनर्च।
इवार्थसिद्धेः – इव अअर्थसिद्धे:
अन्वय: अन्वयार्थ:
साक्षतपात्रहस्ता – अक्षतपात्रं हस्ते गृहीता
सुदक्षिणा – राज्ञी सुदक्षिणा
पयस्विनीं तां – तां धेनुं
प्रदक्षिणीकृत्य – प्रदक्षिणं कृत्वा
प्रणम्य च – नमस्कृत्य च
अस्या: – नन्दिन्या:
विशालं – विस्तृतं
श्रृङ्गान्तरं – विषाणयो: मध्यं
अर्थसिद्धे: – उद्दिष्टकार्यसिद्धे:
द्वारम् इव – प्रवेशनमार्गम् इव
आनर्च – अर्चितवती।
सार: – दिलीपपत्नी सुदक्षिणा अक्षतपात्रं हस्ते गृहीत्वा पयस्विनीं तां धेनुं प्रदक्षिणीकृत्य नमस्कृत्य च तस्या:
विशालं श्रृङ्गान्तरं उद्दिष्टकार्यसिद्धे: मार्गमिव पूजयामास।
विग्रह: – पयस्विनीं – प्रशस्त: पय: अस्या: अस्तीति पयस्विनी, ताम्।
अलङ्कार: – उत्प्रेक्षा – (अर्थसिद्धे: द्वारमिव)
क्रिया – आनर्च – अर्च पूजायां लिट्-पर-प्र-पु-ए-व।
आनर्च – आनर्चतु: – आनर्चु:।
२२. धेनु: वत्सोत्सुकापि स्तिमिता पूजां स्वीकृतवती।
वत्सोत्सुकापि स्तिमिता सपर्यां
प्रत्यगृहीत्सेति ननन्दतुस्तौ।
भक्त्योपपन्नेषु हि तद्विधानां
प्रसादचिह्नानि पुर: फलानि।।२२।।
पदच्छेद: – सेति – सा +इति।
ननन्दतुस्तौ – ननन्दतु: +तौ।
भक्त्योपपन्नेषु – भक्त्या +उपपन्नेषु।
अन्वय: अन्वयार्थ:
सा – सा धेनु: नन्दिनी
वत्सोत्सुका अपि – वत्सं द्रष्टुम् उत्सुका अपि
स्तिमिता सती – निश्चला सती
सपर्यां – पूजां
प्रत्यग्रहीत् – स्वीकृतवती
इति – इत्यत:
तौ ननन्दतु: – तौ दम्पती आनन्दं प्रापतु:
भक्त्या उपपन्नेषु – भक्त्या युक्तेषु
तद्विधानां – तत्सदृशानां (नन्दिनीतुल्यानां)
प्रसादचिह्नानि – प्रसन्नताचिह्नानि
पुर:फलानि हि – पुरत: सत्फलानि भविष्यन्ति इति सूचयति।
सार: – सा नन्दिनी वत्से उत्कण्ठिता अपि निश्चला सती पूजां स्वीकृतवती इति तौ दम्पती ननन्दतु:। भक्त्या
उपपन्नेषु प्रसादचिह्नानि अचिरेणैव फलसिद्धि: भविष्यति इति सूचयति।
विग्रह: – वत्सोत्सुका – वत्से उत्सुका। प्रसादचिह्नानि – प्रसादस्य चिह्नानि।
अलङ्कार: – अर्थान्तरन्यास:। उक्तिरर्थान्तरन्यास: स्यात्सामान्यविशेषयो:।
क्रिया – ननन्दतु: नन्द् समृद्धौ धातु-पर-लिट्-प्र-पु-द्वि-व।
ननन्द – ननन्दतु: – ननन्दु:।
२३.सन्ध्याविधिं समाप्य राजा पुनरपि धेनुं भेजे।
गुरो: सदारस्य निपीड्य पादौ
समाप्य सान्ध्यं च विधिं दिलीप:।
दोहावसाने पुनरेव दोग्ध्रीं
भेजे भुजोच्छिन्नरिपुर्निषण्णाम्।।२३।।
पदच्छेद: – पुनरेव – पुन: +एव।
भुजोच्छिन्नरिपुर्निषण्णाम् – भुजोच्छिन्नरिपु: + निषण्णाम्।
अन्वय: अन्वयार्थ:
भुजोच्छिन्नरिपु: – भुजबलेन रुद्धशत्रु:
दिलीप: – राजा दिलीप:
सदारस्य – पत्न्या सहितस्य
गुरो: पादौ – गुरो: वसिष्ठस्य पादौ
निपीड्य – अभिवन्द्य
सान्ध्यं विधिं च – सन्ध्याविधिं च
समाप्य – परिसमाप्य
दोहावसाने – दोहनावसाने
निषण्णाम् – उपविष्टाम्
दोग्ध्रीं – दोहनशीलां धेनुं
पुन: एव – भूयोऽपि
भेजे – असेवत।
सार: – महाबाहु: पराक्रमशाली शत्रुनाशक: च राजा दिलीप: पत्न्या सह गुरुं वसिष्ठं नमस्कृत्य सन्ध्याकर्माणि
परिसमाप्य च दोहनानन्तरम् उपविष्टां नन्दिनीं भूयोऽपि असेवत।
विग्रह: – सदारस्य – दारै: सह वर्तते इति सदार:, तस्य।
क्रिया – भेजे – भज् सेवायां धातु-आत्मनेपदी-लिट्-प्रथमपुरुष:-एकवचनम्।
भेजे – भेजाते – भेजिरे।
२४. राजा सुप्तां तामनुसंविवेश, सुप्तोत्थितामनूदतिष्ठत्।
तामन्तिकन्यस्तबलिप्रदीपा-
मन्वास्य गोप्ता गृहिणीसहाय:।
क्रमेण सुप्तामनुसंविवेश
सुप्तोत्थितां प्रातरनूदतिष्ठत्।।२४।।
पदच्छेद: – तामन्तिकन्यस्तबलिप्रदीपाम् – ताम् + अन्तिकन्यस्तबलिप्रदीपाम्।
सुप्तामनुसंविवेश – सुप्ताम् + अनुसंविवेश।
प्रातरनूदतिष्ठत् – प्रात: + अनूदतिष्ठत्।
अन्वय: अन्वयार्थ:
गोप्ता – रक्षिता
गृहिणीसहाय: – पत्नीसहित:
अन्तिकन्यस्तबलिप्रदीपां – समीपे स्थापितदीपयुक्तां
ताम् – नन्दिनीं
अन्वास्य – अनुपविश्य
क्रमेण सुप्तां – क्रमेण नन्दिन्यां सुप्तायां
अनुसंविवेश – पश्चात् सुप्त: अभवत्
प्रात: – प्रभाते
सुप्तोत्थिताम् – सुषुप्त्यनन्तरम् उत्थिताम्
अनूदतिष्ठत् – उदतिष्ठत्।
सार: – पत्नीसहाय: दिलीप: समीपस्थां दीपयुक्तां नन्दिनीम् अनूपविश्य क्रमेण नन्दिन्यां सुप्तायां पश्चात् सुप्त:
अभवत्। प्रभाते नन्दिन्याम् उत्थितायां राजापि उदतिष्ठत्।
विग्रह: – गृहिणीसहाय: – गृहिणी सहाय: यस्य स:।
सुप्तोत्थिताम् – पूर्वं सुप्त: तत: उत्थिता, ताम्।
गोप्ता – गोपयितुं शीलम् अस्य इति।
क्रिया – उदतिष्ठत् – उत् अ स्था धातु परस्मैपदी-लङ्-प्रथमपुरुष:-एकवचनम्।
उदतिष्ठत् – उदतिष्ठताम् – उदतिष्ठन्।
२५. एवं व्रतमनुष्ठित: एकविंशति दिनानि व्यतीयु:।
इत्थं व्रतं धारयत: प्रजार्थं
समं महिष्या महनीयकीर्ते:।
सप्त व्यतीयुस्त्रिगुणानि तस्य
दिनानि दीनोद्धरणोचितस्य।।२५।।
पदच्छेद: – व्यतीयुस्त्रिगुणानि – व्यतीयु: + त्रिगुणानि।
अन्वय: अन्वयार्थ:
इत्थं – एवं प्रकारेण
प्रजार्थं – पुत्रलाभाय
महिष्या समं – पत्न्या सह
व्रतं धारयत: – नियमं धारयत:
महनीयकीर्ते: – उदारकीर्ते:
दीनोद्धरणोचितस्य – दीनानां रक्षणे तत्परस्य
तस्य – राज्ञ:
सप्तत्रिगुणानि – एकविंशति:
दिनानि – दिवसानि
व्यतीयु: – यापयामासु:।
सार: – एवं पुत्रलाभाय पत्न्या सह नियमं धारयन् महनीयकीर्ते: दीनोद्धरणे तत्परस्य च राज्ञ: एकविंशति: दिनानि
गतानि।
विग्रह: – महनीयकीर्ते: – महनीया कीर्ति: यस्य स: महनीयकीर्ति:, तस्य।
दीनोद्धरणोचितस्य – दीनानाम् उद्धरणे उचित: दीनोद्धरणोचित:, तस्य।
त्रिगुणानि – त्रय: गुणा: येषां तानि।
क्रिया – व्यतीयु: – वि अ अति अइण् गतौ धातु-परस्मैपदी-लिट्-प्रथमपुरुष:-बहुवचनम्।
व्यतीय – व्यतीयतु: -व्यतीयु:।
प्रयोगविशेष: – ‘महिष्या समम्’इत्यत्र ‘समम्’इत्यस्य योगे तृतीया विभक्ति:।
२६. नन्दिनी हिमालयस्य एकां गुहां प्रविवेश।
अन्येद्युरात्मानुचरस्य भावं
जिज्ञासमाना मुनिहोमधेनु:।
गङ्गाप्रपातान्तविरूढशष्पं
गौरीगुरो: गह्वरमाविवेश।।२६।।
पदच्छेद: – अन्येद्युरात्मानुचरस्य – अन्येद्यु: + आत्मानुचरस्य।
गह्वरमाविवेश – गह्वरम् अ आविवेश।
अन्वय: अन्वयार्थ:
अन्येद्यु: – अन्यस्मिन् दिने
मुनिहोमधेनु: – नन्दिनी
आत्मानुचरस्य भावं – स्वसेवकस्य दिलीपस्य दृढभकिं्त
जिज्ञासमाना – ज्ञातुमिच्छन्ती
गङ्गाप्रपातान्तविरूढशष्पं – गङ्गाया: पतनप्रदेशस्थै: बालतृणैरावृतं
गौरीगुरो: – पार्वतीपितु: हिमवतः
गह्वरं – गुहां
आविवेश – प्रविवेश।
सार: – अन्यस्मिन् दिने नन्दिनी दिलीपस्य भकिं्त ज्ञातुमिच्छन्ती इव गङ्गाया: पतनप्रदेशस्य समीपे बालतृणै:
आवृतम् हिमवत: गुहां प्राविशत्।
विग्रह: – गौरीगुरो: – गौर्या: गुरु: गौरीगुरु:, तस्य।
क्रिया – आविवेश – आङ् इति उपसर्गपूर्वस्य विश् विशने इति धातो: पर-लिट्-प्र-पु-ए-व।
आविवेश – आविविशतु: – आविविशु:।
२७. क्रूरसिंहेन आक्रमितानन्दिनी।
सा दुष्प्रधर्षा मनसाऽपि हिंस्रै-
रित्यद्रिशोभाप्रहितेक्षणेन।
अलक्षिताभ्युत्पतनो नृपेण
प्रसह्य सिंह: किल तां चकर्ष।।२७।।
पदच्छेद: – मनसापि – मनसा + अपि।
इत्यद्रिशोभाप्रहितेक्षणा – इति + अद्रिशोभाप्रहितेक्षणा।
अन्वय: अन्वयार्थ:
सा – नन्दिनी
हिंस्रै: – क्रूरमृगै:
मनसाऽपि – चित्तेन अपि
दुष्प्रधर्षा इति – दुर्निग्रहा इति हेतो:
अद्रिशोभाप्रहितेक्षणेन – रम्ये पर्वते निविष्टदर्शनेन
नृपेण – दिलीपेन
अलक्षिताभ्युत्पतन: – अदृष्टोत्पतन:
सिंह: – केसरी
तां – नन्दिनीं
प्रसह्य – हठात्
चकर्ष किल – आक्रमितवान् खलु।
सार: – सिंहव्याघ्रादय: क्रूरमृगा: नन्दिनीं आक्रमितुं मनसाऽपि अशक्ता: इति मन्यमान: दिलीप: पर्वतस्य
निरतिशयशोभायां आकृष्टमनाः आसीत्। तदा दिलीपेन अलक्षितः एकःक्रूरसिंहः नन्दिनीं बलेन चकर्ष।
विग्रह: – हिंस्रै: – हिंसितुं शीलमेषामिति हिंस्रा:, तै:।
क्रिया – चकर्ष – कृष् विलेखने धातु: परस्मैपदी-लिट्-प्रथमपुरुष:-एकवचनम्।
चकर्ष – चकर्षतु: – चकर्षु:।
२८. धेनो: आक्रन्दनं राजा शुश्राव।
तदीयमाक्रन्दितमार्तसाधो-
र्गुहानिबद्धप्रतिशब्ददीर्घम्।
रश्मिष्विवादाय नगेन्द्रसक्तां
निवर्तयामास नृपस्य दृष्टिम्।।२८।।
पदच्छेद: – रश्मिष्विवादाय – रश्मिषु +इव + आदाय।
तदीयमाक्रन्दितमार्तसाधो: – तदीयम् + आक्रन्दितम् + आर्तसाधो:।
अन्वय: अन्वयार्थ:
गुहानिबद्धप्रतिशब्ददीर्घं – गह्वरे प्रतिबद्धेन रोदनप्रतिध्वनिना दीर्घीभूतं
तदीयं – नन्दिन्या:
आक्रन्दितं – उच्चैर्विलापं
आर्तसाधो: – दीनानुकम्पस्य
नृपस्य – दिलीपस्य
नगेन्द्रसक्तां दृÏष्ट – पर्वतकान्तिं आस्वादयन्तीं दृÏष्ट
रश्मिषु आदाय इव – प्रग्रहेषु गृहीत्वा इव
निवर्तयामास – व्यावर्तयत्।
सार: – सिंहेन आक्रान्ता धेनु: उच्चै: विललाप। गुहानिबद्धत्वात् तद्रोदनस्य प्रतिध्वनि: द्विगुणित:। तदा
पर्वतशोभामास्वादयत: राज्ञ: दृष्टि: रश्मिषु गृहीत्वा इव न्यवर्तयत्।
विग्रह: – आर्तसाधो: – आर्तेषु साधु: आर्तसाधु:, तस्य।
नगेन्द्र: – नगेषु इन्द्र:।
क्रिया – निवर्तयामास – नि अ वृत् वर्तने धातो: पर-लिट्-प्र-पु-ए-व।
निवर्तयामास – निवर्तयामासतु: – निवर्तयामासु:।
२९. धेनोरुपरि स्थितं सिंहं राजा अपश्यत्।
स पाटलायां गवि तस्थिवांसं
धनुर्धर: केसरिणं ददर्श।
अधित्यकायामिव धातुमय्यां
लोध्रद्रुमं सानुमत: प्रफुल्लम्।।२९।।
पदच्छेद: – अधित्यकायामिव – अधित्यकायाम् +इव।
अन्वय: अन्वयार्थ:
धनुर्धर: स: – धनुर्धारी स: राजा
पाटलायां गवि – रक्तवर्णायां धेनौ
तस्थिवांसं – स्थितं
केसरिणं – सिंहं
सानुमत: – पर्वतस्य
धातुमय्यां – धातुभि: युक्तायाम्
अधित्यकायां – उपरिभूमौ
प्रफुल्लं – पुष्पितं
लोध्रद्रुमम् इव – लोध्रवृक्षम् इव (पाच्चोत्ति इति कैरल्याम्)
ददर्श – अपश्यत्।
सार: – सिंह: नन्दिनीम् आक्रमितवान्। नन्दिन्या: उपरि स्थितं सिंहं पर्वतस्याधित्यकायां पुष्पितं लोध्रवृक्षमिव
अपश्यत्।
विग्रह: – धातुमय्याम् – धातु: अस्या: अस्तीति धातुमयी, तस्याम्।
सानुमत: – सानूनि सन्ति अस्मिन् इति सानुमान्, तस्य।
अलङ्कार: – उपमा।
क्रिया – ददर्श – दृशिर् प्रेक्षणे-लिट्-पर-प्र-पु-ए-व।
ददर्श – ददर्शतु: – ददर्शु:।
३॰. सिंहं हन्तुं राजा शरम् उद्धृतवान्।
ततो मृगेन्द्रस्य मृगेन्द्रगामी
वधाय वध्यस्य शरं शरण्य:।
जाताभिषङ्गो नृपतिर्निषङ्गा-
दुद्धर्तुमैच्छत् प्रसभोद्धृतारि:।।३॰।।
पदच्छेद: – ततो मृग्न्द्रस्य – तत: + मृगेन्द्रस्य।
नृपतिर्निषङ्गात् – नृपति: + निषङ्गात्।
उद्धर्तुमैच्छत् – उद्धर्तुम् + ऐच्छत्।
अन्वय: अन्वयार्थ:
तत: – सिंहदर्शनानन्तरं
मृगेन्द्रगामी – मृगराजानुगामी
शरण्य: – शरणे साधु:
प्रसभोद्धृतारि: – रंहसा शत्रुनाशक:
नृपति: – राजा
जाताभिषङ्ग: (सन्) – जातपराभव: सन्
वध्यस्य मृगेन्द्रस्य वधाय – वधार्हस्य सिंहस्य हननाय
निषङ्गात् शरम् उद्धर्तुं – तूणीरात् बाणोद्धारणाय
ऐच्छत् – अभिललाष।
सार: – वीर: शत्रूणाम् उन्मूलने सर्वथा समर्थ: शरणागतवत्सल: स: दिलीप: सिंहाक्रान्तां नन्दिनीं रक्षितुम्
आलोक्य जातपराभव: सन् वधार्हस्य सिंहस्य वधाय तूणीरात् बाणम् उद्धर्तुम् अभिललाष।
विग्रह: – शरण्य: – शरणे साधु:।
मृगेन्द्रगामी – मृगाणाम् इन्द्र: मृगेन्द्र:, मृगेन्द्र इव गमनं शीलं यस्य स:।
वध्य: – वधम् अर्हति इति।
क्रिया – ऐच्छत् – इष् इच्छायां धातो: लङ्-प्रपु-ए-व।
ऐच्छत् – ऐच्छताम् – ऐच्छन्।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१.का धेनुं पूजयामास? २. कया उपपन्नेषु प्रसादचिह्नानि फलसिद्धिः भविष्यति? ३. राजा कदा सुप्तः अभवत्? ४. राज्ञः दिलीपस्य कति दिनानि धेनुसेवायां लब्धः? ५. नन्दिनि कुत्र प्राविशत्? ६. कः नन्दिनीं बलेन चकर्ष? ७. केन आक्रान्ता धेनुः उच्चैः विललाप? ८. कः नन्दिनीं रक्षितुम् अभिललाष? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१.धेनोः श्रृङ्गान्तरं किमर्थं पूजयामास? २.कीदृशः दिलीपः गुरुं वसिष्ठं नमस्करोति? ३. धेनोः उपरि स्थितः सिंहः कीदृशः आसीत्? |
|
निर्दिष्टाभ्यासः (Assignments)
१.अस्य एककस्य कथां संक्षिप्य लिखत। २. कालिदासस्य रघुवंशमहाकाव्ये तृतीयसर्गे वर्तमानं षोडशश्लोकादारभ्य पञ्चविंशतिः श्लोकपर्यन्तं भागं पठन्तु। |
उत्तराणि (Answer to Objective type questions)
१. सुदक्षिणा। २. भक्त्या। ३. नन्दिन्यां सुप्तायां सत्याम्। ४. एकविंशतिः। ५. हिमवतः गुहाम् ६. सिंहः। ७. सिंहेन ८. दिलीपः। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. कालिदास:, रघुवंशमहाकाव्यम्, सर्गः द्वितीयः, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्,कल्पात्ति, पालक्काट्,2013। २. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस। |