Unit-3
59-67 श्लोकाः
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षा: (Prerequisites)
क्रूरं सिंहं हन्तुं उद्युक्तस्य दिलीपस्य श्रमः पराजितः। तदा सिंहः मनुष्य वाचा ‘अहं शिवकिङ्करः, त्वं लज्जां त्यज’ इत्याधिकम् अवदत्। ‘धेनोः नन्द्न्याः संरक्षणाय मम शरीरमर्पयामि’ इत्युक्त्वा भूमौ राजा स्वादेहत्यागाय सन्नद्धः भूत्वा पपात। किं संभूतमिति पश्यामः। |
मुख्यपदानि (Key terms)
उत्पश्यत:, प्रतिष्टम्भविमुक्तबाहु:, सिंहनिपातं, उद्धितं, मायां, व्रणीष्व, हस्तौ, प्रतिश्रुत्या।
Discussion
५९. दिलीप: स्वदेहम् उपानयत्।
तथेति गां मुक्तवते दिलीप:
सद्य प्रतिष्टम्भविमुक्तबाहु:।
स न्यस्तशस्त्रो हरये स्वदेह-
मुपानयत्पिण्डमिवामिषस्य।।५९।।
पदच्छेद: – तथेति – तथा +इति।
न्यस्तशस्त्रो हरये – न्यस्तशस्त्र: + हरये
पिण्डमिवामिषस्य – पिण्डम् +इव + आमिषस्य।
अन्वय: अन्वयार्थ:
तथा इति – तथा अस्तु इत्युक्त्वा
गां मुक्तवते हरये – यदा सिंह: गां मुक्तवान् तदा
सद्य – प्रसभं
प्रतिष्टम्भविमुक्तबाहु: सः दिलीपः – बन्धनात् विमुक्तहस्त: राजा
न्यस्तशस्त्र: – उपेक्षितशस्त्र: सन्
स्वदेहं – स्वशरीरं
आमिषस्य पिण्डम् इव – मांसपिण्डमिव
उपानयत् – सविधं समर्पितवान्।
सार: – तथा अस्तु अति भावेन सिंह: गां नन्दिनीं मुमोच। सद्य एव स्वतन्त्रहस्त: राजा दिलीपःशस्त्राणि त्यक्त्वा
स्वशरीरं पललपिण्डमिव सिंहाय समर्पितवान्।
व्याकरणविशेष: – गां मुक्तवते – सति सप्तमी।
क्रिया – उपानयत् – उपइत्युपसर्गपूर्वक णीञ् प्रापणे पर-लङ्-प्र-पु-ए-व।
उपानयत् -उपानयताम् -उपानयन्
६॰. राज्ञोपरि पुष्पवृष्टि: पपात।
तस्मिन्क्षणे पालयितु: प्रजाना-
मुत्पश्यत: सिंहनिपातमुग्रम्।
अवाङ्मुखस्योपरि पुष्पवृष्टि:
पपात विद्याधरहस्तमुक्ता।।६॰।।
पदच्छेद: – अवाङ्मुखस्योपरि – अवाङ्मुखस्य + उपरि।
अन्वय: अन्वयार्थ:
तस्मिन् क्षणे – तदानीं
उग्रं सिंहनिपातं – अतिभयानकं सिंहपतनं
उत्पश्यत: – प्रतीक्ष्यमाणस्य
अवाङ्मुखस्य – विनम्रमुखस्य
प्रजानां पालयितु: उपरि – राज्ञ: उपरि
विद्याधरहस्तमुक्ता – विद्याधराणां हस्तेभ्य: मुक्ता
पुष्पवृष्टि: – कुसुमवृष्टि:
पपात – अपतत्।
सार: – सिंहस्य भयानकं पतनं प्रतीक्ष्य शयानस्य क्षितिपालस्य दिलीपस्य उपरि विद्याधरवर्षिता पुष्पवृष्टि: पपात।
क्रिया – पपात – पत्लृ पतने पर-लिट्-प्र-पु-ए-व।
पपात – पेततु: – पेतु:।
६१. उत्तिष्ठ वत्सेति वचो निशम्योत्थित: गां ददर्श, न सिंहम्।
उत्तिष्ठ वत्सेत्यमृतायमानं
वचो निशम्योत्थितमुत्थित: सन्।
ददर्श राजा जननीमिव स्वां
गामग्रत: प्रस्रविणीं न सिंहम्।।६१।।
पदच्छेद: – निशम्योत्थितमुत्थित: – निशम्य + उत्थितम् + उत्थित:।
वत्सेत्यमृतायमानम् – वत्स + इति + अमृतायमानम्।
अन्वय: अन्वयार्थ:
राजा – दिलीप:
उत्तिष्ठ वत्सइति अमृतायमानम् – वत्स उत्तिष्ठ इति अमृततुल्यं
उत्थितं वच: – श्रेष्ठं वच:
निशम्य – श्रुत्वा
उत्थित: सन् – उत्थाय
अग्रत: – पुरत:
प्रस्रविणीं गां – क्षीरस्राववतीं धेनुं
स्वां जननीम् इव – आत्मीयां मातरम् इव
ददर्श – अपश्यत्
सिंहं न ददर्श – केसरिणं न ददर्श।
सार: – हे पुत्र, उत्तिष्ठ इति अमृतायमानां वाणीम् आकण्र्य उत्थित: राजा दिलीपःस्वपुर: क्षीरस्राववतीं नन्दिनीम्
स्वमातरमिवअपश्यत्, न तु सिंहम्।
विग्रह: – अमृतायमानम् – अमृतम् इव आचरति इति अमृतायमानम्।
प्रस्रविणीम् – प्रस्रव: अस्या: अस्तीति प्रस्रविणी, ताम्।
क्रिया – ददर्श – दृशिर् प्रेक्षणे पर-लिट्-प्र पु-ए-व।
ददर्श – ददृशतु: – ददृशु:
६२. विस्मितं राजानं धेनुुरुवाच।
तं विस्मितं धेनुरुवाच साधो
मायां मयोद्भाव्यपरीक्षितोऽसि।
ऋषिप्रभावान्मयि नान्तकोऽपि
प्रभु: प्रहर्तुं किमुतान्यहिंस्रा:।।६२।।
पदच्छेद: – मयोद्भाव्य – मया + उद्भाव्य।
परीक्षितोऽसि – परीक्षित: + असि।
ऋषिप्रभावान्मयि – ऋषिप्रभावात् + मयि ।
नान्तकोऽपि – न + अन्तक: + अपि।
किमुतान्यहिंस्रा: – किम् अ उत अ अन्यहिंस्रा:।
अन्वय: अन्वयार्थ:
विस्मितं तं – आश्चर्यभरितं तं दिलीपं
धेनु: उवाच – नन्दिनी अवदत्
साधो – हे सौम्यशील
मया मायाम् उद्भाव्य – मम मायया
(त्वं) परीक्षित: असि – त्वं परीक्षितवान् भवसि
ऋषिप्रभावात् – वसिष्ठप्रभावात्
मयि अन्तक: अपि – मयि यम: अपि
प्रहर्तुं न प्रभु: – हन्तुं न समर्थ:
किमुत अन्यहिंस्रा: – किं पुन: अन्यघातुका: सिंहादय:।
सार: – विस्मयापन्नं दिलीपं धेनु: नन्दिनीं अब्रवीत् यत् हे साधो! केसरीरूपां मायां विधाय त्वां अहं
परीक्षितवती। वसिष्ठर्षिसामथ्र्र्यात् यमोऽपि मां प्रहर्तुं न समर्थ:। किं पुन: अन्यहिंस्रजन्तव:?
विग्रह: – ऋषिप्रभावात् – ऋषे: प्रभाव: ऋषिप्रभाव:, तस्मात्।
क्रिया – उवाच – ब्रूञ् व्यक्तायां वाचि पर-लिट्-प्र-पु-ए-व।
उवाच – ऊचतु: – ऊचु:।
अलङ्कार: – अर्थापत्ति:। कैमुत्येनार्थसंसिद्धि: काव्ये अर्थापत्तिरिष्यते।
६३. गुरौ भक्त्या मय्यनुकम्पया च ते प्रीतास्मि।
भक्त्या गुरौ मय्यनुकम्पया च
प्रीतास्मि ते पुत्र वरं वृणीष्व।
न केवलानां पयसां प्रसूति-
मवेहि मां कामदुधां प्रसन्नाम्।।६३।।
पदच्छेद: – मय्यनुकम्पया – मयि +अनुकम्पया।
प्रीतास्मि – प्रीता + अस्मि।
अन्वय: अन्वयार्थ:
पुत्र! – हे वत्स!
गुरौ भक्त्या – वसिष्ठे नितान्तभक्त्या
मयि अनुकम्पया च – मयि (नन्दिन्यां) दयया च
ते प्रीता अस्मि – तुभ्यं प्रसन्ना अस्मि
वरं वृणीष्व – वरं स्वीकुरु
मां – नन्दिनीं
केवलानां पयसां – दुग्धमात्रस्य
प्रसूतिं – कारणं
न अवेहि – न विद्धि
प्रसन्नां मां – प्रीतां मां
कामदुधां – मनोरथपूरयित्रीं
अवेहि – विद्धि।
सार: – हे पुत्र, गुरौ तव भकिं्त मयि तव दयां च अवेक्ष्य प्रसन्नाहम्। अभीष्टं वरं स्वीकुरु। अहं केवलस्य पयसः
दाता न भवामि।यदि अहं प्रसन्ना तर्हि सकलवरदायिनी भवेयम् इति जानीहि।
विग्रह: – कामदुधाम् – कामान् दोग्धि इति कामदुधा, ताम्।
क्रिया – वृणीष्व – वृङ् वरणे आत्म-लोट्-म-पु-ए-व।
वृणीष्व – वृणाथाम् – वृणीध्वम्।
अस्मि – अस भुवि धातो: पर-लट्-उ-पु-ए-व।
अस्मि – स्व: – स्म:।
६४. तत: सुदक्षिणायां तनयं ययाचे।
तत: समानीय स मानितार्थी
हस्तौ स्वहस्तार्जितवीरशब्द:।
वंशस्य कर्तारमनन्तकीर्तिं
सुदक्षिणायां तनयं ययाचे।।६४।।
पदच्छेद: – कर्तारमनन्तकीर्तिम् – कर्तारम् + अनन्तकीर्तिम्।
अन्वय: अन्वयार्थ:
तत: – अनन्तरं
मानितार्थी – सम्मानितयाचक:
स्वहस्तार्जितवीरशब्द: – स्वकर्मणा आर्जितवीर्य:
स: – दिलीप:
हस्तौ समानीय – अञ्जलिं बद्ध्वा
वंशस्य कर्तारं – कुलस्य प्रवर्धयितारं
अनन्तकीर्तिं – अनश्वरयशसं
तनयं – पुत्रं
सुदक्षिणायां – स्वभार्यायां
ययाचे – अयाचत (प्रार्थितवान्)।
सार: – प्रार्थयितॄणां तोषक: वीरकर्मा च दिलीपचक्रवर्ती अञ्जलिं बद्ध्वा कामधेनुसुतां नन्दिनीं कुलप्रवर्तकं
यशस्विनं च पुत्रं सुदक्षिणायां लब्धुं याचितवान्।
विग्रह: – मानितार्थी – मानिता: अर्थिन: येन स:।
अनन्तकीर्तिम् – अनन्ता कीर्ति: यस्य स: अनन्तकीर्ति:, तम्।
क्रिया – ययाचे – याचृ याञ्चायां आत्म-लिट्-प्र-पु-ए-व।
ययाचे – यायाचाते – ययाचिरे।
६५. धेनु: राज्ञे कामं प्रतिशुश्राव।
सन्तानकामाय तथेति कामं
राज्ञे प्रतिश्रुत्य पयस्विनी सा।
दुग्ध्वा पय: पत्रपुटे मदीयं
पुत्रोपभुङ्क्ष्वेति तमादिदेश।।६५।।
पदच्छेद: – तथेति – तथा +इति।
पुत्रोपभुङ्क्ष्वेति – पुत्र + उपभुङ्क्ष्व +इति।
अन्वय: अन्वयार्थ:
सा पयस्विनी – सा नन्दिनी
सन्तानकामाय – पुत्रकामाय
राज्ञे – दिलीपाय
तथा इति – तथास्त्विति
कामं प्रतिश्रुत्य – वरं प्रतिज्ञाय
पुत्र – हे वत्स
मदीयं पय: – मम दुग्धं
पत्रपुटे – पर्णपुटे
दुग्ध्वा – दोहनं कृत्वा
उपभुङ्क्ष्व इति – पिब इति
तम् – दिलीपम्
आदिदेश – उपदिदेश ।
सार: – सा नन्दिनी तथास्तु इति वरं प्रदाय पर्णै: निर्मिते पात्रे ‘मम पय: दोहनं कृत्वा पिब’इति तम्
आज्ञापितवती।
विग्रह: – पयस्विनी – प्रशस्तं पय: अस्याः अस्तीति।
सन्तानकामाय – सन्तानं कामयते इति सन्तानकाम:, तस्मै।
मदीयम् – मम इदम्।
पत्रपुटे – पत्राणां पुट: पत्रपुट:, तस्मिन्।
क्रिया – आदिदेश – आङ् पूर्वक दिश् उच्चारणे पर-लिट्-प्र-पु-ए-व।
आदिदेश – आदिदिशतु: – आदिदिशु:।
६६. राजा वत्सपीतावशिष्टं क्षीरं भोक्तुमैच्छत्।
वत्सस्य होमार्थविधेश्च शेष-
मृषेरनुज्ञामधिगम्य मात:।
औधस्यमिच्छामि तवोपभोक्तुं
षष्ठांशमुव्र्याःइव रक्षिताया:।।६६।।
पदच्छेद: – होमार्थविधेश्च – होमार्थविधे: + च।
शेषमृषेरनुज्ञामधिगम्य – शेषम् + ऋषे: + अनुज्ञाम् + अधिगम्य।
तवोपभोक्तुम् – तव + उपभोक्तुम्।
षष्ठांशमुव्र्याः – षष्ठांशम् +उव्र्या:।
अन्वय: अन्वयार्थ:
(हे) मात: – हे जननि
वत्सस्य शेषं – वत्सपीतावशिष्टं
होमार्थविधे: च शेषं – यागानुष्ठानावशिष्टं च
तव औधस्यं – भवत्या: दुग्धं
रक्षिताया: – पालिताया:
ऊव्र्या: – पृथिव्या:
षष्ठांशमिव – षष्ठं भागमिव
ऋषे: अनुज्ञां – मुने: अनुमतिं
अधिगम्य – प्राप्य
उपभोक्तुं – पातुं
इच्छामि – अभिलषामि।
सार: – दिलीप: धेनुमुवाच – मात:, वत्सपानावशिष्टं यागावशिष्टं च तत् तव दुग्धं पालिताया: भूमे: षष्ठांशमिव
गुरो: अनुमतिं प्राप्य भोक्तुम् इच्छामि।
विग्रह: – होमार्थविधे: – होमः एव अर्थः(प्रयोजनम्) होमार्थः।होमार्थस्य विधि: होमार्थविधि:, तस्य।
औधस्यम् – ऊधसि भवम्।
षष्ठांशम् – षष्ठ: अंश: षष्ठांश:, तम्।
अलङ्कार: – उपमा।
क्रिया – इच्छामि – इष इच्छायां धातो: पर-लट्-उ-पु-ए-व।
इच्छामि – इच्छाव: – इच्छाम:।
६७. प्रीत्या गौ: तेन सह आश्रमं प्रत्याययौ।
इत्थं क्षितीशेन वसिष्ठधेनु-
र्विज्ञापिता प्रीततरा बभूव।
तदन्विता हैमवताच्च कुक्षे:
प्रत्याययावाश्रममश्रमेण।।६७।।
पदच्छेद: – हैमवताच्च – हैमवतात् + च।
प्रत्याययावाश्रममश्रमेण – प्रत्याययौ + आश्रमम् + अश्रमेण।
अन्वय: अन्वयार्थ:
इत्थं – अनेन प्रकारेण
क्षितीशेन – भूपतिना
विज्ञापिता – निवेदिता
वसिष्ठधेनु: – नन्दिनी
प्रीततरा – अतिसन्तुष्टा
बभूव – अभवत्
तदन्विता – दिलीपेन युक्ता
हैमवतात् – हिमालयसम्बन्धिन:
कुक्षे: – कन्दरात्
अश्रमेण – अनायासेन
आश्रमं – गुरो: तपोवनं
प्रत्याययौ च – प्रत्यागता च।
सार: – एवं दिलीपेन प्रार्थिता नन्दिनी पूर्वापेक्षया अधिकतरं सन्तुष्टा बभूव। तत: सा हिमाद्रे: गुहात: प्रस्थाय
मुने: आश्रमं प्रत्यागच्छत्। दिलीपोऽपि ताम् अनुगत:।
विग्रह: – हैमवतम् – हिमवत: इदम्।
क्षितीश: – क्षिते: ईश:।
क्रिया – प्रत्याययौ –‘प्रति आङ्’ पूर्वयो: अय गतौ पर-लिट्-प्र-पु-ए-व। प्रत्याययौ – प्रत्याययतु: – प्रत्याययु:।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. सिंहः कां मुमोच? २. राजा किं सिंहाय समर्पितवान्? ३. राज्ञः उपरि केभ्यः पुष्पवृष्टिः अपतत्? ४. राजा स्वपुरःकाम् अपश्यत्? ५. नान्तकोऽपि- पदच्छेदं कुरुत। |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. धेनुः दिलीपं किम् अब्रवीत्? २. राजा धेनुं वररूपेण किं याचितवान्? ३. धेनुः राजानां किम् आज्ञापितवती? |
निर्दिष्टाभ्यासः (Assignments)
१. नन्दिनी दिलीपं कथं परीक्षितवती? २. कालिदासस्य रघुवंशमहाकाव्ये चतुर्थसर्गे वर्तमानानां प्रथमानां दशश्लोकानां आशयं लिखन्तु । |
उत्तराणि (Answer to Objective type questions)
१.गाम्। २. स्वशरीरम्। ३. विद्याधराणां हस्तेभ्यः। ४. नन्दिनीम्। ५. न अ अन्तकः अ अपि। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. कालिदास:, रघुवंशमहाकाव्यम्, सर्ग: द्वितीय:, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्, कल्पात्ति, पालक्काट्,2013। २. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस। |