Course Content
संस्कृताध्ययनविधि
0/30
Environmental Studies
English Language and Linguistics
National Movement 1
Private: BA Sanskrit
About Lesson

Unit-4

खण्डिका 16- शिष्टभागः 18।

उद्देश्यानि।(Learning Outcomes)

  • अनन्तशास्त्रिनारायणमहाशयस्य भाषाशैलीं जानाति।
  • आशयावगतिना साकं भाषानैपुणीं प्राप्नोति।
  • अर्थ: आशयं च जानाति।
  • नूतनपदावलिपरिचयः।

प्राग्व्यपेक्षाः (Prerequisites)

अयि भो: प्रियच्छात्रा:,
अस्माभि: तृतीयमेककमपि पठितम्। विश्वामित्रेण सह श्रीराम: सरयूनदीं तीत्र्वा ताटकावनं प्राप। दुष्टाया: ताटकायाःनिग्रहानन्तरं रसप्रदा: अनेके कथा: विश्वामित्रात् आकण्र्य महर्षे: तपश्चरणस्थलं प्राप। यागसमये विघ्नकरणाय आगतान् मारीचं, सुबाहुं, अनुचरान् च सानुज: राम: जघान। सर्वे श्रीरामं प्रशशंसु: पुनः विश्वामित्रस्य उपदेशानुसारं जनकराजधानीं प्राप्तःश्रीराम: सीतां परिणीतवान् । श्रीरामादीनां विवाहोत्सव: संजात:। चत्वार: राजकुमारा: चतस्र: कन्यका: परिणीतवन्त:। पुन: सबन्धुवर्गं ते अयोध्याय प्रतस्थिरे। तेषां यात्रा कथमासीत्? तान् स्वीर्कतुम् अयोध्या सन्नद्धा वा? मार्गे य: कोऽपि विघ्न: संजात: वा? एतेषां प्रश्नानां परिहाराय चतुर्थमेककम् पठाम:।

मुख्यपदानि (Key terms) 

दशरथः मिथिलां, प्रतस्थे, चतस्रः कन्यकाः, इक्ष्वाकुकुलदैवतं, वसिष्ठः, स्वपुरीम्, जामदग्न्यः, महेन्द्रपर्वतम्, स्वमन्दिरम्, पितृभक्ताय।

Discussion

गद्यम् – १६
कौशिकानुग्रहस्य फलायितं तमभ्युदयमभिनन्द्य दशरथ: सचिवै: सम्मन्त्र्य मिथिलां प्रतस्थे। समागतं दशरथं सपर्यया सम्भाव्य जनक: परमं प्रहर्षं प्रपेदे। ऊर्मिलां लक्ष्मणाय प्रदास्यामीति प्रतिजज्ञे। अनन्तरं दूतान् च सम्प्रेष्य भ्रातरं कुशध्वजं स्वपुरमानयत्, यस्यापि विवाहार्हं कन्यारत्नद्वयं माण्डवीश्रुतकीर्तिनामधेयमवर्तत। तत: सर्वत: प्रवृत्ते विवाहोचिते महोत्सवे इक्ष्वाकुकुलदैवतं भगवान् वसिष्ठो वंशावलीं कीर्तयन् कन्या: चतुर्थेभ्य: राजकुमारेभ्य: वरयामास। मुनिसंसदि ज्वलितेऽग्ने: समक्षं समं मन्त्रोदकैरानन्दाश्रूणि सिञ्चन् महीपतिरात्मनो भ्रातुश्च ताश्चतस्र: कन्यका: चतुभ्र्यो राजनन्दनेभ्य: सप्रमोदं प्रतिपादयामास। ते च राजनन्दना: वसिष्ठानुमत्या ता: प्रतिजगृहिरे। राम: सीतां, लक्ष्मण: ऊर्मिलां, भरतो माण्डवीं, शत्रुघ्न: श्रुतकीर्तिं चात्मनोऽनुरूपां वधुं प्राप्य सुतरां विरराज। विधिवन्निर्वतितविवाहै: कुमारै: समन्वितो राजा दशरथं सबान्धवं जनकमापृच्छ्य स्वपुरीं प्रतस्थे।
व्याख्या
कौशिक इति – कौशिकानुग्रहस्य विश्वामित्रानुग्रहस्य फलायितं फलरूपेण संप्राप्तं तामभ्युदयम् सीतासम्बन्धमभ्युदयम् अभिनन्द्य अभिवादनं कृत्वा दशरथ: सचिवै: मन्त्रिभि: सम्मन्त्र्य आलोच्य मिथिलां प्रतस्थे यात्रां कृतवान्। समागतं सम्प्राप्तं दशरथं जनक: सपर्यया पूजया सम्भाव्य स्वीकृत्य परमं नितरां प्रहर्षं सन्तोषं प्रपेदे प्राप। सपर्यया – आ-स्त्री-तृ-ए-व। सपर्यया – सपर्याभ्याम् – सपर्याभि:। ऊर्मिलां ऊर्मिलां नामिकां कन्यकां लक्ष्मणाय प्रदास्यामीति भार्यात्वेन दास्यामीति प्रतिजज्ञे प्रतिज्ञां चकार। ऊर्मिलाम् – आ-स्त्री-द्वि-ए-व। ऊर्मिलाम् – ऊर्मिले – ऊर्मिला:। अनन्तरं पुन: च दूतान् सम्प्रेष्य सम्प्रेर्य भ्रातरं सोदरं कुशध्वजं कुशध्वजनामानं स्वपुरीं स्वनगरीं जनकपुरीं आनयत् आनिनाय। तस्यापि तस्य कुशध्वजस्यापि विवाहार्थं विवाहाय योग्यं कन्यारत्नद्वयं गुणोपेतं कन्यकाद्वयं माणडवीश्रुतकीर्तिनामधेयं माण्डवीं श्रुतकीर्तीं इति नामयुक्तां अवर्तत आसीत्। (कुशध्वजस्य द्वे पुत्र्यौ माण्डवी श्रुतकीर्ति च। उभेऽपि विवाहाय योग्ये स्त: इत्याशय:।) दूतान् – अ-पु-द्वि-ब-व। दूतं – दूतौ – दूतान्। तत: अनन्तरं सर्वत: प्रवृत्ते विवाहोचिते महोत्सवे विवाहोत्सवाय सर्वे यदा सन्नद्धा: तदा इक्ष्वाकुकुलदैवतं भगवान् वसिष्ठ: इक्ष्वाकुकुलस्य पुरोहित: वसिष्ठमहर्षि: वंशावलीं वर्धयन् कन्या: स्ववंशाभिवर्धनहेतुभूता: कन्यका: चतुभ्र्य: राजकुमारेभ्य: श्रीरामलक्ष्मणभरतशत्रुघ्नेभ्य: वरयामास ववृणे। मुनिसंसदि मुनियुक्तायां सभायां, ज्वलितेऽग्ने: समक्षं अग्निसाक्षिकत्वेन, मन्त्रोदकै: समं मन्त्रोच्चारणपूर्वकार्चनै: सह, आनन्दाश्रूणि मुञ्चन् सन्तोषातिरेकेण अश्रूणि मोचयन् महीपति: राजा जनक: आत्मन: भ्रातु: च स्वस्य सोदरस्य च ता: चतस्र: कन्यका: ता: चतस्र: सीता-ऊर्मिला-माण्डवी-श्रुतकीत्र्या: कन्यका: चतुभ्र्यो राजनन्दनेभ्य: चतुसंख्याकेभ्य: राजकुमारेभ्य: सप्रमोदं ससन्तोषं प्रतिपादयामास अर्पयामास। मुनिसंसदि – द-स्त्री-स-ए-व। मुनिसंसदि – मुनिसंसद्यो: – मुनिसंसत्सु। मुनियुक्ता संसद् मुनिसंसद्, तस्यां मुनिसंसदि। ते राजनन्दना: राजकुमारा:, वसिष्ठानुमत्या वसिष्ठादेशेन, ता: कन्यका:, प्रतिजगृहिरे स्वीचक्रु:। ते – द-पु-प्र-ब-व। स: – तौ – ते। राम: सीतां लक्ष्मण: ऊर्मिलां भरत: माणडवीं शत्रुघ्न: श्रुतकीर्तिं च आत्मन: स्वस्य, अनुरक्तां अनुयोज्यां, वधूं भार्यां, प्राप्य स्वीकृत्य, सुतरां नितरां विरराज शुशुभे। विधिवत् यथाविधि निर्वर्तितविवाहै: कृतपरिणयै: कुमारै: नन्दनै: समन्वित: सहित: राजा भूपति: सबान्धवं बन्धुजनसहितं जनकं जनकमहाराजम् आपृच्छ्य यात्रानुमतिं स्वीकृत्य स्वपुरीम् अयोध्यां प्रतस्थे प्रस्थितवान्।
गद्यम् – १७
स्वगुरोरीश्वरस्य धनु: रामेण भग्नमिति जातकोपो जामदग्न्यो राम: पावक इव ज्वलन्मध्येमार्गमाजगाम। त्रि:सप्तकृत्वो मेदिनीं नि:क्षत्रियां कृतवतस्तस्य दर्शनमात्रेण दशरथस्य हृदयं चकम्पे। मधुराणि सामवचनानि वदतो मुनीनगणयन् जामदग्न्यो राघवमुपगम्य मया समानीतेऽस्मिन् धनुषि ते विक्रम: प्रकाशयताम् इति भाषमाणो वैष्णवं धनूरत्नमर्पयामास। राघवो लीलया तद्गृहीत्वा तस्मिन्नमोघं शरं सन्दधे। चिरं स्वतपसार्जितेषु लोकेषु शरप्रभावेण संहृतेषु भग्नदर्पो जामदग्न्य: पुनरपि तपसे महेन्द्रपर्वतं प्रययौ।
व्याख्या – स्वगुरोरिति।
स्वगुरो: परशुरामस्य गुरो: शिवस्य धनु: रामेण भग्नं इति जातकोप: संजातकोप: जामदग्न्य: जमदग्निपुत्र: राम: परशुराम: पावक अग्निरिव ज्वलन् मध्यमार्गं मार्गमध्ये आजगाम आगच्छत्। धनु: अरामेण – धनूरामेण। धनु: – ष-नपुं-प्र-ए-व। धनु: – धनुषी – धनूंषि। त्रि:सप्तकृत्व: एकविंशतिवारं मेदिनीं वसुधां नि:क्षत्रियां क्षत्रियशून्यां (क्षत्रियान् एकविंशतिवारं नाशितवान्) कृतवन्त: तस्य कुर्वत: अस्य परशुरामस्य दर्शनमात्रेण पश्यन्नेव दशरथस्य हृदयं चित्तं चकम्पे कम्पितवान्। नि:क्षत्रियां निर्गता: क्षत्रिया: याभ्य: सा नि:क्षत्रिया तां नि:क्षत्रियाम्। मधुराणि सामवचनानि सान्त्वनवचनानि वदत: उक्तवत: मुनीन् ऋषीन् अगणयन् विगणयन् जामदग्न्य: परशुराम: राघवं श्रीरामम्, उपेत्य समीप्य एवम् अभाषत। ‘मया, समानीते, अस्मिन् धनुषि ते विक्रम: प्रकाशयतां’इति भाषमाण: वदन् वैष्णवं विष्णुसम्बन्धि धनूरत्नं विशिष्टं धनुम् अर्पयामास समर्पितवान्। वदत: – त-पु-द्वि-ब-व। वदन्तं – वदन्तौ – वदत:। समानीते अअस्मिन् – समानीतेऽस्मिन्। राघव: श्रीराम: लीलया तद्गृहीत्वा तद्धनुम् आदाय तस्मिन् धनुषि अमोघं शरं सफलं बाणं सन्दधे प्रयुक्तवान्। तस्मिन् अअमोघम् – तस्मिन्नमोघम्। न मोघम् अमोघम्। चिरं बहुकालं स्वतपसार्जितेषु स्वतपसा सम्पादितेषु लोकेषु भुवनेषु (बहुकालं तपश्चरणेन परशुराम: भुवनत्रयमपि स्वायत्तीकृतवान्) शरप्रभावेण श्रीरामप्रेषितेन शरशक्त्या संहृतेषु विनष्टेषु, भग्नदर्प: विनष्टाहङ्कार: जामदग्न्य: परशुराम:, पुनरपि मुहुरपि, तपसे तपश्चरणाय, महेन्द्रपर्वतं महेन्द्रगिरिं, प्रययौ जगाम। संहृतेषु – अ-पु-स-ब-व।
गद्यम् – १८
गते जामदग्न्ये प्रमुदितो दशरथ: सहानुयायिभि: लङ्घिताध्वा सुरेन्द्रसदनमिव विराजमानं स्वमन्दिरं सम्प्राप। ते च महात्मनो राजसूनव: कृतदारकर्मण: परमया भक्त्या पितरं शुश्रूषमाणा: तस्य महतीं प्रीतिमुत्पादयामासु:। राजमहिष्य: सर्वा अपि गुणगरीयसी: स्नुषा: प्रतिपद्य नितरां जहृषु:। रामोऽपि तया सर्वगुणसम्पन्नया सीतया समेयिवान् श्रियेव श्रीपति: सुतरां विरेजे। तयोश्च तादृशं प्रेम संजज्ञे, यथा हृदयं हृदयेन व्यक्तमाचख्ये। भ्रातरश्च रामे दृढानुरक्ता मातृभिरुपलाल्यमाना आनन्दस्य परां सीमामभ्यगच्छन्।

                                           पितृभक्ताय सततं भ्रातृभि: सह सीतया।
                                           नन्दिताखिललोकाय रामभद्राय मङ्गलम्।।
व्याख्या
गत इति – जामदग्न्ये गते यदा परशुराम: अगच्छत् तदा प्रमुदितो सन्तुष्ट: दशरथ: अनुयायिभि: अनुचरै: सह साकं लङ्घिताध्वा मार्गम् उल्लङ्घ्य सुरेन्द्रसदनं देवेन्द्रभवनम् इव विराजमान प्रशोभमानं स्वमन्दिरं अयोध्याया: मन्दिरं सम्प्राप। ते महात्मन: राजसूनव: राजकुमारा: कृतदारकर्मण: भार्यात्वेन स्वीकृतवन्त: परमया भक्त्या नितरातिशयभक्त्या पितरं दशरथं शुश्रूषमाणा: सेव्यमाना: तस्य दशरथस्य महतीं प्रीतिम् अत्यधिकां प्रीतिम् उत्पादयामासु: जनयामासु:। राज्ञ: सूनव: राजसूनव:। सर्वा: अपि राजमहिष्य: राज्ञ: भार्या: गुणगरीयसी: गुणश्रेष्ठा स्नुषा: पुत्रभार्या: प्रतिपद्य प्राप्य नितराम् अत्यधिकं जहृषु: सन्तोषयामासु:। गुणगरीयसी: – अतिशयेन गुर्वी गरीयसी, ता: गरीयसी:। गुणै: गरीयसी: गुणगरीयसी:। गुणगरीयसी: – ई-स्त्री-द्वि-ब-व। रामोऽपि तया सर्वगुणसम्पन्नया सर्वगुणोपेतया सीतया समेयिवान् संवर्धितवान् श्रिया लक्ष्म्या श्रीपति: विष्णु: सुतरां नितरां विरेजे शुशुभे। सर्वगुणसम्पन्नया – सर्वै: गुणै: सम्पन्ना सर्वगुणसम्पन्ना, तया सर्वगुणसम्पन्नया। तयोश्च दम्पत्यो: तयो: तादृशं प्रेम तादृशी प्रियता संजज्ञे अजायत। हृदयं चित्तं हृदयेन चित्तेन व्यक्तं सुस्पष्टम् आचरव्ये अभाषत यथा इव। प्रेम – न-पु-प्र-ए-व। भ्रातरश्च सोदराश्च रामे दृढानुरक्ता: श्रीरामे नितरां भक्तिमन्त: मातृभि: जननीभि: उपलाल्यमाना: लाल्यमाना: आनन्दस्य सन्तोषस्य पराम् अधिकां सीमाम् अवस्थाम् अभ्यगच्छन्् प्राप्तवन्त:।
भ्रातृभि: सोदरै: सीतया जानक्या च पितृभक्ताय पितृभक्तिमते नन्दिताखिललोकाय सर्वजनान् सन्तोषयते रामभद्राय रामचन्द्राय सततं सदा मङ्गलं मङ्गलमस्तु।
भ्रातृभि: – ऋ-पु-तृ-बव।

 

पुनरावृत्तिः (Recap)

  • मिथिलात: अयोध्यां गमनसमये मध्येमार्गं परशुराम: सगर्वमागतवान्।
  • परशुरामस्य गुरो: धनुभञ्जनेन कुपित: स: वैष्णवं चापं रामाय प्रदश्र्य ‘तव पराक्रम: अस्मिन् प्रकटयतु’इत्यवदत्।
  • श्रीराम: अनायासेन तस्मिन् अमोघं शरं सन्दधे।
  • नष्टगर्व: परशुराम: तपसे महेन्द्रगिरिमगच्छत्।
  • अयोध्यां प्राप्ता: राजकुमारा: तेषां भार्या: च पितरं मातॄ: च निरतिशयभक्त्या सेवयामासु:। सर्वे सन्तुष्टा: संजाता:।
  • लक्ष्म्या विष्णुुरिव सीतया श्रीराम: शुशुभे।
  • हृदयं हृदयेन भाषणमिव तौ दम्पती अवर्तेताम्।
  • सर्वे सोदरा: सोदरपत्न्यश्च सामोदं कालमनयन्।
  • सततं प्रजातत्पराय भ्रातृभि: सीतया च वर्तमानाय श्रीरामाय मङ्गलानि भवन्तु।

वस्तुनिष्ठप्रश्नाः (Objective type questions)

१. के परशुरामस्य पुरत: मधुराणि वाक्यानि अवदन्?
२. तद् गृहीत्वा तस्मिन्नमोघं शरं सन्दधे – क:?
३. कतिवारं परशुराम: क्षत्रियान् नाशितवान्?
४. इक्ष्वाकुकुलपुरोहित: क:?
५. अयोध्याया: राजमन्दिरं कीदृशमासीत्?.
६.परशुरामस्य गुरुः कः?

एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)

१. सचिवैः सम्मन्त्र्य दशरथः किमकरोत्?
२. दशरथं दृष्ट्वा जनक: किमकरोत्?
३. श्रीरामादीनां विवाहं वर्णयत।
४. कुशध्वजस्य पुत्र्यौ के?
५. ‘ता: चतस्र: कन्यका: राजकुमारेभ्य: वरयामास।’ ता: कन्यका: का:?
६. श्रीरामस्य धनुरारोपणं कीदृशमासीत्?
७. केन कारणेन परशुराम: जातकोप: बभूव?
८. परशुराम: राघवं किमुवाच?
९. कदा परशुरामस्य अहङ्कार: विनष्टोऽभवत्?
१॰. दशरथस्य महिष्य: कीदृशी: स्नुषा: प्राप्ता:?
११. आनन्दस्य परां सीमामभ्यगच्छन् – के?
१२. राजसूनव: कस्मिन् निरतिशयं भकिं्त प्रकटयामासु:?

एकैकया खण्डिकया उत्तराणि लिखत।(Answer the question in a paragraph)

१. सीतारामयो: विवाहवृत्तान्तम्।
२. श्रीरामलक्ष्मणादीनां विवाहः।
३. परशुरामस्य गर्वभङ्ग:।

निर्दिष्टाभ्यासः (Assignments)

१. बालकाण्डस्य कथासारं स्ववाक्यै: लिखत।
२. दशरथस्य राजधान्यां विश्वामित्रस्य गमनप्रसक्ति:।
३. बालरामायणस्य अयोध्याकाण्डं पठन्तु।

निर्देशानुसारम् उत्तरं लिखत।

  1. अर्थं लिखत।
    . सपर्यया।
  2. धातुपदलकारपुरुषवचनानि लिखत।
    १.विरराज।

    २. जहृषु:।
    ३. प्रययौ।
    ४. चकम्पे।
    ५. आचरव्ये।
    ६. सम्प्राप।
  3.  विग्रहं लिखत।
    १. कौशिक:

    २. राजनन्दना:।
    ३. नि:क्षत्रियाम्।
    ४. अमोघम्।
    ५. शुश्रूषा।
    ६. वैष्णवम्।
    ७. भग्नदर्प:।
  4.  वाक्ये योजयत।
    १. यदा – तदा।

    २. सह।
    ३. नितराम्।
    ४. चिरम्।
    ५. सततम्।
  5.  व्याकरणकार्यं लिखत।
    १. प्रतस्थे।

    २. मन्त्रोदकै: समम्।
  6.  अन्तलिङ्गविभक्तिवचनानि लिखत।
    १. वदत:।

    २. प्रेम।
    ३. मातृभि:।
    ४. लीलया।
    ५. महतीम्।
  7. आशयं विशदयत।
    १. श्रियेव श्रीपति: नितरां विरेजे।

    २. यथा हृदयं हृदयेन व्यक्तमाचरव्ये।
  8.  पदच्छेदं कुरुत।
    १. धनू रामेण।

    २. समानीतेऽस्मिन्।
    ३. रामोऽपि।
    ४. तयोश्च।

उत्तराणि (Answer to Objective type questions)

१. मुनय:।
२. श्रीराम:।
३. एकविंशति: वारम्।
४. वसिष्ठ:
५. सुरेन्द्रभवनमिव
६. शिवः

अधिकवाचनाय ग्रन्थाः (suggested Readings)

१. पी.एस्. अनन्तनारायणशास्त्री, बालरामायणम्, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्. एस्. वाध्यार्       आन्ट् सन्स्, कल्पात्ति।
२. पि.एस्. अनन्तनारायणशास्त्रि, बालरामायणम्, व्यख्या पि.जि.अजित् प्रसाद्, अनामिका                      पब्लिक्केषन्स्, एलुकोण्, 2008.
३. डा. पूवट्टूर् रामतृष्णपिल्ल, केरलसंस्कृतविज्ञाननिघण्डु, केरलभाषा इन्स्टिट्यूट्, अनन्तपुरी, 2096      पुटं 30-31