Course Content
संस्कृताध्ययनविधि
0/30
Environmental Studies
English Language and Linguistics
National Movement 1
Private: BA Sanskrit
About Lesson

Unit-4

तृतीय- चतुर्थ – पञ्चमखण्डेषु पाठ्यांशगताः व्याकरणविशेषाः।

उद्देश्यानि।(Learning Outcomes)

  • पाठभागे वर्तमानानं पदानां व्याकरणविशेषज्ञानम्।
  • व्याकरणसविशेषतां गृह्णाति।
  • व्याकरणविशेषताग्रहणम्।
  • भाषाप्रयोगे साधुतामार्जयति।

प्राग्व्यपेक्षा: (Prerequisites)

साधुशब्दज्ञाने धर्मः असाधुशब्दप्रयोगे अधर्मः च जायते इति महाभाष्ये अचार्येण पतञ्चलिना सूचितमेव। एकोऽपि शब्दः सुष्ठु ज्ञात्वा सम्यक् प्रयुज्यते चेत् सः कामधुक् भवति इति सूचना वर्तते।अतः साधुशब्दानां ज्ञानाय व्याकरणविशेषाः ज्ञातव्याः। प्रयोगे एव ज्ञानं धर्मश्च इत्ययःसाध्वी भाषा प्रयोक्तव्या। साधारणतया वर्तमाननियमात् ईषत् व्यतिरिक्तः शब्दः कदाचित् प्रयोगे दृश्यते। तेषां साधुत्वं कल्पितव्यम्। तादृश एव व्याकरणविशेषःइत्युच्यते।कतिपयानां तादृशानां प्रयोगः अत्र प्रदश्र्यते।

मुख्यपदानि (Key terms) 

प्रचक्रमे, महिष्या समम्, प्रतस्थे, नरपति:, तस्मै अदात्।

Discussion

तृतीयखण्डस्य रघुवंशमहाकाव्यस्य व्याकरणविशेषाः।
प्रचक्रम           –     क्रमधातुः परस्मैपदी भवति। किन्तु पूर्वकस्य क्रम् धातोः“प्रोपाभ्यां समर्थाभ्याम्”

                              इति सूत्रेण आत्मनेपदित्वं सिद्ध्यति।
महिष्या समम्  –     अत्र सह इत्यव्ययस्य योगात् “सहयुक्तेऽप्रधाने”इति सूत्रेण महिषी इति

                              अप्रधानकारके तृतीयाविभक्ति: स्यात्। सह,समं, साकं, सार्धं इत्येतानि

                              अव्ययानि समानार्थकानि (सह इत्यर्थकानि) भवन्ति। एषां सर्वेषामपि योगे

                               अप्रधानकारकस्य तृतीया विभक्तिः स्यात्।
अवतस्थे        –        स्थाधातुः परस्मैपदी भवति। किन्तु अत्रअस्यधातोः , अव इत्युपसर्गपूर्वत्वात्

                              “समवप्रविभ्यःस्थः”इति सूत्रेण आत्मनेपदित्वम्। सम्, अव, प्र, वि-एभ्य

                              उपसर्गेभ्यः परस्य स्थाधातोः आत्मनेपदित्वं स्यात्।
हरये उपानयत्  –    उपानयत् इत्यस्य प्रददौ इत्यर्थः। “कर्मणा यमभिप्रैति स सम्प्रदानम्”इति सूत्रेण

                            दानस्य कर्मणा अभिप्रेतस्य कारकस्य सम्प्रदानसंज्ञा अस्ति। सम्प्रदानसंज्ञकस्य च

                              “चतुर्थी सम्प्रदाने”इति सूत्रेण चतुर्थी विभक्तिः।
चतुर्थखण्डस्य रघुवंशमहाकाव्यस्यव्याकरणविशेषाः।
गुरवे निवेद्य       –   गुरवे निवेद्यइत्यस्यार्थः‘स्वान्तर्गतं गुरवे समप्र्य (दत्वा)’इति। ततः“कर्मणा

                              यमभिप्रैति स सम्प्रदानम्”इति सूत्रेण दानस्य कर्मणा अभिप्रेतस्य गुरुशब्दस्य

                              सम्प्रदानसंज्ञा, “चतुर्थी सम्प्रदाने” इति सूत्रेण चतुर्थी विभक्तिश्च।
प्रतस्थे              –     स्थाधातुः परस्मैपदी। किन्तु अत्र अस्य धातोःप्रइत्युपसर्गपूर्वत्वात्

                              “समवप्रविभ्यःस्थः”इति सूत्रेण आत्मनेपदित्वम्। सम्, अव, प्र, वि-एभ्य

                                उपसर्गेभ्यः परः स्थाधातुः आत्मनेपदी स्यात्।
तृप्त्यै अलम्     –      अत्र पर्याप्त्यर्थकस्य अलम् इत्यव्ययस्य योगे “नमःस्वस्तिस्वाहास्वधाऽलं

                              वषड्योगाच्च”इति सूत्रेण ‘तृप्त्यै’इति चतुर्थी। पर्याप्तमित्यर्थे प्रयुज्यमानस्य

                              अलम् इत्यव्ययस्य योगेचतुर्थीविभक्तिः स्यादिति सूत्रार्थः।

तपोवनवृत्तिपथम्  – पथिशब्दःइकारान्तः। किन्तु समस्तपदानामन्ते प्रयुज्यमानस्य तस्य “ऋक्पूरब्धूः

                                पथामानक्षे”ेइति सूत्रेण ‘अ’इति प्रत्यये अन्तादेशे अकारान्तत्वं सिद्ध्यति।
भूपति:                –    पतिशब्दःइकारान्तोऽपि तस्य रूपाणि तृतीयाद्येकवचनेषु हरिशब्दाद् भिन्नानि

                               भवन्ति।ततोऽपि समासे तस्य “पतिः समास एव”इति सूत्रेण घिसंज्ञा लभ्यते।

                                ततश्च समासे एवपतिशब्दस्य रूपाणि हरिशब्दवद् भवन्ति।
वृष्ट्या विना         –  “पृथग्विनानानाभिस्तृतीयान्यतरस्याम्”इति सूत्रेण विनाशब्दः द्वितीयया, तृतीयया,

                                 पञ्चम्या वा सह प्रयुज्यते। अत्र तृतीयया सह प्रयुक्तः।
व्याकरणविशेषाः।(बालरामायणम्।)
सुमित्रायै ददौ       –    “कर्मणा यमभिप्रैति स संप्रदानम्”इति सूत्रेण अत्र दानस्य कर्मणा अभिप्रेतस्य

                                   सुमित्राशब्दस्य संप्रादानसंज्ञा, “चतुर्थी संप्रदाने”े इति सूत्रेण चतुर्थी विभक्तिश्च।
नरपति                  –     भूपतिशब्दवदेव ।
तस्मै अदात्            –      सुमित्रायै ददौ इतिवदेव।
यज्ञे समाप्ते सति      –     यदा तदा इत्यव्यययोः स्थाने सति सप्तमीप्रयेगः। ‘यदा यज्ञः समाप्तः तदा’इत्यर्थः।

                                 अत्र “यस्य च भावेन भावलक्षणम् “इति सूत्रेण सप्तमीविभक्तिः ।
मिथिलाधिपते:       –   “पतिः समास एव” इति सूत्रेण पतिशब्दस्य समासे घिसंज्ञायां, हरिशब्दस्येव

                                 रूपाणि।समासराहित्ये तु ‘पत्युः’इत्येव रूपं स्यात्।
पश्यतां नृसहस्राणां समक्षम् –  अत्र “षष्ठी चानादरे”े इति सूत्रेण पश्यत् शब्दस्य नृसहस्रशब्दस्य च षष्ठी

                                    विभक्तिः। पश्यन्ति नृसहस्राणि अनादृत्य, तेषां समक्षं इत्यर्थः।
प्रतस्थे                 –    उपरि द्रष्टव्यम्।
मन्त्रोदकै: समम्      –   उपरि, महिष्या समम् इत्यत्र द्रष्टव्यम्।
प्रयोगविपरिणामं कुरुत
१. संस्कृतभाषायां कर्तरि, कर्मणि, भावे चेति त्रिप्रकारकाः वाक्यप्रयोगाः सन्ति।
२. कर्तरिप्रयोगे कर्तानुसारेण क्रियापदानि प्रयुज्यन्ते। कर्मणि प्रयोगे कर्मानुसारेण क्रियापदानि प्रयुज्यन्ते।
भावप्रयोगे भावानुसारेण च क्रियापदानि प्रयुज्यन्ते इति ज्ञेयम्।
३. कर्तरिप्रयोगे कर्तृपदं प्रथमाविभक्तौ, कर्म द्वितीयाविभक्तौ च प्रयुज्येते। क्रियापदन्तु कत्र्रानुसारेण- कर्तृपदस्य
पुरुषवचनानुसारेण, लिङ्गवचनानुसारेण वा प्रयोक्तव्यम्।
४. कर्मणिप्रयोगे कर्मपदं प्रथमाविभक्तौ, कर्तृपदं तृतीयाविभक्तौ च प्रयुज्येते। क्रियापदन्तु कर्मानुसारेण- कर्मणः
पुरुषवचनानुसारेण, लिङ्गवचनानुसारेण वा प्रयोक्तव्यम्।
५. क्रियापदानि अकर्मकाणि चेत् भावस्य प्राधान्यं दत्वा भावप्रयोगः क्रियते।
६. कर्तरिप्रयोगे क्रियापदं परस्मैपदी वा आत्मनेपदी वा भवितुमर्हति।
७. कर्मणिप्रयोगे भावप्रयोगे च क्रियापदं आत्मनेपदी एव स्यात्।
८. कर्तरिप्रयोगे क्रियापदं क्तवतुप्रत्ययेन उच्यते चेत्, कर्मणि भावे च क्रिया क्तप्रत्ययान्ततयैव स्यात्।
उदाहरणानि
१. बालः पाठं पठति(कर्तरि) – बालेन पाठः पठ्यते (कर्मणि)
२. पुत्रेण माता दृश्यते (कर्मणि)- पुत्रः मातरं पश्यति(कर्तरि)
३. बालिका गच्छति (कर्तरि) – बालिकया गम्यते (भावे)
४. अयेद्यानगरी मनुना निर्मिता (कर्मणि) – अयोद्यानगरीं मनुः निर्मितवान् (कर्तरि)
५. शिष्यः गुरुं वन्दते (कर्तरि) – शिष्येण गुरुः वन्द्यते (कर्मणि)
६. बालिका पाठं पठति (कर्तरि) – बालिकया पाठः पठ्यते (कर्मणि)
७. दशरथः अतिथिं समपूजयत् (कर्तरि) – दशरथेऩ अतिथिः समपूज्यत (कर्मणि)
८. अहं त्वां पश्यामि (कर्तरि) – मया त्वं दृश्यसे (कर्मणि)
९. त्वं मां पश्यसि (कर्तरि) – त्वया अहं दृश्ये (कर्मणि)
१॰. राज्ञा सचिवाः आदिष्टाः (कर्मणि) – राजा सचिवान् आदिष्टवान् (कर्तरि)
११. जनकेन दूताः प्रेषिताः (कर्मणि) – जनकः दूतान् प्रेषितवान् (कर्तरि)
(अत्र कर्मणिप्रयोगे जनकेन इति तृतिया एकवचनम्, दूताःइति प्रथमा बहुवचनम्, प्रेषिताःइति क्वप्रत्ययान्तं
पदंच। कर्तरि तु जनकःइति प्रथमा एकवचनम्, दूतान् इति द्वितीया बहुवचनम्, प्रेषितवान् इति
क्तवतुप्रत्ययान्तं पदं च

 पुनरावृत्तिः (Recap)

  • ‘प्र’इत्युपसर्गपूर्वस्य क्रमु धातोः आत्मनेपदम्।
  • सहार्थकानां अव्ययानां योगे तृतीया विभक्तिः।
  • दानस्य कर्मणा अभिप्रेतस्य कारकस्य सम्प्रदानसंज्ञा चतुर्थीविभक्तिश्च।
  • सह, साकं, समं, सार्धं इत्येतानि पदानि समानकानि, एषां योगे अप्रधानकारकस्य तृतीयाविभक्तिः।
  • मन्त्रोदकैः समं इत्यत्र समं इति पदस्य सह इत्येवार्थः।
  • संस्कृतभाषायां कर्तरि, कर्मणि, भावे च वाक्यानि प्रयुज्यते।

वस्तुनिष्ठप्रश्नाः (Objective type questions)

१. निवेद्य इति किमन्तं पदनम्?
२. संस्कृते कति प्रकारकाः वाक्यप्रयोगाः सन्ति?
३. कर्तरिप्रयोगे कर्तृपदं कस्यां विभक्तौ प्रयुज्यते?
४. कर्मणिप्रयेगे कर्म कस्यां विभक्तौ स्यात्?
५. कर्मणिप्रयोगे क्रियापदस्य नियामकं पदं किम्?
६. समं इति पदस्य योगे का विभक्तिः प्रयोक्तव्या?
७. पर्याप्त्यर्थकस्य अलंशब्दस्य प्रयोगे का विभक्तिः प्रयोक्तव्या?

एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)

१. जनकेन दूताः प्रेषिताः – प्रयोगविपरिणमयत।?
२. सुमित्रायै ददौ – वाक्येऽस्मिन् व्याकरणविशेषं लिखत।?
३. यज्ञे समाप्ते सति – वाक्यमिदं यदा- तदा प्रयोगेण परिवर्तयत।?

निर्दिष्टाभ्यासः (Assignment)

१. ददौ, समं, विना, अलम्, भूपतिःइत्यादिषु वर्तमानं व्याकरणविशेषं लिखन्तु।
२. यथेच्छं कर्तरिप्रयोगे पञ्च वाक्यानि विलिख्य, तेषां कर्मणिप्रयोगे परिवर्तनं च कुर्वन्तु।

उत्तराणि (Answer to Objective type questions)

१. ल्यबन्तम् ।
२. त्रिप्रकारकाः।
३. प्रथमाविभक्तौ
४. प्रथमाविभक्तौ।
५. कर्मा।
६. तृतीया।
७. चतुर्था।

अधिकवाचनाय ग्रन्थाः (suggested Readings)

१. अमरसिंह: अमरकोशम् व्याख्याता – टि.वि माधववारियर् , काणिप्प्यूर् पञ्चाङ्गं पुस्तकशाला,                 कुन्नंकुलम् 2012, पुटं 66 – 691.
२. अमरसिंह:, अमरकोशम्, व्याखाता वाचस्पति: टि.सी.परमेश्वरन् मूसद्, नाषणल् बुक् स्टाल्,कोट्टयम्,    1983, पुटानि 278-284.
३. कालिदास:, रघुवंशमहाकाव्यम्, सर्ग: दिवुतीय:, व्याख्या पि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार्         आन्ड् सन्स्, कल्पात्ति, पासक्काट्, 2013।
४. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्।
५. वरदराज:, लघुसिद्धान्तकौमुदी,व्याख्याता,गोमतीप्रसादशास्त्री मिश्र:, चौखम्बा सुरभारतीप्रकाशन्,        वाराणसी, 2011, पुटानि 11-21.
६. वरदराज: लघुसिद्धान्तकौमुदी व्याख्याता गिरीशकुमारठाक्कुर:, कृष्णदास् अक्कादमी,                      वाराणसी, 1998,पुटानि 9-17
७. भट्टोजिदीक्षित: वैयाकरणसिद्धान्तकौमुदी चौखम्बा अमरभारतीप्रकाशन्, वाराणसी, 1997,                 पुटानि  8-  23