Unit-4
68-75 श्लोकाः
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षा: (Prerequisites)
कालिदासस्य रघुवंशे द्वितीयसर्गे नन्दिनीसेवां कविः वर्णयति। राज्ञः दिलीपस्य भक्तौ संतुष्टा नन्दिनी इष्टं वरं प्रार्थयितुं राजानमुपदिदेश। स्वभार्यायां सुदक्षिणायां ‘कुलवर्धकं पुत्रं वाञ्चामि’इत्युत्तरमवदत्। पुत्रप्राप्तिरूपं फलं प्राप्तुं नन्दिनी तमनुगृहीतवती। |
मुख्यपदानि (Key terms)
गुरवे, पपौ, प्रयुज्य,भर्तुः, सहिष्णुः, कर्शिताङ्गः, पौरैः, द्यौः।
Discussion
६८. राजा गुरवे प्रियायै च धेनो: प्रसादं न्यवेदयत्।
तस्या: प्रसन्नेन्दुमुख:प्रसादं
गुरुर्नृपाणां गुरवे निवेद्य।
प्रहर्षचिह्नानुमितं प्रियायै
शशंस वाचा पुनरुक्तयेव।।६८।।
पदच्छेद: – गुरुर्नृपाणाम् – गुरु: + नृपाणाम्।
पुनरुक्तयेव – पुन: + उक्तया + इव
अन्वय: अन्वयार्थ:
प्रसन्नेन्दुमुख: – प्रसन्नवदन:
नृपाणां गुरु: – भूपालानां चक्रवर्ती दिलीप:
प्रहर्षचिह्नानुमितं – मुखरागादिलक्षणै: ऊहितं
तस्या: – धेनो:
प्रसादं – अनुग्रहं
पुन: – भूय:
उक्तया इव – कथिता इव
वाचा – वाण्या
गुरवे – वसिष्ठाय
निवेद्य – विज्ञाप्य
(पश्चात्) प्रियायै – पुनःसुदक्षिणायै
शशंस – अकथयत्।
सार: – दिलीप: यदा वसिष्ठसमीपम् आगत: तदा धेनो: मुखप्रसादात् वर: लब्ध: इति ज्ञातवान्। राजा गुरवे
तदनुग्रहकार्यं विज्ञाप्य सुदक्षिणायै पुन: कथितवान्।
विग्रह:- प्रसन्नेन्दुमुख: – प्रसन्नःइन्दुरिव मुखं यस्य स:।
क्रिया – शशंस – शंस् स्तुतौ पर-लिट्-प्र-पु-ए-व।
शशंस – शशंसतु: – शशंसु:।
व्याकरणविशेष: – गुरवे निवेद्य – अव नि पूर्वकस्य विध् धातो: प्रयोगे गुरुशब्दस्य चतुर्थी स्यात्।
अलङ्कार: – उत्प्रेक्षा।
६९. वसिष्ठेन कृताभ्यनुज्ञो राजा नन्दिनीस्तन्यं पपौ।
स नन्दिनीस्तन्यमनिन्दितात्मा
सद्वत्सलो वत्सहुतावशेषम्।
पपौ वसिष्ठेन कृताभ्यनुज्ञ:
शुभ्रं यशो मूर्तमिवातितृष्ण:।।६९।।
पदच्छेद: – नन्दिनीस्तन्यमनिन्दितात्मा – नन्दिनीस्तन्यम् + अनिन्दितात्मा।
मूर्तिमिवातितृष्ण: – मूर्तिम् अइव + अतितृष्ण:।
अन्वय: अन्वयार्थ:
अनिन्दितात्मा – अगर्हितस्वभाव:
सद्वत्सल: – सज्जनप्रिय:
वसिष्ठेन – गुरुणा
कृताभ्यनुज्ञ: – विहितानुमत:
स: – दिलीप:
वत्सहुतावशेषं – वत्सपानहवनावशिष्टं
नन्दिनीस्तन्यं – धेनुक्षीरं
शुभ्रं – धवलं
मूर्तं – मूर्तिमत्
यश: इव – कीर्तिरिव
अतितृष्ण: (सन्) – अतिपिपासित: सन्
पपौ – पीतवान्।
सार: – गुरो: वसिष्ठस्य अनुमतिं प्राप्य अगर्हित: सज्जनानुरागी दिलीपराज: वत्सपीतावशिष्टं हुतावशिष्टं च
नन्दिन्या: औधस्यं नितरां तृषित: सन् मूर्तिमद्धवल: यश इव अपिबत्।
विग्रह: – अनिन्दितात्मा – अनिन्दित: आत्मा यस्य स:।
कृताभ्यनुज्ञ: – कृता अभ्यनुज्ञा यस्य स:।
वत्सहुतावशेषम् – वत्सहुतयो: अवशेषं वत्सहुतावशेषं, तत्।
नन्दिनीस्तन्यम् – नन्दिन्या: स्तेन भवम्।
अतितृष्ण: – अतिशयिता तृष्णा यस्य स:।
सद्वत्सल: – सत्सु वत्सल:।
क्रिया – पपौ – पा पाने पर-लिट्-प्र-पु-ए-व।
पपौ – पपतु: – पपु:।
अलङ्कार: – उत्प्रेक्षा।
७॰. प्रात: व्रतं समाप्य तौ दम्पती राजधानीं प्रति प्रस्थितौ।
प्रातर्यथोक्तव्रतपारणान्ते
प्रास्थानिकं स्वस्त्ययनं प्रयुज्य।
तौ दम्पती स्वां प्रति राजधानीं
प्रस्थापयामास वशी वसिष्ठ:।।७॰।।
पदच्छेद: – प्रातर्यथोक्तव्रतपारणान्ते – प्रात: + यथोक्तव्रतपारणान्ते।
अन्वय: अन्वयार्थ:
वशी वसिष्ठ: – जितेन्द्रिय: वसिष्ठमुनि:
प्रात: – प्रभाते
यथोक्तव्रतपारणान्ते – पूर्वोक्तगोसेवारूपव्रतान्तभोजनान्ते
प्रास्थानिकं – प्रस्थानकालोचितं
स्वस्त्ययनं – आशीर्वादं
प्रयुज्य – दत्वा
तौ दम्पती – तौ सुदक्षिणादिलीपौ
स्वां राजधानीं प्रति – स्वकीयां राजधानीम् अयोध्यां प्रति
प्रस्थापयामास – प्रेषयामास।
सार: – इत्थं पारणायां समनुष्ठितायां सत्यां गुरुर्वसिष्ठ: प्रस्थानकालोचितां शुभाशिर्वादनं दत्वा सुदक्षिणादिलीपौ
अयोध्यां प्रति प्रेषयामास।
विग्रह: – वशी – वश: अस्य अस्ति इति वशी।
प्रास्थानिकम् – प्रस्थाने भवम्।
दम्पती – जाया च पतिश्च दम्पती।
क्रिया – प्रस्थापयामास – प्र अ स्था णिजन्तरूपम् पर-लिट्-प्र-पु-ए-व।
प्रस्थापयामास – प्रस्थापयामासतु: – प्रस्थापयामसु:।
७१. राजा हुताशं धेनुं च प्रदक्षिणीकृत्य प्रतस्थे।
प्रदक्षिणीकृत्य हुतं हुताश-
मनन्तरं भर्तुररुन्धतीं च।
धेनुं सवत्सां च नृप: प्रतस्थे
सन्मङ्गलोदग्रतरप्रभाव:।।७१।।
पदच्छेद: – हुताशमनन्तरम् – हुताशम् + अनन्तरम्।
भर्तुररुन्धतीम् – भर्तु: + अरुन्धतीम्।
अन्वय: अन्वयार्थ:
नृप: – दिलीपराज:
हुतं – तर्पितं
हुताशं – अÏग्न
अनन्तरं अरुन्धतीं च – प्रदक्षिणानन्तरं गुरुपत्नीं अरुन्धतीं
भर्तु: – स्वामिन: वसिष्ठस्य
सवत्सां धेनुं च – वत्ससहितां नन्दिनीञ्च
प्रदक्षिणीकृत्य – परिक्रम्य
सन्मङ्गलोदग्रतरप्रभाव: (सन्) – मङ्गलाचारै: विवृद्धतेज: सन्
प्रतस्थे – उपक्रान्तवान्।
सार: – दिलीप: तर्पिताÏग्न, गुरुं, गुरुपत्नीं, वत्सान्वितां धेनुं च सर्वान् क्रमश: प्रदक्षिणक्रियया पूजयित्वा सद्भि:
मङ्गलाचारै: समृद्धपुरुष: सन् आश्रमत: राजधानीं प्रति प्रतस्थे।
विग्रह: – हुताशम् – हुतम् अश्नानि इति हुताश:, तम् हुताशम्।
सवत्साम् – वत्सेन सह विद्यमाना सवत्सा, ताम्।
क्रिया – प्रतस्थे – प्र अ स्था गतिनिवृत्तौ आत्म-लिट्-प्र-पु-ए-व।
प्रतस्थे – प्रतस्थाते – प्रतस्थिरे।
व्याकरणविशेष: – प्रतस्थे – प्र पूर्वक स्था धातो: योगे आत्मनेपदम्।
७२. राजा धर्मपत्नीसहित: रथेन ययौ।
श्रोत्राभिरामध्वनिना रथेन
स धर्मपत्नीसहित: सहिष्णु:।
ययावनुद्घातसुखेन मार्गं
स्वेनेव पूर्णेन मनोरथेन।।७२।।
पदच्छेद: – ययावनुद्घातसुखेन – ययौ +अनुद्घातसुखेन।
स्वेनेव – स्वेन अ इव।
अन्वय: अन्वयार्थ:
धर्मपत्नीसहित: – सुदक्षिणासहित:
सहिष्णु: – सहनशील:
स: – दिलीप:
श्रोत्राभिरामध्वनिना – श्रवणाह्लादकरशब्देन
अनुद्घातसुखेन – विघ्नरहितेन सुखेन
रथेन – स्यन्दनेन
स्वेन पूर्णेन मनोरथेन इव – स्वकीयेन सफलेन मनोरथेन इव
मार्गं – अयोध्यापुरपथं
ययौ – अगच्छत्।
सार: – सपत्नीक: स: रथारूढ: प्रस्थित:। रथस्य स्तिमितगतिना स्निग्धस्वनेन च प्रचलितं प्रयाणं दिलीपस्य
सफलमनोरथेन सम्पन्नम् इव आसीत्।
विग्रह: – धर्मपत्नीसहित: – धर्मपत्न्या सहित:।
श्रोत्राभिरामध्वनिना – श्रोत्रयो: अभिराम: ध्वनि: यस्य स: श्रोत्राभिरामध्वनि:, तेन। मनोरथेन – मनस: रथ: मनोरथ:, तेन।
अलङ्कार: – उत्प्रेक्षा।
क्रिया – ययौ – या प्रापणे पर-लिट्-प्र-पु-ए-व।
ययौ – ययतु: – ययु:।
७३. प्रजा: तं तृप्तिमनाप्नुवद्भि: नेत्रै: पपु:।
तमाहितौत्सुक्यमदर्शनेन
प्रजा: प्रजार्थव्रतकर्शिताङ्गम्।
नेत्रै: पपुस्तृप्तिमानाप्नुवद्भि-
र्नवोदयं नाथमिवौषधीनाम्।।७३।।
पदच्छेद: – तमाहितौत्सुक्यमदर्शनेन – तम् + आहितौत्सुक्यम् + अदर्शनेन।
पपुस्तृप्तिमानाप्नुवद्भि: – पपु: + तृप्तिम् + अनाप्नुवद्भि:।
नाथमिवौषधीनाम् – नाथम् अइव + औषधीनाम्।
अन्वय: अन्वयार्थ:
अदर्शनेन – प्रवासनिमित्तेन दर्शनाभावेन
आहितौत्सुक्यम् – जनितदर्शनोत्कण्ठम्
प्रजार्थव्रतकर्शिताङ्गंतं – सन्तानार्थव्रतपालनेन कृशीकृतशरीरं
प्रजा: – जना:
तृप्तिम् अनाप्नुवद्भि: नेत्रै: – तृप्तिम् अलभमानै: नेत्रै:
नवोदयं – नवाभ्युदयं
ओषधीनां नाथम् इव – सोमम् इव
तं – राजानं
पपु: – सतृष्णम् अवलोकितवन्त:।
सार: – यथा कृष्णपक्षे चन्द्रस्य अदर्शनात् उत्कण्ठा भवति, तथा राज्ञ: अदर्शनात् प्रजा: उत्कण्ठिता: आसन्।
प्रजार्थं व्रतम् आचरितवान् दिलीप: कृशकाय: सञ्जात:। इदानिम् उदयन्तं चन्द्रमिव प्रशोभमानं दिलीपं
प्रजा: साकूतमवलोकितवन्त:।
विग्रह: – अदर्शनेन – न दर्शनम् अदर्शनम्, तेन।
प्रजार्थव्रतकर्शिताङ्गम् – प्रजार्थव्रतेन कर्शितम् अङ्गं यस्य स:, तम्।
अनाप्नुवद्भि: – न आप्नुवन्त: अनाप्नुवन्त:,तै:।
नवोदयम् – नव: उदय: यस्य स: नवोदय:, तम्।
अलङ्कार: – उपमा।
क्रिया – पपु: – पा पाने पर-लिट्-प्र-पु-ब-व।
पपौ – पपतु: – पपु:।
७४. पुरं प्रविश्य स: पुनरपि स्वभुजे भूमेर्धुरमाससञ्ज।
पुरन्दरश्री: पुरमुत्पताकं
प्रविश्य पौरैरभिनन्द्यमान:।
भुजे भुजङ्गेन्द्रसमानसारे
भूय: स भूमेर्धुरमाससञ्ज।।७४।।
पदच्छेद: – पुरमुत्पताकम् – पुरम् +उत्पताकम्।
पौरैरभिनन्द्यमान: – पौरै: + अभिनन्द्यमान:।
भूमेर्धुरमाससञ्ज – भूमे: + धुरम् + आससञ्ज।
अन्वय: अन्वयार्थ:
पुरन्दरश्री: – इन्द्र इव ऋद्धिमान्
स: – दिलीपचक्रवर्ती
पौरै: – अयोध्यावासिभि:
अभिनन्द्यमान: – आशंस्यमान:
उत्पताकं – उच्छ्रितध्वजं
पुरं – नगरं
प्रविश्य – उपगम्य
भुजङ्गेन्द्रसमानसारे – सर्पराजस्य आदिशेषस्य तुल्यबले
भुजे – बाहौ
भूय: – पुन:
भूमे: – पृथिव्या:
धुरं – भारं
आससज्ज – स्थापितवान्।
सार: – अनुष्ठितव्रत: प्राप्तवर: देवेन्द्रतुल्य: दिलीप: राजधानीं प्रत्यागत्य भूय: राज्यभारं भुजगेन्द्रसदृशे स्वभुजे
आरोपितवान्। प्रजा: तम् अभिनन्दन्ति स्म।
विग्रह: – पौरै: – पुरे भवा: पौरा:, तै:।
उत्पताकम् – उच्छ्रिता: पताका: यस्मिन् तत् उत्पताकम्।
क्रिया – आससञ्ज – आङ्पूर्वक सज् गतौ पर-लिट्-प्र-पु-ए-व।
आससज्ज – आससज्जतु: – आससज्जु:।
७५. अथ नरपतिकुलभूत्यै राज्ञी गर्भमाधत्त।
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौ:
सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम्।
नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी
गुरुभिरभिनिविष्टं लोकपालानुभावै:।।७५।।
पदच्छेद: – ज्योतिरत्रेरिव – ज्योति: + अत्रे: +इव।
सुरसरिदिव – सुरसरित् +इव।
गुरुभिरभिनिविष्टम् – गुरुभि: + अभिनिविष्टम्।
अन्वय: अन्वायार्थ:
अथ – अनन्तरं
द्यौ: – आकाशं
अत्रे: – अत्रिमुने:
नयनसमुत्थं – नेत्रोत्पन्नं
ज्योति: इव – प्रकाशमिव
सुरसरित् – मन्दाकिनी
वह्निनिष्ठ्यूतं – अग्निप्रक्षिप्तं
ऐशं तेज: इव – महेशतेज: इव
राज्ञी – सुदक्षिणा
नरपतिकुलभूत्यै – दिलीपकुलैश्वर्याय
गुरुभि: – महद्भि:
लोकपालानुभावै: – अष्टलोकपालतेजोभि:
अभिनिविष्टं – अनुप्रविष्टं
गर्भम् आधत्त – गर्भं धृतवती।
सार: – यथा आकाशम् अत्रिमुने: नयनोत्पन्नम् इन्दुं धारयति, यथा भागीरथी पावकप्रक्षिप्तस्कन्दोत्पादकं
शिवसम्बन्धि तेज: दधार, तथैव राज्ञी सुदक्षिणापि दिलीपकुलभूतये महद्भि: अष्टलोकपालानां तेजोभि:
अनुप्रविष्टं गर्भं धृतवती।
क्रिया – आधत्त – आङ् पूर्वस्य डुधाञ् धारणे आत्म-लङ्-प्र-पु-ए-व।
आधत्त – आदधतां – अदधत।
वृत्तम् – मालिनी। ननमयययुतेयं मालिनी भोगिलोकै:।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. औधस्यमिच्छामि तवोपभोक्तुम् – कदा? २. तौ दम्पती स्वां प्रति राजधानीं ययतु: – कुत्र? ३. कां परिरक्षितुं दिलीपः स्वशरीरं समर्पितवान्? ४. कस्य मनोरथसाफल्यं अभवत् ? ५. काः दिलीपं साकूतं अवलोकितवन्तः? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१. दिलीप: नन्दिनीं कीदृशं तनयं याचितवान्? २. सन्तानकामं राजानं नन्दिनी किमादिदेश? ३. पपौ वसिष्ठेऩ कृताभ्यनुज्ञ: – किं पपौ? क:? ४. प्रतस्थे सन्मङ्गलोदग्रतरप्रभाव: – क:? किं कृत्वा? ५. शशंस वाचा पुनरुक्तयेव – क:? कस्यै? |
निर्दिष्टाभ्यासः (Assignment)
१.नन्दिनीदिलीपयो: भाषणम्। २.कालिदासस्य रघुवंशमहाकाव्ये चतुर्थसर्गे वर्तमानानां प्रथमानां एकादशश्लोकादारभ्य विंशतिः पर्यन्तानां श्लोकानां पठनं कार्यम्। |
उत्तराणि (Answer to Objective type questions)
१. वत्सस्य होमार्थविधे: च शेषम्। २. अयोध्याम् ३. नन्दिनीम् ४. दिलीपस्य। ५. प्रजाः। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१. कालिदास:, रघुवंशमहाकाव्यम्, सर्ग: द्वितीय:, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्, कल्पात्ति, पालक्काट्,2013। २. कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस्। |