Unit-4
31-40 श्लोकाः
उद्देश्यानि।(Learning Outcomes)
|
प्राग्व्यपेक्षाः (Prerequisites)
महाकवेः कालिदासस्य रघुवंशे द्वितीयसर्गे राजा दिलीप: कुलगुरो: वसिष्ठस्य आश्रमम् उपेत्य कामधेनुसुतां नन्दिनीं परिसेवितुम् आरब्धवान्। यदा नन्दिनी निद्रां प्राप तदा कुशम् आस्तीर्य तस्या: सकाशं शेतवान् आसीत्। अतिप्रभाते महर्षिशिष्याणां मन्त्रोच्चारणध्वनिमाकण्र्य सुप्तोत्थित: महाराज: भूयोऽपि तस्या: परिचरणे श्रद्धावान् आसीत्। द्वाविंशे दिने हिमवतः एकां गुहांं प्रविष्टां धेनुं कश्चन सिंहः आक्रमितवान्। सिंहं हन्तुं उत्सुकस्य दिलीपस्य सर्वोऽपि प्रयत्नः निष्फलमभूत्। पुनः किं संभूतमितिइति अत्र वर्णयति। |
मुख्यपदानि (Key terms)
सक्ताङ्गुलि:, नखप्रभाभिः, मन्त्रौषधिभिः, पादपोन्मूलनशक्ति:, कुम्भोदरः, देवदारुवृक्षस्य त्वक्।
Discussion
३१. दिलीपस्य दक्षिणकर: चित्रार्पितारम्भ इव अवतस्थे।
वामेतरस्तस्य कर: प्रहर्तु-
र्नखप्रभाभूषितकङ्कपत्रे।
सक्ताङ्गुलि: सायकपुङ्ख एव
चित्रार्पितारम्भ इवावतस्थे।।३१।।
पदच्छेद: – वामेतरस्तस्य – वामेतर: + तस्य।
सायकपुङ्ख एव -सायकपुङ्खः +एव
इवावतस्थे – इव +अवतस्थे।
अन्वय: अन्वयार्थ:
प्रहर्तु: तस्य – प्रहर्तुमिच्छो: दिलीपस्य
वामेतर: कर: – दक्षिण: कर:
नखप्रभाभूषितकङ्कपत्रे – नखकान्त्या प्रशोभितकङ्कपत्रे
सायकपुङ्खे एव – बाणमूले एव
सक्ताङ्गुलि: (सन्) – संलग्नाङ्गुलि: भूत्वा
चित्रार्पितारम्भ इव – चित्रे आलिखितःइव
अवतस्थे – स्थितिं चकार।
सार: – सिंहं प्रहर्तुमिच्छन् राजा बाणम् उद्धर्तुं करं तूणीरे न्यस्तवान्। तदा तस्य नखकान्त्या प्रशोभितकङ्कपत्रे
बाणमूले सक्ताङ्गुलि: सन् चित्रार्पितारम्भ इव अवर्तत।
विग्रह: – सक्ताङ्गुलि: – सक्ता अङ्गुलि: यस्य स:।
चित्रार्पितारम्भ: – चित्रे अर्पित: आरम्भ: यस्य सः।
अलङ्कार: – उत्प्रेक्षा।
क्रिया – अवतस्थे – अव उपसर्गपूर्वक (ष्ठा गतिनिवृत्तौ) स्था धातो: लिट्-प्र-पु-ए-व।
अवतस्थे – अवतस्थाते – अवतस्थिरे।
अव इत्युपसर्गपूर्वक ष्ठा (स्था) धातो: ‘समवप्रविभ्य: स्थ:’इति सूत्रेण आत्मनेपदं लभते।
३२. बाहुस्तम्भेन राजा नष्टवीर्य: बभूव।
बाहुप्रतिष्टम्भविवृद्धमन्यु:
अभ्यर्णमागस्कृतमस्पृशद्भि:।
राजा स्वतेजोभिरदह्यतान्त:
भोगीव मन्त्रौषधिरुद्धवीर्य:।।३२।।
पदच्छेद: – अभ्यर्णमागस्कृतमस्पृशद्भि: – अभ्यर्णम् + आगस्कृतम् + अस्पृशद्भि:।
भोगीव – भोगी + इव।
अन्वय: अन्वयार्थ:
बाहुप्रतिष्टम्भविवृद्धमन्यु: – बाह्वोे: स्तम्भनेन प्रवृद्धरोेष:
मन्त्रौषधिरुद्धवीर्य: भोगी इव – मन्त्रौषधिभ्यां प्रतिबद्धशक्ति: सर्प: इव
अभ्यर्णम् – समीपम्
आगस्कृतं – अपराधकारिणं
स्वतेजोभि: – स्वप्रभाभि:
अन्त: अदह्यत – स्वान्त: एव अतप्यत।
(बाहुस्तम्भेन राजा नष्टतेजोभिरन्तरदह्यत इति आशय:)
सार: – भुजस्तम्भनेन प्रवृद्धकोप: दिलीप: समीपस्थम् अपराधिनं स्वप्रभावेन स्पृष्टुमपि न शशाक इति चिन्तया मनसि महान् खेद: अजायत। मन्त्रौषधिभि: विनष्टवीर्य: सर्प इव।
अलङ्कार: – उपमा।
विग्रह: – रुद्धवीर्य: – रुद्ध: वीर्य: यस्य स:।
विवृद्धमन्यु: – विवृद्ध: मन्यु: यस्य स:।
क्रिया – अदह्यत – दह् भस्मीकरणे धातो: आत्मनेपदी कर्मणि लङ्-प्र-पु-ए-व।
अदह्यत – अदह्येतां – अदह्यन्त।
३३. सिंह: राजानं मनुष्यवाचा उवाच।
तमार्यगृह्यं निगृहीतधेनु-
र्मनुष्यवाचा मनुवंशकेतुम्।
विस्माययन्विस्मितमात्मवृत्तौ
सिंहोरुसत्वं निजगाद सिंह:।।३३।।
पदच्छेद: – तमार्यगृह्यम् – तम् +आर्यगृह्यम्।
विस्मितमात्मवृत्तौ – विस्मितम् + आत्मवृत्तौ।
अन्वय: अन्वयार्थ:
निगृहीतधेनु: सिंह: – धेनुं बलात्कारेण गृहीत: सिंह:
आर्यगृह्यं – सज्जनश्रेष्ठं
मनुवंशकेतुं – रघुकुलचूडामणिं
सिंहोरुसत्वं – मृगराज इव पराक्रमशालिनं
आत्मवृत्तौ विस्मितं – बाहुस्तम्भेन विस्मयाकुलं
तं – दिलीपराजं
विस्माययन् – आश्चर्यं जनयन्
निजगाद – उवाच।
सार: – उन्नतकुलजातंं मनुष्यकुलतिलकं सिंहोरुसत्त्वं बाहुस्तम्भनात् आश्चर्यान्वितं दिलीपराजम् इतोऽपि आश्चर्यं
प्रापयन् सिंह: मनुष्यवाचा अभाषत।
विग्रह: – मनुष्यवाचा – मनुष्यस्य वाक् मनुष्यवाक्, तया मनुष्यवाचा।
क्रिया – निजगाद – नि उपसर्गपूर्वक गद व्यक्तायां वाचि धातो: परस्मैैपदी लिट्-प्र-पु-ए-व।
निजगाद – निजगददु: – निजगदु:।
३४. दिलीपस्य अस्त्रप्रयोग: फलरहित: सञ्जात:।
अलं महीपाल तव श्रमेण
प्रयुक्तमप्यस्त्रमितो वृथा स्यात्।
न पादपोन्मूलनशक्तिरंह:
शिलोच्चये मूच्र्छति मारुतस्य।।३४।।
पदच्छेद: -अप्यस्त्रमित:- अपि + अस्त्रम् + इत:।
अन्वय: अन्वयार्थ:
महीपाल – पृथ्वीनाथ
तव श्रमेण अलं – तव श्रमेण नास्ति प्रयोजनं (साध्याभावात् श्रम: न कर्तव्य: इत्यर्थ:)
इत: मयि – अस्मिन् मयि
प्रयुक्तम् अपि अस्त्रं – क्षिप्तम् आयुधम्
वृथा स्यात् – व्यर्थं भविष्यति
पादपोन्मूलनशक्ति: – वृक्षोन्मूलनशक्ति:
मारुतस्य रंह: – पवनस्य वेग:
शिलोच्चये – पर्वते
न मूच्र्छति – न प्रसरति।
सार: – हे राजन्, बाणप्रयोगेण अलम्। वृक्षोत्पाटनसमर्थ: वायु: शिलोच्चये असमर्थ:। बाणप्रयोगस्य निष्फलत्वं
भवत: शक्तिराहित्येन न, किन्तु मम प्रभाव: एव इति सिंह: राजानं वदति इति फलितोऽर्थ:।
विग्रह: – महीपाल: – मह्या: पाल:।
पादप: – पादै: पिबति इति पादप:।
अलङ्कार: – दृष्टान्त:। (चेद् बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृति:)
क्रिया – मूच्र्छति – मूच्र्छ मोहने धातो: पर-लट्-प्र-पु-ए-व।
मूच्र्छति – मूच्र्छत: – मूच्र्छन्ति।
३५. अहं अष्टमूर्तेः महादेवस्य किंकरः कुम्भोदर:।
कैलासगौरं वृषमारुरुक्षो:
पादार्पणानुग्रहपूतपृष्ठम्।
अवेहि मां किङ्करमष्टमूर्ते:
कुम्भोदरं नाम निकुम्भतुल्यम्।।३५।।
पदच्छेद: – किङ्करमष्टमूर्ते: – किङ्करम् + अष्टमूर्ते:।
वृषमारुरुक्षो: – वृषम् + आरुरुक्षो:।
अन्वय: अन्वयार्थ:
कैलासगौरं वृषं – कैलासपर्वतसदृशं शुभ्रं ऋषभं
आरुरुक्षो: अष्टमूर्ते: – आरोढुम् अभिलषत: परमशिवस्य
पादार्पणानुग्रहपूतपृष्ठं – पादन्यासेन पवित्रीभूतं पृष्ठभागं
कुम्भोदरं नाम – कुम्भोदरनामकं
किङ्करं – सेवकं
निकुम्भमित्रं – निकुम्भस्य मित्रं
माम् अवेहि – माम् जानीहि।
सार: – अहं वृषभारूढस्य अष्टमूर्ते: शिवस्य सेवक: कुम्भोदर: भवामि।
विग्रह: – कैलासगौरम् – कैलास इव गौरम्।
अष्टमूर्ते: – अष्टौ मूर्तय: यस्य स:, तस्य।
क्रिया – अवेहि – अव् अ इण् गतौ पर-लोट्-म-पु-ए-व।
अवेहि – अवेतां – अवेत।
३६. शिवेन पुत्रीकृत: देवदारु: पुरत: अस्ति।
अमुं पुर: पश्यसि देवदारुं
पुत्रीकृतोऽसौ वृषभध्वजेन।
यो हेमकुम्भस्तननिस्सृतानां
स्कन्दस्य मातु: पयसां रसज्ञ:।।३६।।
पदच्छेद: – पुत्रीकृतोऽसौ – पुत्रीकृत: + असौ।
अन्वय: अन्वयार्थ:
पुर: – अग्रत:
अमुं देवदारुं – इमं देवदारुनामकं वृक्षं
पश्यसि – वीक्ष्यसे
य: असौ – य: अयं
वृषभध्वजेन – वृषभवाहनेन शिवेन
पुत्रीकृत: – पुत्रत्वेन स्वीकृत:
स्कन्दस्य मातु: – कुमारस्य मातु:
हेमकुम्भस्तननि:सृतानां – हेमकुम्भस्तनाभ्यां नि:सृतानां
पयसां – क्षीराणां, नीराणां।
रसज्ञ: (भवति) – स्वादु ज्ञातवान् (भवति) (पुर: स्थितोऽयं देवदारु: शिवेन पुत्रीकृत:)
सार: – हे राजन्, त्वं अग्रतो एनं देवदारुवृक्षं पश्यसि खलु? अयं पार्वतीपरमेश्वराभ्यां पुत्रत्वेन स्वीकृत:। यथा
पार्वतीदेवी स्कन्दं वात्सल्येन स्तन्यं पाययति स्म, तथा जलसेचनेन एनं देवदारुं परिपालयति
हेमकुम्भसदृशाभ्यां स्तनाभ्यां स्कन्दं पयसा पाययति। हेमकुम्भमेव स्तनं, तेन देवदारुं जलेन प्रवर्धयति।
विग्रह: – रसज्ञ: – रसं जानातीति रसज्ञ:।
पुत्रीकृत: – अपुत्रं पुत्रं सम्पद्यमानं कृत:।
वृषभध्वजेन – वृषभ: ध्वज: यस्य स: वृषभध्वज:, तेन।
क्रिया – पश्यसि – दृशिर् प्रेक्षणे पर-लट्-म-पु-ए-व।
पश्यसि – पश्यथ: – पश्यथ।
३७. पार्वती एनं देवदारुं दृष्ट्वा शुशोच।
कण्डूयमानेन कटं कदाचि-
द्वन्यद्विपेनोन्मथिता त्वगस्य।
अथैनमद्रेस्तनया शुशोच
सेनान्यमालीढमिवासुरास्त्रै:।।३७।।
पदच्छेद: – अथैनमद्रेस्तनया – अथ + एनम् + अद्रे: + तनया।
त्वगस्य – त्वक् + अस्य।
वन्यद्विपेनोन्मथिता – वन्यद्विपेन अ उन्मथिता।
अन्वय: अन्वयार्थ:
कदाचित् – एकदा
कटं – कपोलं
कण्डूयमानेन – घर्षयता
वनद्विपेन – वनगजेन
अस्य त्वक् – अस्य देवदारुवृक्षस्य त्वक््
उन्मथिता – उत्पाटिता
अथ – तदनन्तरं
अद्रे: तनया – पार्वती
असुरास्त्रै: – दैत्यास्त्रै:
आलीढं – क्षतं
सेनान्यमिव – सेनापतिं स्कन्दमिव
एनं – व्रणीतं अमुं तरुं दृष्ट्वा
शुशोच – शोचितवती।
सार: – एकदा केनचित् गजेन देवदारुवृक्षस्य त्वक् कपोलघर्षणेन उत्पाटिता। दैत्यास्त्रै: व्रणितस्य कुमारस्य
(सुब्रह्मण्यस्य) अवस्थायां यथा पार्वती तथा एनं देवदारुं प्रति शुशोच।
विग्रह: – द्विप: – द्वाभ्यां पिबतीति द्विप:।
क्रिया – शुशोच – शुच् शोके पर-लिट्-प्र-पु-ए-व।
शुशोच – शुशुचतु: – शुशुचु:।
३८. वनद्विपानां निवारणार्थं अत्राहं नियुक्तः।
तदा प्रभृत्येव वनद्विपानां
त्रासार्थमस्मिन्नहमद्रिकुक्षौ।
व्यापारित: शूलभृता विधाय
सिंहत्वमङ्कागतसत्ववृत्ति:।।३८।।
पदच्छेद: – प्रभृत्येव – प्रभृति + एव।
अस्मिन्नहम् – अस्मिन् + अहम्।
त्रासार्थमस्मिन्नहमद्रिकुक्षौ – त्रासार्थम् + अस्मिन् + अहम् +अद्रिकुक्षौ।
अन्वय: अन्वयार्थ:
तदा प्रभृति – तत्कालात् आरभ्य एव
वनद्विपानां त्रासार्थं – वनगजानां भयार्थं
शूलभृता – शिवेन
अङ्कागतसत्ववृत्ति: – समीपमागतप्राणिभक्षणशील: एव
सिंहत्वं – केसरित्वं
विधाय – कृत्वा
अस्मिन् अद्रिकुक्षौ – एतस्मिन् पर्वतगह्वरे
अहं व्यापारित: – अहं नियुक्त:।
सार: – ‘सिंहरूपधारिणा समीपागतजन्तुभोजिना त्वया वनगजेभ्य: अयं वृक्ष: रक्षणीय:’इति मत्स्वामिन: शिवस्य
आज्ञा। तदारभ्य अस्यां गुहायां निवसामि। (इति सिंह: राजानमवदत्)
विग्रह: – शूलभृता – शूलं बिभर्ति इति शूलभृत्, तेन।
सत्ववृत्ति: – सत्वै: वृत्ति: यस्य स: सत्ववृत्ति:।
सिंहत्वम् – सिंहस्य भाव: सिंहत्वम्।
३९. इयं धेनु: क्षुधितस्य मम तृप्त्यै अलम्।
तस्यालमेषा क्षुधितस्य तृप्त्यै
प्रदिष्टकाला परमेश्वरेण।
उपस्थिता शोणितपारणा मे
सुरद्विषश्चाद्रमसी सुधेव।।३९।।
पदच्छेद: – सुधैव – सुधा + एव।
तस्यालम् – तस्य + अलम्।
सुरद्विषश्चान्द्रमसी – सुरद्विष: + चान्द्रमसी।
अन्वय: अन्वयार्थ:
परमेश्वरेण – शिवेन
प्रदिष्टकाला – निर्दिष्टसमयं यावत्
उपस्थिता – सम्प्राप्ता
एषा शोणितपारणा – इयं रक्तपारणा (गोरूपा) (पारणा तु व्रतावसाने समाप्तिरूपकं पानीयस्य नाम)
सुरद्विप: – देवारीणाम् (दैत्यानां)
चान्द्रमसी – चन्द्रसम्बन्धिनी
सुधा इव – अमृतमिव
मे तृप्त्यै – मम तृप्त्यर्थं
अलम् – पर्याप्तमस्ति।
सार: – अत: परमेश्वरेण प्रदत्ता एषा धेनु: मम पारणासमये प्राप्ता एव। देववैरिणां चान्द्रमसी सुधा इव एषा मम
तृप्त्यै पर्याप्ता अस्ति।
अलङ्कार: – उपमा।
विग्रह: – चान्द्रमसी – चन्द्रमस: इयम्।
क्षुधितस्य – क्षुत् अस्य अस्तीति क्षुधित:, तस्य।
परमेश्वरेण – परम: ईश्वर: परमेश्वर:, तेन।
४॰. त्वं लज्जां विहाय गच्छ।
स त्वं निवर्तस्व विहाय लज्जां
गुरोर्भवान् दर्शितशिष्यभक्ति:।
शस्त्रेण रक्ष्यं यदशक्यरक्षं
न तद्यश: शस्त्रभृतां क्षिणोति।।४॰।।
पदच्छेद: – गुरोर्भवान् – गुरो: + भवान्।
यदशक्यरक्षम्– यत् + अशक्यरक्षम्।
अन्वय: अन्वयार्थ:
स: त्वं – तादृश: (शत्रुनाशने समर्थ:) भवान्
लज्जां विहाय – व्रीडां परित्यज्य
निवर्तस्व – प्रतिगच्छ
भवान् – त्वं
गुरो: दर्शितशिष्यभक्ति: – गुरुं वसिष्ठं प्रति प्रकाशितभक्ति: अस्ति
यद् शस्त्रेण अशक्यरक्ष्यं – यद् आयुधेन अपि रक्षितुमशक्यं
तद् रक्ष्यं – तद् संरक्षणीयं वस्तु नष्टं चेदपि
शस्त्रभृतां यश: – शस्त्रधारिणां कीर्तिं
न क्षिणोति – न हिनस्ति।
सार: – गुरुधनस्य रक्षणे तव श्रद्धा महती। अत: लज्जाम् उपेक्ष्य गच्छ। यद् आयुधेनापि रक्षितुम् अशक्यं वस्तु
नष्टं चेदपि तत् शस्त्रधारिणां कीर्तिं न हिनस्ति।
विग्रह: – रक्ष्यं – रक्षितुं योग्यम्।
शस्त्रभृतां – शस्त्रं विभर्ति इति शस्त्रभृत्, तेषाम्।
क्रिया – निवर्तस्व – नि अ वृतु वर्तने आत्म लोट्-म-पु-ए-व।
निवर्तस्व – निवर्तेथाम् – निवर्तध्वम्।
पुनरावृत्तिः (Recap)
|
वस्तुनिष्ठप्रश्नाः (Objective type questions)
१. गोरीगुरोर्गह्वरमाविवेश – का? २. तदीयमाक्रन्दितमार्तसाधो: – आर्तसाधु: क:? ३. ततो मृगेन्द्रस्य मृगेन्द्रगामी – मृगेन्द्रगामी क:? ४. चित्रार्पितारम्भ इवावतस्थे – क:? ५. बाहुप्रतिष्टम्भ विवृद्धमन्यु: – क:? |
एकेन वाक्येन द्वाभ्यां वा उत्तराणि लिखत।(Answer the following questions in one or two sentences)
१.. गोरीगुरो: गह्वरमाविवेश – का? किमर्थम्? २. प्रसह्य सिंह: किल तां चकर्ष – काम्? कदा? ३. धनुर्धर: केसरिणं ददर्श – कीदृशं केसरिणम्? |
निर्दिष्टाभ्यासः (Assignments)
१. उद्धर्तुमैच्छत् प्रसभोद्धृतारि: -विशदयत। २. कालिदासस्य रघुवंशमहाकाव्ये तृतीयसर्गे वर्तमानं षÏट्वशतिः श्लोकादारभ्य पञ्चÏस्त्रशत् श्लोकपर्यन्तं भागं पठन्तु। |
उत्तराणि (Answer to Objective type questions)
१.नन्दिनी। २. नृप:। ३. दिलीप:। ४. दिलीपस्य कर:। ५. राजा। |
अधिकवाचनाय ग्रन्थाः (suggested Readings)
१.कालिदास:, रघुवंशमहाकाव्यम्, सर्गः द्वितीयः, व्याख्या टि.के.रामचन्द्र अय्यर्, आर्.एस्.वाध्यार् आन्ड् सन्स्, कल्पात्ति, पालक्काट्,2013। २.कालिदास:, रघुवंशमहाकाव्यम्, व्याख्या,कुट्टिकृष्णमारार्, मातृभूमि पब्लिक्केषन्स्, कोट्टयम्। ३. कालिदासः, रघुवंशमहाकाव्यम्,हिंदी टीका, श्रीब्रह्मशङ्करमिश्रः साहित्यशास्त्री.चौखम्बा संस्कृतसीरीज़ बनारस। |